सूत्रम्
मद्रवृज्योः कन्॥ ४।२।१३०
काशिका-वृत्तिः
मद्रवृज्योः कन् ४।२।१३१
मद्रवृजिशब्दाभ्यां कन् प्रत्ययो भवति शैषिकः। जनपदवुञो ऽपवादः। मद्रेसु जातः मद्रकः। वृजिकः।
न्यासः
मद्रवृज्योः कन्। , ४।२।१३०
"जनपदवुञोऽपवादः"इति। "अवृद्धादपि"
४।२।१२४ इत्यादिप्राप्तस्य। मद्रवृज्योः कन्निति ञ्यन्तस्य परनिपातः "द्वन्द्वे घि"
२।२।३२ इत्यस्य विधेरनित्यत्वज्ञापनार्थम्। तेन धूमाग्नी इत्येवमादि सिद्धं भवति॥
बाल-मनोरमा
मद्रवृज्योः कन् १३३६, ४।२।१३०
मद्रवृज्योः कन्। मद्रो वृजिश्च जनपदविशेषः। जगपदवुञोऽपवादः।