पूर्वम्: ५।३।४०
अनन्तरम्: ५।३।४२
 
सूत्रम्
विभाषाऽवरस्य॥ ५।३।४१
काशिका-वृत्तिः
विभाषा ऽवरस्य ५।३।४१

पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। अवरस्य अस्तातौ परतो विभाषा अवित्ययम् आदेशो भवति। अवस्ताद् वसति। अवस्तादागतः। अवस्ताद् रमणीयम्। अवरस्ताद् वसति। अवरस्तादागतः। अवरस्ताद् रमणीयम्।
न्यासः
विभाषाऽवरस्य। , ५।३।४१

बाल-मनोरमा
विभाषाऽवरस्य , ५।३।४१

विभाषाऽवरस्य। "अस्ताति चे"ति पूर्वसूत्रादस्तातीत्यनुवर्तते। तदाह--अवरस्येति। एवमिति। पूर्वस्मिन्पूर्वस्मात्पूर्वो वा देशः, कालो वा--पुरः पुरस्तादित्यादि। पूर्वस्मिन्गुराविति। पूर्वकालिकाध्यापनकर्तरीत्यर्थः। ननु "दिक्छब्देभ्यः" इति सामान्यविहितस्य परादिशब्देषु सावकाशस्य अस्तातेः पूर्वाधरावरशब्देषु असिना विशेषविहितेन बाधः स्यादित्यत आह--अस्ताति चेतीत्यादि।