पूर्वम्: ६।१।८३
अनन्तरम्: ६।१।८५
 
प्रथमावृत्तिः

सूत्रम्॥ आद्गुणः॥ ६।१।८४

पदच्छेदः॥ आत् ५।१ ९३ गुणः १।१ एकः १।१ ८१ पूर्व-परयोः ६।२ ८१ अचि ७।१ ७४ संहितायाम् ७।१ ७०

अर्थः॥

अचि पूर्वः यः अवर्णः, अवर्णात् च परः यः अच्, तयोः द्वयोः पूर्वपरयोः स्थाने एकः गुणादेशः भवति, संहितायां विषये।

उदाहरणम्॥

तव + इदम् = तवेदम्। खट्वा + इन्द्रः = खट्वेन्द्रः, मालेन्द्रः। तव + ईहते = तवेहते, खट्वेहते। तव + उदकम् = तवोदकम्, खट्वोदकम्। तव ऋश्यः = तवर्श्यः। तवल्कारः, खट्वल्कारः।
काशिका-वृत्तिः
आद्गुणः ६।१।८७

अचि इत्यनुवर्तते। अवर्नात् परो यो ऽच् च पूर्वो यो ऽवर्णः तयोः पूर्वपरयोः अवर्णाचोः स्थाने एको गुण आदेशो भवति। तवेदम्। खट्वेन्द्रः। मालेन्द्रः। तवेहते। खट्वेहते। तवोदकम्। खट्वोदकम्। तवर्श्यः। खट्वर्श्यः। तवल्कारः। खट्वल्कारः। लृकारस्य स्थाने यो ऽने यो ऽण् तस्य लप्रत्वम् इष्यते।
लघु-सिद्धान्त-कौमुदी
आद्गुणः २७, ६।१।८४

अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात्। उपेन्द्रः। गङ्गोदकम्॥
न्यासः
आद्रगुणः। , ६।१।८४

"तवल्कारः; खट्वल्कारः" इति। कथं पुनरत्र लपरत्वम्()? इत्याह--"लृकारस्य स्थाने" इत्यादि। एतच्च "लृकारऋकारयोः सवर्णसज्ञा वक्तव्या" (वा३) इत्युपसंख्यानात्? "उरण्? रपरः" १।१।५० इत्यत्र रप्रत्याहारग्रहणाल्लभ्यते। उक्तं ह्रक्षरसमम्नाये--"हकारादिषु वर्णोष्वकार उच्चारणार्थः, लकारे त्वनुनासिक इत्संज्ञकः प्रतिज्ञायते" इति। तत्र रेफादारभ्य लणकारेण प्रत्याहारे सति लृकारस्य ऋकारग्रहणेन गृहीतस्य स्थानेऽण्? विधीयमानो लपरः सम्पद्यते॥
बाल-मनोरमा
आद्गुणः ७०, ६।१।८४

आद्गुणः। आदिति पञ्चमी नतु तपरकरणम्। एकः पूर्वपरयोरित्यधिकृतम्। तदाह-अवर्णादचीत्यादिना। उपेन्द्र इति। उप-इन्द्र इति स्थिते पकारादकारस्य तस्मादिकारस्य च पूर्वपरयोः कण्ठतालुस्थानकयोस्तथाविध एको गुण एकारः, आन्तरतम्यात्। अथ?प्रत्याहारेषु स्ववाच्यवाच्येषूक्तां लक्षणां स्मारयितुं दीर्घविषयोदाहरणमाह-रमेश इति। रमा-ईश इति स्थिते आकारस्य ईकारस्य च स्थाने पूर्ववदेको गुण एकारः। गङ्गोदकमिति। गङ्गा-उदकमिति स्थिते आकारस्य उकारस्य च कण्ठोष्टस्थानकयोस्तथाविध एको गुण ओकारः। कृष्णर्द्धिरित्यत्र कृष्ण ऋद्धिरिति स्थिते आद्गुण इति प्राप्तम्। अत्र अकार ऋकारश्चेति द्वौ स्थानिनौ। तयोरकार एकार ओकारश्चेति त्रयोऽपि गुणः प्रसक्ताः, अकारेण तेषां कण्ठस्थानसाम्याऽविशेषात्।