पूर्वम्: ६।१।१०८
अनन्तरम्: ६।१।११०
 
सूत्रम्
अतो रोरप्लुतादप्लुते॥ ६।१।१०९
काशिका-वृत्तिः
अतो रोरप्लुतादप्लुते ६।१।११३

अति, उतिति वर्तते। अकारादप्लुतादुत्तरस्य रो रेफस्य उकारानुबन्धविशिष्टस्य अकारे ऽप्लुते परत उकारादेशो भवति। वृक्षो ऽत्र। प्लक्षो ऽत्र। भोभगोअघोअपूर्वस्य यो ऽशि ८।३।१७ इत्यस्मिन् प्राप्ते उत्वं विधीयते। रुत्वम् अपि आश्रयात् पूर्वत्र असिद्धम् ८।२।१ इति असिद्धं न भवति। अतः इति किम्? अग्निरत्र। तपरकरणं किम्? वृक्षा अत्र। सानुबन्धग्रहणं किम्? स्वरत्र। प्रातरत्र। अति इत्येव, वृक्ष इह। तस्य अपि तपरत्वादत्र न भवति। वृक्ष आश्रितः। अलुतातिति किम्? सुस्रोता३अत्र न्वसि। अप्लुते इति किम्? तिष्ठतु पय अ३च्श्विन्। अत्र प्लुतस्य असिद्धत्वातुत्वं प्राप्नोति इति अप्लुतादप्लुते इति उच्यते।
लघु-सिद्धान्त-कौमुदी
अतो रोरप्लुतादप्लुतादप्लुते १०६, ६।१।१०९

अप्लुतादतः परस्य रोरुः स्यादप्लुतेऽति। शिवोर्ऽच्यः॥
न्यासः
अतो रोरप्लुतादपलुते। , ६।१।१०९

"उकारानुबन्धकस्य" इति। यदि रुशब्दः समुदायः स्थानो स्यात्(), तदा महातरुवनमित्यत्रापि "हशि च" ६।१।११० इत्युत्वं प्रसज्येत। किञ्च "ससजुषो रुः" ८।२।६६ इत्युकारानुबन्धकरणमनर्थकं स्यात्()। तत्र ह्रु कारोऽस्य सूत्रसय विशेषणार्थः क्रियते, स इह समुदाये स्थानिन्यनर्थको जायते। तस्मादुकारानुबन्धवत इदं ग्रहणम्()। ननु चोत्त्वे कत्र्तव्ये "पूर्वत्रासिद्धम्()" ८।२।१ इति रुत्त्वमसिद्धम्(), तदसतो रोः कथमुत्त्वं शक्यते विधातुम्()? इत्यत आह--"रुत्वमप्याश्रयात्? सिद्धम्()" इति। यदि रुत्वमसिद्धं स्यात्(), तदा स्थानित्वेन रोराश्रयणमनर्थकं स्यात्(); कस्यचिदुकारानुबन्धविशिष्टस्य रोरसम्भवात्()। तस्मादाश्रयादेव रोरसिद्धत्वं नास्तीति। "तस्यापि" इति। यत्रापि परतो रोरुत्त्वमुच्यते तस्य "सुरुआओता ३ अत्र" इति "दूराद्धूते च" ८।२।८४ इति प्लुतः। "देवदत्ता ३ अत्र" इति। अत्रापि "गुरोऽनृतोऽनन्तस्याप्येकैकसय प्राचाम्()" ८।२।८६ इत्यनेन। अथ किमर्थं "अप्लुतादप्लुते" इत्युच्यते? न ह्रतोऽतीति च तपरकरणस्य वर्णस्य निर्देशे क्रियमाणे प्लुतात्परस्य प्लुते वा परतः प्राप्नोति? इत्यत आह--"प्लुतस्य" इत्यादि। ननु च सिद्धः प्लुतः स्वरसन्धिषु, यदयम्? "प्लुतप्रगृह्रा आचि" (६।१।१२५) इति प्रकृतिभावं शास्ति? एवं मन्यते--प्रकृतिभाव एवैतज्ज्ञापकं स्यात्()। अथापि कथञ्चित्? स्वरसन्धिविषयं ज्ञापकं स्यात्(), तथा रोदत्त्वं स्वरसन्धिर्न भवति। अथापि संहिता काय्र्यविषयं ज्ञापकं स्यात्(), तथापि रोरुत्त्वं मंहिताकार्य्यं न भवति। येन हि वर्णाः सन्धीयन्ते तत्? संहिताकार्यम्(), न चोत्त्वेन वर्णाः संहिता भवन्ति; पुनरप्याद्गुणाद्यपेक्षणादिति॥
बाल-मनोरमा
अतो रोरप्लुतादप्लुते १६२, ६।१।१०९

शिवर् अच्र्य इति स्थिते--अतो रोः। "ऋत उ"दित्यत उदित्यनुवर्तते। "अत" इति पञ्चमी। "एङः पदान्तादती"त्यतोऽतीत्यनुवर्तते। तदाह--अप्लुतादिति। नन्वत्र उत्वं बाधित्वा "भोभगोअघोअपूर्वस्य योऽशि" इति यत्वं परत्वात्स्यात्। नच यत्वस्यासिद्धत्वादुत्वं निर्बाधमिति वाच्यं, कृते।ञपि उत्वे तस्य स्थानिवत्त्वेन रुत्वाद्यत्वस्य दुर्निवारत्वादत आह--यत्वस्यापवाद इति। यद्यपि भोभगोअघो इत्यंशे उत्वं नापवादः, तथाप्यपूर्वस्येत्यंशे उत्वमपवादः प्राप्त एव अपूर्वकस्य रोर्यत्वे अतो रोरित्यस्यारम्भादिति भावः। ननूत्वं प्रति रोरसिद्धत्वात् कथमुत्वं तस्येत्यत आह--उत्वं प्रतीति।

तत्त्व-बोधिनी
अतो रोरप्लुतादप्लुते १३३, ६।१।१०९

यत्वस्यासिद्धत्वादुत्वे कृतेऽपि तस्य स्थानिवत्त्वेन रुत्वाद्यत्वं स्यादित्याशङ्कायामाह-यत्वस्यापवाद इति। उत्वविधेः सामथ्र्यादिति। न च "अतो रोरप्लुता"दिति सूत्रं परित्यज्य "रोः सुपी"ति सूत्रानन्तरम् "अत उरती"त्येव लाघवादुच्यतां किमनेन सामथ्र्याश्रयणप्रयासेनेति वाच्यम्; तथाहि सति उत्बस्यासिद्धतया "शिवोऽच्र्य" इत्यादावाद्गुणस्याऽप्रवृत्तिप्रसङ्गात्।