पूर्वम्: ५।२।४४
अनन्तरम्: ५।२।४६
 
सूत्रम्
तदस्मिन्नधिकमिति दशान्ताड्डः॥ ५।२।४५
काशिका-वृत्तिः
तदस्मिन्नधिकम् इति दशान्ताड् डः ५।२।४५

ततिति प्रथमासमर्थातस्मिनिति सप्तम्यर्थे दशान्तात् प्रातिपदिकात् डः प्रत्ययो भवति यत् तत्प्रथमासमर्थम् अधिकं चेत् तद् भवति। इतिकरणस् ततश्चेद् विवक्षा। एकादश अधिका अस्मिनशते एकादशम् शतम्। एकादशं सहस्त्रम्। द्वादशं शतम्। द्वादशं सहस्रम्। दशान्तातिति किम्? पञ्च अधिका अस्मिन् शते। अन्तग्रहणं किम्? दशाधिका अस्मिन् शते। प्रत्ययार्थेन च समानजातीये प्रकृत्यर्थे सति प्रत्यय इष्यते। एकादश कार्षापणा अधिका अस्मिन् कार्षापणशते एकादशं कार्षापनशतम् इति। इह तु न भवति, एकादश माषा अधिका अस्मिन् कार्षापणशते इति। शतसहस्रयोश्च इष्यते। इह न भवति, एकादशाधिका अस्यां त्रिंशति इति। इतिकरणो विवक्षार्थ इत्युक्तं, तत इदं सर्वं लभ्यते। कथम् एकादशम् शतसहस्रम् इति? शतानां सहस्रं, सहस्राणाम् वा शतम् इति शतसहस्रम् इत्युच्यते। तत्र शतसहस्रयोः इत्येव सिद्धम्। अधिके समानजाताविष्टं शतसहस्रयोः। यस्य सङ्ख्या तदाधिक्ये डः कर्तव्यो मतो मम।
न्यासः
तदस्मिन्नधिकमिति दशान्ताड्डः। , ५।२।४५

"प्रत्ययार्थेन च" इत्यादि। यथाजातीयः प्रत्ययार्थस्तथाजातीय एव यदि प्रकृत्यर्थो वति एवं प्रत्यय इत्यते, नान्यथा। प्रत्ययार्थेन प्रकृत्यर्थस्य तुल्यजातीयत्वं दर्शयितुमुदाहरणमुपन्यस्यति--"एकादश कार्षापणाः" इति। प्रकृत्यर्थोऽप्येकादश कार्षापणा एवेति प्रकृत्यर्थः प्रत्ययार्थेन समानजातीयः। "इह तु न" इत्यादि। अत्र हि कार्षापणशतं प्रत्ययार्थः। प्रकृत्यर्थस्त्वेकादश माषाः। ते च कार्षापणेभ्यो विजातीया इति न भवति प्रत्ययः। "शतसहरुआयोश्चैवेष्यते" इति। यत्? "तदस्मिन्()" त()स्मश्च शते सहरुओ वा प्रत्यय इष्यते; नान्यतर तिं()रशत्यादौ। कथं पुनरनुपात्तमेव सूत्रे लभ्यते? इत्याह--"इति करणो विवक्षार्थः" इत्यादि। "कथम्()" इत्यादि। यदि शते सहरुओ वाधिकिनि प्रत्ययेन भवितव्यम्(), इह प्रत्ययो न प्राप्नोति--एकादशं शतसहरुआमिति। अत्र हि शतसहरुआं संख्यान्तरञ्चाधिकम्(), न शतं नापि सहरुआमित्यभिप्रायः। "शतानाम्()" इत्यादि। अनेन शतसहरुआस्य संख्यान्तरं निरस्याति। यदा शतशब्दः षष्ठ()न्तः सहरुआशब्देन समस्यते तदा शतानां सहरुआं शतसहरुआशब्देनोच्यते। यदा तु सहरुआशब्दः षष्ठ()न्तशब्देन समस्यते, तदा सहरुआआणाअं शतं शतसहरुआशब्देनोच्यते। ननु च सहरुआशब्दस्य पष्ठ()न्तस्य समासे सहरुआशतमिति भवितव्यम्()? राजदन्तादिषु दर्शनात्? तस्य परनिपातो भविष्यतीत्यदोषः। "तत्र शतसहरुआयोरित्येव सिद्धम्()" इति। शतसहरुआवाच्यस्यार्थस्य शतसहरुआयोरेवान्तर्भावात्()। "अधिके" इत्यादि। लोके प्रत्ययार्थेन समानजातावधिके शतसहरुआयोरेव प्रत्ययाख्यं कार्यमिष्टम्()। यदा त्वसमानजात्यधिकं भवति, न च शतं सहरुआं वा प्रत्ययार्थेन विवक्षितम्(), तदा नेष्यते। अथैकादशं शतसहरुआमित्यत्र कस्याधिक्ये सति डः कत्र्तव्यः? इत्याह--"यस्य" इत्यादि। संख्या संख्यानम्(), गणनमित्यर्थः। यस्य संख्या, तस्याधिक्ये डः कत्र्तव्यः। कस्य च संख्या भवति? अधिकत्वं संख्यायते यस्य। यदा शतानि संक्यायते तदा--शतानां सहरुआमिति शतसहरुआम्(), तदा शताधिक्ये डः कत्र्तव्यः। एकादशाधिकान्स्मिन्? सहरुआ एकादशं शतसहरुआमिति। यदा तु सहरुआआणि संख्यायते--सहरुआआणां शतं सहरुआशत्मिति, तदा सहरुआआधिक्ये डः कत्र्तव्यः। एकादशसहरुआआण्यधिकान्यस्मिन्नेकादशं शतसहरुआमिति। अथ किमर्थं तदिति प्रथमासमर्थविभक्तिरुपादीयते? यावता "तदस्य सञ्जातम्()" ५।२।३६ इत्यनुवत्र्तत एव, तत्र प्रत्ययार्थ एवास्मिन्निति निर्देष्टव्यः? नैवं शक्यम्(); तदनुवृत्तौ हि तत्सम्बन्धस्यास्येति प्रत्यार्थस्याप्यनुवृत्तिः प्रसज्येत। न च षष्ठीसप्तम्यर्थयोर्विरोधः; ततोऽस्मिन्निति निर्देशात्? पूर्वः प्रत्ययार्थो न निवत्र्तते, तस्यां त्वनुवृत्तौ षष्ठ()र्थेऽपि प्रत्ययः स्यात्()। तस्मादस्येति निवृत्त्यर्थं पुनस्तदिति प्रथमासमर्थविभक्तिरुपादीयते। यद्येवम्(), अस्येति प्रत्ययार्थस्य निवृत्तत्वात्? "संख्याया गुणस्य निमाने मयट्()" ५।२।४७ इत्यत्र षष्ठ()र्थे प्रत्ययो न प्राप्नोति। इह निवृत्तस्यापि मण्डूकप्लुतिन्यायेनानुवृत्तिर्भविष्यतीत्यदोषः। अन्ये तु ज्ञापकं तदित्यस्य वर्णयन्ति। तदिति प्रकृते यत्? तदित्याह, तज्ज्ञापयति--"तदस्य सञ्जातम्()" ५।२।३६ इत्यादौ सूत्रे यन्निर्दिष्टं तदिहानुवत्र्तमानमप्यङ्गभावं न यातीति षष्ठ()र्थे प्रत्ययो न भवति॥
तत्त्व-बोधिनी
तदस्मिन्नधिकमिति दशान्ताड्डः १४०८, ५।२।४५

तदस्मिन्। पुनस्तद्ग्रहणम् "अस्ये"ति षष्ठ()न्तसंबद्धतद्ग्रहणनिरासार्थः प्रत्ययविधौ तदन्तविध्यभावादाह---दशान्तादिति। अन्तग्रहणं किम्()। दश अधिका अस्मिन्शते। न चेह व्यपदेशिवद्भावेन दशान्तत्वमस्तीति वाच्यं, "व्यपदेशिवद्भावोऽप्रातिपदिकेने"त्यभ्युपदमात्। शदन्त प्रत्ययग्रहणपरिभाषया तदन्तविधौ सति "यस्मात्प्रत्ययविधिस्तदादेस्तदन्तस्ये"ति परिभाषया तदादिनियमः स्यात्, तं वारयितुमन्तग्रहणम्। तेन "एकतिं()रशं शतम्" "एकचत्वारिंश"मित्यादि सिद्धम्। न चैवं गोतिं()रशदधिका अस्मिन् गोशते इत्यादावतिप्रसङ्गः शङ्क्यः, "सङ्ख्याया अवयवे तय"वित्यतः सङ्ख्याग्रहणानुवृत्तेः। अन्तग्रहणमिह विंशति शब्दानन्तरं कर्तव्यं "ष()ड्वशत्यन्ताच्चे"ति। तेन "एकविंशं शत"मित्यादि सिध्यति। अन्यथा "ग्रहणवते"ति तदन्तविधिप्रतिषेधादिह न स्यात्।