पूर्वम्: ५।४।४०
अनन्तरम्: ५।४।४२
 
सूत्रम्
वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि॥ ५।४।४१
काशिका-वृत्तिः
वृकज्येष्ठाभ्यां तिल्तातिलौ च छन्दसि ५।४।४१

प्रशंसायाम् इत्येव। वृकज्येष्ठाभ्यां प्रशंसोपाधिके ऽर्थे वर्तमानाभ्यां यथासङ्ख्यम् तिल्तातिलौ प्रत्ययौ भवतः छन्दसि विषये। रूपपो ऽपवादौ। वृकतिः। ज्येष्ठतातिः।
न्यासः
वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि। , ५।४।४१