पूर्वम्: ६।१।१०९
अनन्तरम्: ६।१।१११
 
सूत्रम्
हशि च॥ ६।१।११०
काशिका-वृत्तिः
हशि च ६।१।११४

हशि च परतः अत उत्तरस्य रोरुकारादेशो भवति। पुरुषो याति। पुरुषो हसति। पुरुषो ददाति।
लघु-सिद्धान्त-कौमुदी
हशि च १०७, ६।१।११०

तथा। शिवो वन्द्यः॥
न्यासः
हशि च। , ६।१।११०

पूर्वत्रातीत्यनुवृत्तेर्हश्युत्त्वमप्राप्तमेवानेन विधीयते। चकारः "अप्लुतात्? ६।१।१०९ इत्यस्यानुकर्षणार्थः। तेनेह न भवति--सुरुआओता ३ वेहीति॥
बाल-मनोरमा
हशि च १६५, ६।१।११०

हशि च। "अतो रोरप्लुता"दिति पदत्रयमनुवर्तते। "ऋत उ"दित्यत "उ"दिति च। तदाह-अप्लुतादिति। शिवो वन्द्य इति। शिवस् वन्द्य इति स्थिते सस्य रुः। तस्याऽत्परकत्वाभावात्पूर्वसूत्रेण उत्वं न प्राप्तमिति वचनमिदम्। ननु प्रातरत्र धातर्गच्छत्यत्र रेफस्य अतो रोरिति हशि चेति च उत्वं कुतो न स्यादित्यत आह--रोरित्यनुकारेति। उकारोऽनुबन्ध इद्यस्य स उकारानुबन्धः, तस्यैव उत्वविधौ ग्रहणात् प्रातरत्र उत्वं न भवति। प्रातरिति हि रेफान्तमव्ययम्। न तत्र रेफ उकारानुबन्धवान्। धातृशब्दात् सम्बुद्धिः सुः, "ऋतो ङि सर्वनामस्थानयोः" इति ऋकारस्य गुणोऽकारो रपरः, हल्ङ्यादिना सुलोपः। अत्रापि न रेफ उकारानुबन्धवान्। अत उभयत्रापि रेफस्य उत्वं न भवतीत्यर्थः।

अथ देवा इहेति रूपं दर्शयितुमाह--देवास् इह इति स्थिते रुत्वमिति।