देशे इत्येव। ककारौपधात् प्रातिपदिकादण् प्रत्ययो भवति शैसिकः। जनपदवुञो ऽपवादः। अन्यत्र जनपदं मुक्त्वा पूर्वेण एव कोपधादणि सिद्धम्। ऋषिकेषु जातः आर्षिकः। माहिषिकः। अण्ग्रहणम् उवर्णान्तादपि यथा स्यात्, इक्ष्वाकुषु जातः ऐक्ष्वाकः।
"जनपदवुञोऽपवादः" इति। पूर्वत्प्रप्तस्य। किं पुनर्देशादन्यत्र वत्र्तमानो नेष्यते,
यो देशे वत्र्तते? इत्याह-- "अन्यत्रेत्यादि पूर्वेण" इति।"प्रस्थोत्तरपदात्"
४।२।१०९ इति सूत्रेण।
अथाण्ग्रहणं किमर्थम्, न कोपधाद्यथाविहितमेवोच्येत,
यथाविहितमुच्यमानेऽणपवादो वुञ् स्यादिति चेत्? न; वुञ्विधाने हि वचनमनर्थकं स्यात्,तेन विना वुञः सिद्धत्वात्। तस्माद्वचनसामथ्र्याद्विहितोऽणेव प्राप्नोति। अन्येन बाधित्वा अत एवाण् अतएवाण् भविष्यतीति। स हि "प्राग्दीव्यतोऽण्"
४।१।८३ इति विहितो बाधितश्च वुञैवेत्यत आह-- "अण्ग्रहणम्" इत्यादि। "इक्ष्वाकुषु जातः"इति। इक्ष्वाकुशब्दादोर्देशे ठञ्
४।२।११८ प्राप्तः, तस्मिन् जनपदवुञा बाधिते यदीहाज्ग्रहणं न क्रियते तदा पुनर्वचनाद्()वुञेव भवति, अण्ग्रहणादणेव भवति। "ऐक्ष्वाकः" इति। "दाण्डिनायनहास्तिनायन"
६।४।१७४ इत्यादाविक्ष्वाकुशब्दस्योकारस्य लोपो निपातितः॥