पूर्वम्: ६।१।१६९
अनन्तरम्: ६।१।१७१
 
सूत्रम्
ह्रस्वनुड्भ्यां मतुप्॥ ६।१।१७०
काशिका-वृत्तिः
ह्रस्वनुड्भ्यां मतुप् ६।१।१७६

अन्तोदात्तातित्येव। ह्रस्वान्तादन्तोदात्तान् नुटश्च परो मतुबुदात्तो भवति। अग्निमात्। वायुमान्। कर्तृमान्। हर्तृमान्। नुटः खल्वपि अक्षण्वता। शीर्षण्वता। अन्तोदात्तातित्येव, वसुमान्। वसुशब्द आद्युदात्तः, तस्मान् मतुबनुदात्त एव भवति। अत्र च स्वरविधौ व्यञ्जनम् अविद्यमानवतित्येषा परिभाषा न अश्रीयते नुड्ग्रहणात्, तेन मरुत्वानित्यत्र न भवति। रेशब्दाच् च मतुप उदात्तत्त्वं वक्तव्यम्। आरेवान्। त्रेश्च प्रतिषेधो वक्तव्यः। त्रिवतीर्याज्यानुवाक्या भवति इति।
न्यासः
ह्यस्वनुङ्भ्यां मतुप्?। , ६।१।१७०

पित्वान्मतुपोऽनुदात्तत्वे प्राप्तेऽयं विधिरारभ्यते। "अक्षण्वता" इति। अक्षमस्यास्तीति मतुप्(), "छन्दस्यपि दृश्यते" ७।१।७६ इत्यनङ्, "अनो नुट्()" ८।२।१३ इति नुडागमः, पूर्वसय नकारस्य "नलोपः प्रातिपदिकान्तस्य" ८।२।७ इति लोपः। "शीर्षण्वता" इति। शीर्षन्निति "शीर्षञ्शब्दः" शीर्षश्चन्दसि" ६।१।५९ इति निपातितः। "वसुशब्द आद्युदात्तः" इति। स हि "भृमृशीतृ()चरित्सरितनिधनिमिमस्जिभ्य उः" (द।उ।१।९२) इति वर्तमाने "धान्ये नित्()" (द।उ।१।९४) इत्यतो निद्ग्रहणे "शृ()स्वृ()स्विहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च" (द।उ।१।९५) इति व्युत्पाद्यते। तेन नित्स्वरेणाद्युदात्तो भवति। अथेह कस्मान्न भवति--मरुतोऽस्य सन्ति मरुत्वानिति, मरुच्छब्दोऽपि "मृग्रेरुतिः (द।उ।६।१) इत्युतिप्रत्ययान्तत्वात्? प्रत्ययस्वरेणान्तोदात्त इत्यस्त्यत्र प्राप्तिः, अतो नकारेम व्यवधानान्न भवतीति चेत्()? न; तस्य लुप्तत्वात्()। अथापि स्वरसिद्धौ नलोपस्यासिद्धत्वम्()? एवमपि "स्वरविधौ व्यञ्जनमविद्यमानवत्()" (व्या।पा।३७) इति नास्ति व्यवधानम्()? इत्यत आह--"स्वरिविधौ" इत्यादि। कथं पुनज्र्ञायते--नाश्रीयत इति? नुङ्ग्रहणात्()। नुडागमो ह्रयं मतुप एव भक्त इति तद्ग्रहणेनैव गृह्रते। यद्येषा परिभाषाऽ‌ऽश्रीयेत, तदा नकारस्य व्यञ्जनस्याविद्यमानत्वाद्? ह्यस्वादित्येव सिध्यति नुङ्ग्रहणं न कुर्यात्(), कृतं च। ततो ज्ञायते--नेयमिह परिभाषाश्रीयत इति। "वक्तव्यः" इति। व्याख्येय इत्यर्थः। उत्तरत्रापि वक्तव्यशब्दस्यायमेवार्थः। व्याख्यानं तु पूर्ववद्बहुलग्रहणानुवृत्तिमाश्रित्य कत्र्तव्यम्()॥