पूर्वम्: ८।४।६
अनन्तरम्: ८।४।८
 
सूत्रम्
अह्नोऽदन्तात्॥ ८।४।७
काशिका-वृत्तिः
अह्नो ऽदन्तात् ८।४।७

अदन्तं यत् पूर्वपदं तत्स्थान् निमित्तादुत्तरस्य अह्नो नकारस्य णकार आदेशो भवति। पूर्वाह्णः। अपराह्णः। अदन्तातिति किम्? निरह्नः। दुरह्नः। अह्नो ऽह्न एतेभ्यः ५।४।८८ इत्यह्नादेशः। अह्नः इत्यकारान्तग्रहणाद् दीर्घाह्नी शरदित्यत्र न भवति।
न्यासः
अह्नोऽदन्तात्?। , ८।४।७

"अह्नः" इति षष्ठ्याः स्थाने प्रथमा पूर्ववत्()। समानमेव यन्नित्यं पदं तत्? समानग्रहणादाश्रयन्ति ये, तेषां विध्यर्थमेतत्()। अन्येषां तु नियमार्थंम्()। एवमुत्तरत्रापि नियमार्थता विध्यर्थता च यथायोगं वेदितव्या। "पूर्वाह्णाः" इत्यादि। पूर्वापरादिसूत्रेण ["पूर्वपरादि"--कांउ।पाठः, प्रांउ।पाठश्च] २।२।१ एकदेशी समासः। "राजाहःसखिभ्यष्टच्()" (५।४।९१) इति टच्? समासान्तः। "अह्नोऽह्न एतेभ्यः" ५।४।८८ इत्यह्नादेशः, सवर्णदीर्घः। "निरह्नः" इति। निर्गतमह्न इति प्रादिसमासः। शेषं पूर्वयत्()। "दीर्घाह्नो" इति। दीर्घाव्यहानि यस्यामिति बहुव्रीहिः। टज्विचौ "तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः" ५।४।८६ इत्यतस्तत्पुरुषग्रहणमनुवत्र्तते। तेन बहुव्रीहौ टज्न भवति। "अन उपधालोपिनोऽन्यतरस्याम्()" ४।१।२८ इति ङीप्(), "अल्लोपोऽनः" ६।४।१३४ इत्युपधाकारलोपः। अत्राकारान्तग्रहणान्न भवति णत्वम्()। यदि त्वनकारान्तस्य स्यात्(), ततः "पूर्वाह्णः" इत्यत्र प्रत्ययात्प्राग्यथा व्यवस्थितस्याङ्नो नकारस्य णकारादेशो भवति, तथा "दीर्घाह्नी शरत" इत्यत्रापि स्यात्()। अतोऽस्य ग्र्हणं हि व्याख्यानाद्विज्ञायते। तपरकरणात्? पराजितमहः "पराह्नः" इत्यत्र आकारान्तान्न भवति। अन्तग्रहणं विस्पष्टार्थम्()। तपरेणाकारेम पूर्वपदे विशेष्यमाण तदन्तविधिर्भविष्यतीति विनाप्यन्तग्रहणतदन्तता लभ्यत इति।
बाल-मनोरमा
अह्नोऽदन्तात् ७८१, ८।४।७

अह्नोऽदन्तात्। "पूर्वपदात्संज्ञायाम्" इत्यतः पूर्वपदादित्यनुवृत्तमदन्तादित्यत्रान्वेति। "रषाभ्यां नो णः" इति सूत्रं षकारवर्जमनुवर्तते। पूर्वपदादित्यनेन पूर्वपदस्थादिति विवक्षितम्। तदाह--अदन्तपूर्वेति। तदन्तविधिनैव सिद्धे अन्तग्रहणं स्पष्टार्थम्। लक्षेषु अहस्सु भवो लक्षाह्ण इत्यत्र णत्वार्थं षादित्यपि बोध्यम्। समासान्ते परे इति किम्?। द्वे अहनी भृतो द्व्यहीनः। अत्र समासान्तविधेरनित्यत्वाट्टज्भावेऽह्नादेशो न। सर्वाह्ण इति। सर्वमहरिति विग्रहे "पूर्वकालैके"ति समासे "राजाहःसखिभ्यः" इति टच्, अह्नादेशः। णत्वं। "रात्राह्नाहाः" इति पुंस्त्वम्। पूर्वाह्ण इति। समासादि सर्वाह्णवत्। सङ्ख्याताह्न इति। सङ्ख्यातमहरिति विग्रहः। विशेषणसमासः, टच् अह्नादेशः। निमित्ताऽभावान्न णत्वम्। पुण्यपूर्वस्य त्वग्रे वक्ष्यते। सङ्ख्यापूर्वस्य उदाहरति--द्वयोरह्नोरित्यादि। द्वयह्न इति। तद्धितार्थे द्विगुः। टच्। ततो भावार्थे ठञ्, तस्य लुक्, अह्नादेशः। प्रसङ्गादाह--स्त्रियामिति। द्व्यह्नेति। द्व्योरह्नोर्भवेत्यर्थः। ठञ्। लुक् च पूर्ववत्। "अपरिमाणविस्ते"ति न ङीप्। टञ्निमित्तस्तु ङीब्नेत्यपरिमाणविस्तेत्यत्रोक्तम्। टचष्टित्वेऽप्युपसर्वनत्वाट्टिड्ढेति न ङीप्। वस्तुतस्तु स्त्रीत्वमेवाऽत्रनास्ति। "रात्राह्नाहाः पुंसी"त्युक्तेरिति शब्देन्दुशेखरे प्रपञ्चितम्। सङ्ख्यापूर्वस्योदाहरणान्तरमाह-द्व्यह्नप्रिय इति। द्वे अहनी प्रिये यस्येति विग्रहः। तद्धितार्थ इत्युत्तरपदे द्विगुः। टच्, अह्नादेश इति भावः। अव्ययपूर्वस्योदाहरति--अत्यह्न इति। अहरतिक्रान्त इति विग्रहः। "अत्यादय" इति समासः। टच् अह्नादेश इति भावः।

तत्त्व-बोधिनी
अह्नोऽदन्तात् ६८८, ८।४।७

रेफादिति। यदि तु लक्षे अहस्तु भव इत्यादिव्युत्पत्त्या "लक्षाह्ण"इत्यपि प्रयोगोऽस्ति, तर्हि षादित्यपि बोध्यम्। "रषाभ्या"मित्यधिकारात्। ठञो लुगिति। "अणो लु"गिति वृत्तिकाराद्युक्तमयुक्तमिति भावः। प्रसङ्गादाह---सत्रियामिति। नन्विह स्त्रीत्वं दुर्लभं, "रात्राह्नहाः पुंसी"ति वचनादिति चेन्मैवम्। सर्वमहः सर्वाहृ इत्यादावुपक्षीणस्य वद्वचनस्य लुप्ततद्धितायामप्रवृत्ते। "लुपि युक्तव"दिति लिङ्गतिदेशो ह्रत्र प्रमाणम्। प्राकृतलिङ्गानुसासनानां लुप्तप्रत्ययेषु प्रवृत्तौ तद्वैयथ्र्यापत्तेः। अतएव लवणः सूपः लवणा यवागूरित्यादौ न क्लीबत्वम्। किं च "द्विगुप्राप्तापन्ने "त्यादिना परवल्लिङ्गत्वे प्रतिषिद्धे तदपवादस्य "रात्राह्नाहाः" इत्यस्याऽप्राप्तिरेवेति व्द्यह्नशब्दोऽयं विशेष्यनिघ्न एव, न तु नियतपुंलिङ्गः। एवं चाऽत्र भवार्थकतद्धिते लुप्तेऽपि "यः शिष्यते स लुप्यमानार्थाभिधायी"ति न्यायेन भवार्थवत्तन्निष्ठस्त्रीत्वाभिधानमपि न्याय्यमेवेति दिक्। टाबिति। न चेह ठञन्तत्वान्ङीप्स्यादिति शङ्क्यं, ठञो लुप्तत्वात्। न च प्रत्ययलक्षणं, वर्णाश्रयत्वात्। "ठञो योऽकारस्तदन्तान्ङी"बिति तत्र व्याख्यात्त्वात्। अतएव वृत्तिकाराद्युक्ताऽणो लुक् पक्षेऽपि न ङीफ्, "अण्योऽकारः"इति तत्र व्याख्यातत्वात्। न चैवमपि टजन्तत्बान्ङीप्स्यादेवेति वाच्यम्। टचः समासान्ततया तदन्तस्य तद्धितार्थं प्रत्युपसर्जनत्वात्। अतएव हि आपिशलिना प्रोक्तमधीयाना ब्राआहृणी आपिशलेत्युदाह्मतं भाष्ये। "द्विगो"रिति ङीप्तु न शङ्क्य एव, "अपरिमणे"ति निषेधात्। अतष्टाबेबात्र युक्तः। तथैवोदाहरति--