पूर्वम्: ५।२।४२
अनन्तरम्: ५।२।४४
 
सूत्रम्
द्वित्रिभ्यां तयस्यायज्वा॥ ५।२।४३
काशिका-वृत्तिः
द्वित्रिभ्यां तयस्य अयज् वा ५।२।४३

पूर्वेण विहितस्य तयस्य द्वित्रिभ्यां परस्य वा अयजादेशो भवति। द्वौ अवयवौ अस्य द्वयम्, द्वितयम्। त्रयम्, त्रितयम्। तयग्रहणं स्थानिनिर्देशार्थम्। अन्यथा प्रत्ययान्तरम् अयज् विज्ञायेत। तत्र को दोषः? त्रयी गतिः इति तयनिबन्धन ईकारो न स्यात्, प्रथमचरमतयाल्पार्धकतिपय। नेमाश्च १।१।३२। इत्येष विधिर्न स्यात्। द्वये। द्वयाः। चकारः स्वरार्थः।
लघु-सिद्धान्त-कौमुदी
द्वित्रिभ्यां तयस्यायज्वा ११७६, ५।२।४३

द्वयम्। द्वितयम्। त्रयम्। त्रितयम्॥
न्यासः
द्वित्रिभ्यां तयस्यायज्वा। , ५।२।४३

तयप्रत्ययग्रहणं किमर्थम्(), यावता प्रकृत एवासावनुवर्त्तिष्यते? इत्याह--"तयग्रहणम्()" इत्यादि। यदि तयब्ग्रहणं न क्रियते, तदा तयप्रत्ययादन्य एवायमयच्? प्रत्ययो विज्ञायेत, न तयबादेशः। किं पुनः स्याद्यदि प्रत्ययान्तरं स्यात्()? तयष्काय्र्यमयचो न स्यात्()। किं तत्()? "प्रथमचरम्()" १।१।३१ इत्यादिना जसि विभाषा सर्वनामसंज्ञा--द्वये, द्वयाः; "टिड्ढाणञ्()" ४।१।१५ इति ङोप्()--द्वयो। ननु च पूर्वसूत्रेणैव विहितस्य तस्य इह चादेशार्थानुवृत्तिर्विज्ञायते। प्रयोजनान्तराभावात्(), "द्वित्रिभ्याम्()" इति। पञ्चमीनिर्देशः "तस्मादित्युत्तरस्य" १।१।६६ इति षष्ठ()न्तं सम्पादयिष्यते, अतोनेनान्तरेणापि तयब्ग्रहणं तयप्स्थानित्वं लभ्यत एव? नैतदस्ति; यद्यनुवृततिस्तयपोऽन्यार्या न स्यात्(), ततोऽनुवृत्तिसमथ्र्यात्? तयपः स्थानित्वं विज्ञायेत। तस्य त्वनुवृत्तिरुत्तरार्थिपि भवति। "उभादुदात्तो नित्यम्()" ५।२।४४ इत्यव योगविबागेन तयब्विधातव्यः। न चानुवत्र्तमानः शक्यते विधातुम्()। अत उत्तरार्थायामनुवृत्तौ सत्यां तयप्स्थानित्वमयुक्तमिति तयब्ग्रहणं क्रियते॥
बाल-मनोरमा
द्वित्रिभ्यां तयस्याऽयज्वा १८२०, ५।२।४३

द्वित्रिभ्यां द्वित्रिभ्यां परस्य तयपोऽयज्वा स्यादित्यर्थः। द्वयमिति। द्विशब्दात्तयपोऽयचिः "यस्येति चे"ति इकारलोपः। द्व्यवयवकसमुदाय इत्यर्थः। एवम् त्रयम्।

तत्त्व-बोधिनी
द्वित्रिभ्यां तयस्याऽयज्वा १४०६, ५।२।४३

त्रयमिति। ननु "त्रयोऽवयास्तन्तवो यस्य त्रयं सूत्र"मिति प्रयोगे संभवत्यपि "मुनित्रय "मिति प्रयोगो न सङ्गच्छते, अन्यपदार्थस्यावयविनोऽभावादिति चेत्। अत्राहुः---अवयवी त्वत्र समुदाय एव। स चातिरिक्तो वाऽनतिरिक्तो वेति विचारान्तरम्। एवं च समुदायस्यातिरिक्तत्वपक्षेऽपि समुदायघटकत्वेन मुनीनां प्रत्यभिज्ञानान्मुनित्रयनमस्कारस्य विघ्नविघातकत्वमस्त्येवेति।