पूर्वम्: ६।१।३
अनन्तरम्: ६।१।५
 
सूत्रम्
पूर्वोऽभ्यासः॥ ६।१।४
काशिका-वृत्तिः
पूर्वो ऽभ्यासः ६।१।४

द्वे इति प्रथमन्तं यदनुवर्तते तदर्थादिह षष्ठ्यन्तं जायते। तत्र प्रत्यासत्तेरस्मिन् प्रकरणे ये द्वे विहिते तयोर् यः पूर्वो ऽवयवः सो ऽभ्याससंज्ञो भवति। पपाच। पिपक्षति। पापच्यते। जुहोति। अपीपचत्। अभ्यासप्रदेशास् तु अत्र लोपो ऽभ्यासस्य ७।४।५८ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
पूर्वोऽभ्यासः ३९७, ६।१।४

अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात्॥
न्यासः
पूर्वोऽभ्यासः। , ६।१।४

अभ्यासशब्दोऽयमावृत्तिवचनो लोके प्रसिद्ध एव। सा चावृततिः प्रथमस्य नास्तीत्यभ्यासप्रदेशेषु परस्य ग्रहणे प्राप्ते पूर्वस्य ग्रहणं यथा स्यावित्येवमर्थं तस्याभ्याससंज्ञा विधीयते। पूर्वशब्दोऽवयववचनः, यथा--पूर्वं कायस्य पशोरिति। अवयवाश्चावयविनो भवन्ति, स चेह यद्यपि न निर्दिश्यते, तथापि "द्वे" ६।१।१ इत्युनुवृत्तेस्तद्वाच्यस्यैवार्थस्य पूर्वो विज्ञायत इत्याह--"द्वे इति प्रथमन्तं यदनुवत्र्तते" इत्यादि। ननु च "द्वे" इति प्रथमन्तमनुवत्र्तते, षष्ठ()न्तेन चेहार्थः, न ह्रटन्यथा पूर्वशब्देन सम्भन्धः शक्यते दर्शयितुमित्यत आह--"तदर्थात्()" इत्यादि। अर्थाद्विभक्तिविपरिणामो भवतीति। तदिह षष्ठ()न्तं जयत इत्यर्थः। अथ पुनरत्रावयवावयविलक्षणा षष्ठी भवति, यथा वृक्षस्य शाखेति? एवमपि यदि "द्वे" इत्यनुवृत्तेद्र्वयोर्यः पूर्वस्तस्याभ्याससंज्ञा विधीयते तदा "सर्वस्य द्वे" ८।१।१ इत्यत्रापि प्रकारणे ये द्वे विहिते तयोर्यः पूर्वस्तस्याप्यभ्याससंज्ञा प्राप्नोतीत्यत आह--"तत्र" इत्यादि"। "पूर्वोऽवयवः" इति। पूर्वशब्दो व्यवस्थावचनोऽप्यस्ति, अतस्तद्व्यवच्छेदार्थमवयवग्रहणम्(), पपाचेत्यत्राभ्याससंज्ञायां सत्यां "ह्यस्वः ७।४।५९ इत्यभ्यासस्य ह्यस्वत्वम्(), हलादिशेषः ७।४।६०, प्रकृतिचरां प्रकृतिचरो भवन्तीति चत्र्वम्()। "पिपक्षति" इति। "जुहोति" इति पूर्ववद्धकारस्य चुत्वम्(), तस्य "अभ्यासे चर्च" ८।४।५३ चकारः। "अपिपचत्()" इति। पचेण्र्यन्ताच्()च्लेश्चङ्(), णिलोपः, "णौ चङ्युपधाया ह्यस्वः" ७।४।१ द्विर्वचनम्(), "सन्वल्लघुनि" ७।४।९३ इतीत्त्वम्(), "दीर्घो लघोः" ७।४।९४ इति दीर्घः। सर्वाण्यभ्याससंज्ञायाः प्रयोजनान्येतानि॥
बाल-मनोरमा
पूर्वोऽभ्यासः २७, ६।१।४

पूर्वः। अत्रेति। "एकाचो द्वे प्रथमस्ये"ति षाष्ठद्वित्वप्रकरम इत्यर्थः। तेन "सर्वस्य द्वे" इत्यादिविहितस्य द्वित्वस्य न सङ्ग्रहः। कस्य पूर्व इत्याकाङ्क्षायां "द्वे" इत्यनुवृत्तं षष्ठ()आ विपरिणतं संबध्यते। तदाह--ये द्वे विहिते तयोरिति।

तत्त्व-बोधिनी
पूर्वोऽभ्यासः २३, ६।१।४

"एकाचो द्वे" इति प्रकरणे।