पूर्वम्: ५।४।११
अनन्तरम्: ५।४।१३
 
सूत्रम्
अमु च च्छन्दसि॥ ५।४।१२
काशिका-वृत्तिः
अमु च च्छन्दसि ५।४।१२

किमेत्तिङव्ययघादद्रव्यप्रकर्षे अमु प्रत्ययो भवति छन्दसि विषये। चकारादामु च। प्रतरं न आयुः। प्रतरां नय। स्वरादिषु अम् आम् इति पठ्यते, तस्मात् तदन्तस्य अव्ययत्वम्।
न्यासः
अमु च च्छन्दसि। , ५।४।१२