पूर्वम्: ५।३।४६
अनन्तरम्: ५।३।४८
 
सूत्रम्
याप्ये पाशप्॥ ५।३।४७
काशिका-वृत्तिः
याप्ये पाशप् ५।३।४७

याप्यः कुत्सितः इति उच्यते। याप्ये वर्तमानात् प्रातिपदिकात् स्वार्थे पाशप् प्रत्ययो भवति। याप्यो वैयाकरणः, कुत्सितो वैयाकरणः वैयाकरणपाशः। याज्ञिकपाशः। यो व्याकरनशास्त्रे प्रवीणो दुःशीलः, तत्र कस्मान् न भवति? यस्य गुणस्य सद्भावाद् द्रव्ये शब्दनिवेशः, तस्य कुत्सायां प्रत्ययः।
न्यासः
याप्ये पाशप्?। , ५।३।४७

याप्यशब्दोऽयं गमयितव्ये वत्र्तते--ग्रामान्तरात्? याप्य इति; अस्त्यशक्यप्रतीकारे--याप्यो रोग इति, अस्ति कुत्सिते--याप्योऽयमिति, कुत्सित इति गम्यते। पाशप्प्रत्ययान्तात्? कुत्सित एव प्रतीयत इति तदभिधायिन एव याप्यशब्दस्येवं ग्रहणं युक्ततम्()। अत एवाह--"याप्यः कुत्सित इत्युच्यते" इति याप्यन्ते=अपनीयन्ते तस्माद्गुणा इति याप्यः, "कृत्यल्युटो बहुलम्()" ३।३।११३ इत्यपादाने कृत्यः। "तत्र कस्मान्न भवति" इति। यद्यप्यसौ व्याकरणे प्रवीणः तथापि दुःशीलत्वाद्भवितव्यमेव तत्रेत्यभिप्रायः। "यस्य" इत्यादि। गुणो विशेषणम्? द्रव्यं विशेष्यम्(), तत्र द्रव्ये यद्यपि बहवो गुणाः सन्ति, तथापि यस्य गुणस्य भावे द्रव्ये शब्दो निविशते वत्र्तते प्रत्यासत्तेस्तस्यैव कुत्सायां शब्देन भवितव्यम्(); न तु वैयाकरणस्य दुःशीलत्वं प्रवृत्तिनिमित्तम्()। किं तर्हि? व्याकरणस्य परिज्ञानम्(), अध्ययनं वा। न चेह दुःशीलत्वेन भवितव्यं प्रत्ययेन॥
बाल-मनोरमा
याप्ये पाशप् , ५।३।४७

याप्ये पाशप्। याप्यः=कुत्सितः। "निकृष्टप्रतिकृष्टाऽर्वरेफयाप्याऽवमाऽधमाः" इत्यमरः। कुत्सितेविद्यमानात्स्वार्थे पाशप्स्यादित्यर्थः। प्रवृत्तिनिमित्तकुत्सायामिदम्। अप्रवृत्तिनिमित्तकुत्सायामपि कुत्सित इति वक्ष्यमाणं भवतीति भाष्ये, स्पष्टम्।

तत्त्व-बोधिनी
याप्ये पाशप् १४९२, ५।३।४७

याप्ये पाशप्। "कुत्सिते"इत्यत्रैव नाऽयं विहितः, तिङन्तादपि प्रसङ्गात्।