पूर्वम्: ५।४।१८
अनन्तरम्: ५।४।२०
 
सूत्रम्
एकस्य सकृच्च॥ ५।४।१९
काशिका-वृत्तिः
एकस्य सकृच् च ५।४।१९

एकशब्दस्य सकृतित्ययम् आदेशो भवति सुच् च प्रत्ययः क्रियागणेन। कृत्वसुचो ऽपवादः। अभ्यावृत्तिस् त्विह न सम्भवति। सकृद् भुङ्क्ते। सकृदधीते। एकः पाकः इत्यत्र न भवति, अनभिधानात्।
न्यासः
एकस्य सकृच्च। , ५।४।१९

"सकृद्भुक्तम्()" इति। "संयोगान्तस्य" ८।२।२३ इति प्रत्ययसकारलोपः। चकारोऽन्तोदात्तार्थः। असति तु तस्मिन "इण्भीकापाशल्यतिमर्चिभ्यः कन्()" (द।उ। ३।२१) इति कन्प्रत्ययान्तत्वान्नित्स्वरेणैकशब्द आद्युदात्त इति स्थानिवद्भादादेशोऽप्याद्युदात्त एव स्यात्(), चित्त्वादन्तोदात्तो भवति। अथैकः पाक इत्यत्र कस्मान्न भवति, अस्ति ह्रत्र क्रियागणनम्()? इत्याह--"एकः पाकः" इत्यादि॥ बहुशब्देऽपि सामान्य एव; प्रकारेऽपि वृत्तेः। तत्रानेकक्रियाभ्यावृत्तेरविप्रकर्ष एव तावन्न्याय्यः, प्रकरणाद्यपेक्षश्च। कृत्वसुजापि न शक्नोत्यस्मिन्? विषये वर्त्तितुम्()। तस्माद्विभाषाग्रहणं न कत्र्तव्यम्()॥
बाल-मनोरमा
एकस्य सकृच्च , ५।४।१९

एकस्य सकृच्च। शेषपूरणेन सूत्रं व्याचष्टे--सकृदित्यादेशः स्यादिति। सकृद्भुङ्क्ते इति। एकशब्दात्सुच्, प्रकृतेः सकृदित्यादेशश्च। अत्र एकशब्दः क्रियाविशेषणम्।एकत्वविशिष्टा भुजिक्रियेत्यर्थः। "स्वादु पचती"त्यादिवदेकं भुङ्क्ते इति प्रयोगे प्राप्ते इदं सूत्रमिति कैयटः। "एको भुङ्क्ते" इत्यत्र तु नायं विधिः प्रवर्तते, क्रियाग्रहणमनुवर्त्त्य क्रियाविशेषणस्यैव एकशब्दस्य ग्रहणादित्यास्तां तावत्। ननु "संयोगान्तस्ये"ति सुचो लोप इत्यनुपपन्नम्। "हल्ङ्याब्भ्यः" इत्येव हि सुलोपोऽत्र युक्तः तस्मिन्कर्तव्ये संयोगान्तस्ये"ति सुचो लोप इत्यनुपपन्नम्। "हल्ङ्याब्भ्यः" इत्येव हि सुलोपोऽत्र युक्तः, तस्मिन्कर्तव्ये संयोगान्तलोपस्य त्रैपादिकस्याऽसिद्धत्वादित्यत आह--नतु हल्याङ्यबितीति। सिच इवेति। "अभैत्सी"त्यत्रि सिचो लोपनिवृत्तये "हल्ङ्या"वित्यत्र सिग्रहणेन सिचो न ग्रहणं, तत्साहचर्यात्सुग्रहणेनापि सुजयं न गृह्रत इति भावः।

तत्त्व-बोधिनी
एकस्य सकृच्च १५५४, ५।४।१९

एकस्य सकृच्च। अभ्यावृत्तिरिति न संबध्यते, एकशब्देन ह्रेकैव क्रियाव्यक्तिराख्यायते, तस्यास्त्वावृत्तेरसंभवात्। क्रियाग्रहणमिहार्थमावश्यकम्, अन्यथा "आ दशतः सङ्ख्या सङ्ख्येये वर्तते"इत्येको भुङ्क्ते इत्यत्रापि स्यादिति। इह साधु पचतीत्यादिवदेकं भुङ्क्ते इति प्रयोगे प्राप्ते सकृच्छब्दप्रयोगार्थमिदं सूत्रमिति कैयटः। "एकः पाक"इत्यत्र तु अनभिधानान्नेति काशिका। संयोगान्तस्येति। "हल्ङ्यादिना सुलोप"इति प्राचो ग्रन्थोऽयुक्त इत्याह---न त्विति। "सुतिसी"ति साहचर्याद्विभक्तय एव तत्र गृह्रन्त इथ्यभिप्रेत्याह ---सिच इवेति।