पूर्वम्: ५।४।९
अनन्तरम्: ५।४।११
 
सूत्रम्
स्थानान्ताद्विभाषा सस्थानेनेति चेत्॥ ५।४।१०
काशिका-वृत्तिः
स्थानान्ताद् विभाषा सस्थानेन इति चेत् ५।४।१०

स्थानान्तात् प्रातिपदिकात् विभाषा छः प्रत्ययो भवति सस्थानेन चेत् स्थानान्तमर्थवद् भवति। सस्थानः इति तुल्य उच्यते, समानं स्थानम् अस्य इति कृत्वा। पित्रा तुल्यः पितृस्थानीयः, पितृस्थानः। मातृस्थानीयः, मातृस्थानः। राजस्थानीयः, राजस्थानः। सस्थानेन इति किम्? गोस्थानम्। अश्वस्थानम्। इतिकरणो विवक्षार्थः। तेन बहुव्रीहिः सस्थानशब्दार्थम् उपस्थापयति, न तत्पुरुषः। चेच्छब्दः सम्बन्धार्थः। द्व्योर् विभाषयोर् नित्या विधयः इति पूर्वत्र नित्यविधयः।
न्यासः
स्थानान्तद्विभाषा सस्थानेनेति चेत्?। , ५।४।१०

"सस्थानेन" इति। करणे तृतीया। स्थानेन स्थानवाच्येनार्थेन तुल्यपर्यायेण स्थानान्तं यद्यर्थवद्भवत्येवं प्रत्ययो भवति, नान्यथा। कथं पुनः स्थानशब्देन तुल्यत्वमुच्यते? इत्याह--"समानम्()" इत्यादि। यस्य समानं स्थानं स सस्थान इत्युच्यते। यश्चैवंविधं स यदपेक्षं तस्य समानं स्थानं स तेन तुल्यो भवतीति। "पितृस्थानीयः" इति। पितृस्थानमिव स्थानं यस्येति "सप्तम्युपमान" (वा। ९९) इत्यादिनोत्तरपदलोपो बहुव्रीहिः। "गोस्थानम" इति। षष्ठीतत्पुरुषोऽयम्()। भवति ह्रेतत्? स्थानान्तं प्रातिपदिकम्(), न तु स्थानेन तुल्यार्थेनार्थक्तः। यथा स्थानान्तात्? प्रत्ययो भवति, तथा तत्पुरुषेणापि स्वस्थानशब्देनार्थ उपस्थापिते तेनार्थेनार्थवतः स्थानात्? प्रत्ययेन भवितव्यम्(); विशेषानुपादानात्()। ततश्च तुल्यञ्च तत् स्तानान्तं प्रतिपदिकं स्थानवाच्येनार्थेनार्थवदितियश्चोदयेत्? तं प्रत्याह--"इतिकरणो विवक्षार्थः" इति। इतिकरणो ह्रत्र विवक्षार्थः क्रियते, तेनायमर्थो लभ्यतेततश्चेद्विवक्षा भवतीति। बहुव्रीह्रर्थेनार्थवतः स्थानात्? प्रत्ययोत्पत्तौ लोकस्य विवक्षा भवति, न तत्पुरुषार्थेनार्थवतः। तस्मात्? स्थानान्तस्यार्थमुत्पादयितुं बहुव्रीहिरेव स्थानशब्दार्थमुत्पादयति; न तु तत्पुरुषः। तेन न भवत्यतिप्रसङ्गः। "चच्छब्दः स्मबन्धार्थः" इति। स्थानान्तस्य सस्थानसम्बन्धो यथा स्यादित्येवमर्थं चेच्छब्दः; अन्यथा प्रत्ययं प्रति पञ्चस्या स्थानान्तस्य निर्देशात्? स्थानान्तस्य सस्थानेन सम्बन्धो न स्यात्()। न हि पञ्चम्यन्तेन तस्य सम्बन्धः शक्यते कर्त्तुम्()। चेच्छब्दे तु स चेत्? स्थानेनार्थवद्वतीत्युपपद्यते, न तु सम्बन्धः। "द्वयोर्विभाषयोर्मध्ये नित्यविधयः" इति। यदि नित्या न स्युः, पूर्वैव विभाषोत्तरत्रानुवर्त्तिष्यत इत्युत्तरं विभाषाग्रहणमनर्थकं स्यात्()॥
बाल-मनोरमा
स्थानान्ताद्विभाषा सस्थानेनेति चेत् , ५।४।१०

स्थानान्तात्। "संस्थानेने"त्यस्य विवरणंतुल्येनेति। इतिशब्दादर्थवदिति लभ्यते। तुल्यरूपेणाऽर्थेन यदि स्थानान्तं शब्दस्वरूपमर्थवद्भवति, तदा स्थानान्ताच्छो वा स्यादित्यर्थः। तुल्यरूपार्थे वर्तमानात्स्थानान्ताच्छोवा स्यादिति यावत्। पितृस्थानीय इति। स्थानं-पूज्यत्वादिपदम्। पितृस्थानमिव स्थानं यस्येति बहुव्रीहिः। पितृनिष्ठपूज्यत्वादितुल्यपूज्यत्वादिमानित्यर्थः। गोस्थानमिति। गवां निवास इत्यर्थः। अत्र तुल्यत्वाऽप्रतीतेर्न च्छः। "किमेत्तिङव्यये"त्युत्तरसूत्रं प्रसङ्गात्पूर्वमेव व्याख्यातम्। "अमु च च्छन्दसी"ति तु वैदिकप्रक्रियायां व्याख्यास्यते।

तत्त्व-बोधिनी
स्थानान्ताद्विभाषा सस्थानेनेति चेत् १५५०, ५।४।१०

पितृस्थानीय इति। स्थानमात्र संबन्धविशेषः, पदमिति यस्य प्रसिद्धिः। पितुरिव स्थानमस्य पितृस्थानः। पितृतुल्य इत्यर्थः। "गो[#ः]स्थानमिति। तिष्ठन्त्यस्मिन्निति स्थानं देशः। इति। करणं विवक्षार्थम्। तेन तत्पुरुषो बहुव्रीहिर्वा यस्तुल्यस्थानशब्दस्तस्माच्छो न भवति।