पूर्वम्: ५।४।४२
अनन्तरम्: ५।४।४४
 
सूत्रम्
संख्यैकवचनाच्च वीप्सायाम्॥ ५।४।४३
काशिका-वृत्तिः
सङ्ख्याएकवचनाच् च वीप्सायाम् ५।४।४३

सङ्ख्यावाचिभ्यः प्रातिपदिकेभ्यः एकवचनाच् च वीप्सायां द्योत्यायां शस्प्रत्ययो भवति अन्यतरस्याम्। द्वौ द्वौ मोदकौ ददाति द्विशः। त्रिशः। एकवचनात् खल्वपि कार्षापणं कार्षापणं ददाति कर्षापणशः। माषशः। पादशो ददाति। एको ऽर्थ उच्यते येन तदेकवचनम्। कार्षापणादयश्च परिमाणशब्दाः वृत्तावेकार्था एव भवन्ति। सङ्ख्यैकवचनातिति किम्? घटं घटं ददाति। वीप्सायाम् इति किम्? द्वौ ददाति। कार्षापणम् ददाति। कारकातित्येव, द्वयोर् द्वयोः स्वामी। कार्षापणस्य कार्षापणस्य स्वामी।
न्यासः
संख्यैकवचनाच्च वीप्सायाम्?। , ५।४।४३

"नित्यवीप्सयोः" ८।१।४ इति द्विर्वचनेन तदपवादः शस्विधीयते। "एकोऽर्थ उच्यते येन तदेकवचनम्()" इति। एतेन सहार्थेकवचनान्तादित्यभिप्रायः। ननु चान्वर्थग्रहणेन च प्राप्नोत्येव, भवति ह्रेकवचनम्(), एकार्थवृत्तित्वात्()? नैषः, न हि वाक्यस्यैकार्थता प्रत्ययविदावाश्रीयते। किं तर्हि? वृत्तिस्था। न वृत्तौ च निवृत्तायां विभक्तौ घटादय एव शब्दा एकवचनान्ता भवन्ति; जातिशब्दत्वात्()। जातिशब्दा हि नैकस्यामेकजात्याधारभूतायां व्यक्तौ वत्र्तन्ते, किं तर्हि? अनेकस्यामपि। तदेषामेकार्थवृत्तित्वं वाक्य एव विभक्तिसंख्याश्रयणे प्रतीयते, न वृत्तौ; विभक्तेर्निवृत्तत्वात्()। "कार्षापणादयश्च" इत्यादि। "कार्षापणादयः शब्दाः परिमाणाः" इत्युक्तम्()। परिमाणस्य विसेषस्य वाचका इत्यर्थस्याधिक्ये तेषां वृत्तिर्न सम्भवति। वाक्ये तु तेषां प्रयोगेऽनेकार्थप्रतीतिः--कार्षापणौ, कार्षापणा इति, सा विभक्तिर्न तेभ्यः। वृत्तौ तु सा विभक्तिर्नास्तीति तेनैकार्था भवन्ति। वृत्तिस्थैकार्थता प्रत्ययविधावाश्रीयते, न वाक्यस्थेत्युक्तमेतत्()। "घटं घटं ददाति" इति। घटादयः सब्दा वृत्तावेकार्था न भवन्ति। एतच्च प्रतिपादितम्()। यदान्वर्थाः प्रकरणादिसहिता घटादयोऽपि जातिशब्दा एकार्था भवन्ति, तदा भवितव्यमेव शसा; अन्यथा "जश्शसोः शिः" ७।१।२० इत्यत्र यद्वक्ष्यति--जसा सहचरितस्य शसो ग्रहणमित्यत्र न भवति--"कुडवशो ददाति, शतशः प्रविशति" इति, तद्व्याहन्यते; कुडवादिशब्दस्यापि जातिशब्दत्वात्()॥
बाल-मनोरमा
सङ्ख्यैकचनाच्च वीप्सायाम् , ५।४।४३

सङ्ख्यैकवचनाच्च। सङ्ख्या च एकवचनं चेति समाहारद्वन्द्वात्पञ्चमी। एकत्वविशिष्टोऽर्थ उच्यतेऽनेनेत्येकवचनः। एकत्वविशिष्टस्यार्थस्य वचन इति विग्रहः। सङ्ख्यावाचकात्तदन्यस्माच्चैकत्वविशिष्टवाचकात्कारकाभिधायिनः प्रातिपदिकाद्वीप्सायां शस् वेत्यर्थः। सङ्ख्यावाचिन उदाहरति--द्वौ द्वौ ददातीति। "नित्यवीप्सयो"रिति द्विर्वचनम्। "द्विश" इत्यत्र तु न, शसैव वीप्साया उक्तत्वात्। "तद्धितश्चासर्वविभक्ति"रित्यत्र "शस्()प्रभृतयः प्राक् समासान्तेभ्यः" इति परिगणनाच्छसादीनां डाच्पर्यन्तानामव्ययत्वम्। एकत्वविशिष्टवाचिन उदाहरति--माषं माषं माषश इति। माषं माषमित्यन्तरं "ददाती"ति शेषः। माषशब्दः परिमाणविशेषवाची। प्रस्थश इति। प्रस्थं प्रस्थं ददातीति विग्रहः। ननु "घटं घटं ददाती"त्यत्रापि "घटश" इति स्यात्, घटशब्दस्याऽप्येकत्वविशिष्टार्थवाचकत्वात्। न च एकत्वविशिष्टस्यैवार्थस्य वाचक एकवचनशब्देन विवक्षितः, घटशब्दस्तु नैवं, घटो घटा इत्यादौ द्वित्वबहुत्वविशिष्टवाचकत्वादिति वाच्यम्। एवं सति "माषशः" "प्रस्थशः" इत्यत्रापि शसभावप्रसङ्गादित्यत आह--परिमाणशब्दावृत्तावेकार्था एवेति। अयमाशयः--समासादिवृत्ततौ एकत्वव#इशिष्टस्यैवाऽर्थस्य वाचका एकवचनशब्देन विवक्षिताः। तथाविधाश्च परिमाणशब्दा एव, नतु घटादिजातिशब्दा अपि। "माषदाते"त्युक्ते हि माषपरिमितस्य हिरण्यादेर्दातेति प्रतीयते, नतु माषाणामिति। अतो माषशब्दोऽयं भवति वृत्तावेकत्वविशिष्टार्थनियतः। एवं प्रस्थादिशब्दोऽपि। घटशब्दस्तु नैवम्। "गठदाते"त्युक्ते घटानां दातेत्यपि प्रतीतेः। एतदेवाभिप्रेत्य प्रत्युदाहरति--घटं घटमिति। एतत्सर्वं जयादित्यमतम्। वामनस्तु उक्तनियमे प्रमाणाऽभावाज्जातिशब्दोभ्योऽपि शस् भवत्येव, एकवचनग्रहणं तु घटौ घटौ ददातीत्यादौ शसभावार्थमित्याह। "एकैकशः पितृसंयुक्ता"नित्यत्र तु शसैव वीप्साया उक्तत्वाद्द्विर्वचनमार्षमिति हरदत्तः। प्रत्याहाराह्निकभाष्ये "एकैकशः" "सहरुआकृत्वः" इति भाष्यप्रयोगात्स्वार्थिकशसा समाधेयमित्यन्ये।

बाल-मनोरमा
प्रतियोगे पञ्चम्यास्तसिः , ५।४।४३

प्रतियोगे। विहितेति। "प्रतिः प्रतिनिधिप्रतिदानयो"रिति प्रते कर्मप्रवचनीयत्वे तद्योगे "प्रतिनिधिप्रतिदाने च यस्मा"दिति पञ्चमी विहितेत्यर्थः। प्रद्यचुम्नः कृष्णतः प्रतीति। कृष्णस्य प्रतिनिधिरित्यर्थः। आद्यादिभ्य इति। अयं सार्वविभक्तिकस्तसिः। अपादाने चाऽहोयरुहोः। "अहीयरूहो"रिति छेदः। "हीयते" इत्यादौ कर्मणि लकारे यगन्तस्य एकदेशस्य "हीये"त्यनुकरणम्। हीयरुहोः संबन्धि यन्न भवति तन्मिन्नपादाने इत्यर्थः। अतिग्रहा व्यथने अतिक्रम्य ग्रह इति। लोकवृत्तमतिक्रम्य तद्विलक्षणतया प्रतीयमानत्वमित्यर्थः। चारित्रेणेति। चरित्रमेव चारित्रम्, तेन हेतुना इतरविलक्षणत्वेन दृश्यते इत्यर्थः। फलितमाह--अन्यानतिक्रम्य वर्तत इति। "व्यथ भयसंचलनयो"रिति चलनार्थाल्ल्युटि व्यथनशब्दः। तदाह--अव्यथनमचलनमिति। क्षेपे इति। "उदाह्यियते" इति शेषः। क्षेपो निन्दा। हीयमानपापयोगाच्च। हीयमानेति। हीयमानयुक्तात् पापयुक्ताच्चेत्यर्थः। ननु पूर्वसूत्रे क्षेपग्रहणादेव सिद्धे किमर्थमिदमित्यत आह--क्षेपस्याऽविवक्षायामिति। तत्त्वकथने इत्यर्थः। षष्ट()आ व्याश्रये ष। नानापक्षसमाश्रयणे इति। सर्वसाधारण्यं विहाय एकपक्षाश्रय इति यावत्। पक्षः--स्वीयत्वेन परिग्रहः। देवा अर्जुनतोऽभवन्निति। अर्जुनस्य पक्षे आसन्नित्यर्थः। रोगाच्चा। रोगस्य प्रतीकारः--चिकित्सा। प्रवाहिकात इति। विषूचिकाप्रतीकारमित्यर्थः।

तत्त्व-बोधिनी
सङ्ख्यैकचनाच्च वीप्सायाम् १५७१, ५।४।४३

परिमाणशब्दा इति। तथा चैकवचनग्रहणेन एकोऽर्थ उच्यते येनेत्यर्थकेन वृत्तावेकार्थतानियताः परिमाणशब्दा एव गृह्रन्त इति भावः। माषं माषमिति। माषदातेत्युक्ते माषमात्रस्य हिरण्यादेर्दातेति प्रतीयते, न तु माषाणामिति प्रतीतिरिति भवत्ययं वृत्तावेकार्थतानियमः। एवं प्रस्थादिरपि। घटादयस्तु नैवम्। घटदातेत्युक्ते तु घटानां दातेत्यर्थस्यापि प्रतीयमानत्वात्। अतएव च प्रत्युदाहरति---घटं घटमिति। घटादयो हि जातिशब्दा नैकार्था भवन्तिस जातियोगस्यैकानेकसाधारणत्वात्, किं त्वभेदैकत्वसङ्ख्यामुपाददते। एतच्च सर्वं जयादित्यमतानुसारेणोक्तम्। वामनमते जातिशब्देभ्योऽपि बवत्येव। तथा च "जश्शसो "रिति सूत्रे तेनोक्तम्,---जसा सहचरितस्य शसो ग्रहणादिह न भवति---"कुण्डशो ददाति वनशः प्रविशती"ति, तस्यायमाशयः---जातिशब्दोऽपि यद्यर्थप्रकरणादिना वृत्तावेकार्थो भवति, तदा भवत्येव ततोऽपि शसिति। अथ कथम् "एकैकशः पितृसंयुक्ता"निति द्विर्वचनशसोः सह प्रयोद इति चेत्। "छन्दोवदृषयः कुर्वन्ती"ति हरदत्तः। अतएव "सुपः"इति सूत्रे "एकैकश"इति प्राचो ग्रन्थः प्रामादिक"इत्यवोचामेति मनोरमायां स्थितम्। वस्तुतस्तु एकैकमेव एकैकशः। स्वार्थे शस्, न तु वीप्सायाम्, "एकां कपिलामेकैकशः सहरुआकृत्वो दत्त्वे"ति भाष्यादिति "तान्येकवचने"त्यादिसूत्रे वक्ष्यामः। द्वौ ददातीति। कथं तर्हि---"अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम्। सहरुआशः समेतानां परिषत्तवं न विद्यते"इति। न ह्रत्र वीप्सास्ति, नापि कारकत्वमिति चेत्। अत्राहुः सहरुआं सहरुआं ये समेतास्तेषामपि परिषत्त्वं नेत्यर्थः। तथा च समवायक्रियां प्रति कर्तृत्वं, वीप्सा चस्त्येवेति। एतेन "एकश एकवचनादिसंज्ञानि स्यु"रिति व्याख्यातम्। एकशब्दार्थस्याऽस्तिक्रियां प्रति कर्तृत्वात्। कृष्णतः प्रतीति। "प्रतिः प्रतिनिधिप्रतिदानयो"रिति कर्मप्रवचनीयसंज्ञायां "प्रतिनिधिप्रतिदाने च यस्मा"दिति पञ्चमी।

आद्यादिभ्य उपसङ्ख्यानम्। आद्यादिभ्य इति। "स्यादित उदात्तमद्र्धह्यस्व"मित्येतदत्र लिङ्गम्।