पूर्वम्: ६।२।३६
अनन्तरम्: ६।२।३८
 
सूत्रम्
कार्तकौजपादयश्च॥ ६।२।३७
काशिका-वृत्तिः
कार्तकौजपाऽदयश् च ६।२।३७

कार्तकौजपादयो ये द्वन्द्वाः तेषु पूर्वपदं प्रकृतिस्वरं भवति। प्रकृतिस्वरपूर्वपदाः कार्तकौजपादयो भवन्ति। विभक्त्यन्तानां पाठो वचनविवक्षार्थः। चकारो द्वन्द्वाधिकारानुवृत्त्यर्थः। कार्तकौजपौ। कृतस्य अपत्यं, कुजपस्य अपत्यम् इत्यणन्तावेतौ। सावर्णिमाण्डूकेयौ। सावर्णिरिञन्तः। अवन्त्यश्मकाः। अवन्तेरपत्यानि वहूनि, तन्निवासो जनपदो ऽवन्तयः। तथा अश्मकाः। पैलश्यापर्णेयाः। युवद्वन्द्वो ऽयम्। पीलायाः अपत्यं पैलः, तस्य अपत्यं युवा इति अणो द्व्यचः ४।१।१५६ इति विहितस्य फिञः पैलादिभ्यश्च २।४।५९ इति लुक्। श्यापर्णशब्दो बिदादिः, तस्य अपत्यं स्त्री श्यापर्णी, तदपत्यं युवा श्यापर्णेयः। बहुवचनमतन्त्रम्, तेन पैलश्यापर्णेयौ इत्यत्र अपि भवति। कपिश्यापर्णेयाः। कपिरन्तोदात्तः, तस्य अपत्यं बहुत्वे कपिबोधाङ्गिरसे ४।१।१०७ इति उत्पन्नस्य यञः यञञोश्च इति लुक्, तेन अत्र बहुत्वम् आश्रीयत एव। शैतिकाक्षपाञ्चालेयाः। शितिकाक्षो नाम ऋषिः, तस्य अपत्यम् इति ऋष्यण्, तदपत्ये यूनि य इञ् तस्य ण्यक्षत्रियार्षञितो यूनि लुगणिञोः २।४।५८ इति लुक्। पाञ्चालस्य अपत्यं स्त्री पाञ्चाली, तदपत्यम् युवा पाञ्चालेयः। अत्र अपि बहुवचनम् अविवक्षितम् इति शैतिकाक्षपञ्चालेयौ इत्यत्र अपि भवति। कटुकवार्चलेयाः। कटुकस्य अपत्यम् इति अत इञ् ४।१।९५, तस्य बह्वच इञः प्राच्यभरतेषु २।४।६६ इति बहुषु लुक्। वर्चलायाः अपत्यं वार्चलेयः। शाकलशुनकाः। शकलस्य अपत्यं शाकल्यः, तस्य छात्राः शाकलाः। कण्वादिभ्यो गोत्रे ४।२।११० इत्यण्। शुनकस्य अपतय्म् इति बिदादिभ्यो ऽञ् ४।१।१०४, तस्य बहुषु लुक्। शाकलशणकाः इति केचित् पठन्ति। तेषां शणकशबादुत्पन्नस्य इञः बह्वच इञः प्राच्यभरतेषु २।४।६६ इति बहुषु लुक्। शुनकधात्रेयाः। धात्र्या अपत्यं धात्रेयः। शणकबाभ्रवाः। बभ्रोरपत्यं बाभ्रवः। आर्चाभिमौद्गलाः। ऋचाभेन प्रोक्तम् अधीयते आर्चाभिनः। वैशम्पायनान्तेवासित्वात् णिनिः। मुद्गलः कण्वादिः, तदपत्यस्य छात्रा मौद्गलाः। कुन्तिसुराष्ट्राः। कुन्तेः सुराष्ट्रस्य च अपत्येषु बहुषु तन्निवासे वा जनपदे द्वन्द्वो ऽयम्। कुन्तिचिन्तिशब्दौ अन्तोदात्तौ। चिन्तिसुराष्ट्राः कुन्तिसुराष्ट्रवत्। तण्डवतण्डाः। पचाद्यच्प्रत्ययान्तौ अन्तोदात्तौ एतौ गर्गादिषु पठ्येते। तत्र अपत्यबहुत्वे यञो लुक् क्रियते। गर्गवत्साः। अत्र अपि अपत्येषु बहुषु इञः बह्वच इञः प्राच्यभरतेषु २।४।६६ इति लुक् क्रियते। बाभ्रवशालङ्कायनाः। बभ्रोरपत्यं बाभ्रवः। शलङ्कु शलङ्कं च इति शालङ्कायनः। बाभ्रवदानच्युताः। दानच्युतशब्दातिञः बह्वचः इति लुक्। कठकालापाः। कठेन प्रोक्तम् अधीयते कठाः, वैशम्पायनान्तेवासित्वात् णिनिः, तस्य कठचरकाल् लुक्। कलापिना प्रोक्तमधीयते कालापाः। कलापिनो ऽण् ४।३।१०८ इत्यण् प्रत्ययः, तस्मिनिनण्यनपत्ये ६।४।१६४ इति प्रकृतिभावे प्राप्ते न अन्तस्य टिलोपे सब्रह्मचारिपीठसर्पि इत्यादिनोपसङ्ख्यानेन टिलोपः। कठकौथुमाः। कुथुमिना प्रोक्तमधीयते इति प्राग्दीव्यतो ऽण् ४।१।८३, तस्य पूर्ववत् टिलोपः। कौथुमलौकाक्षाः। लोकाक्षेण प्रोक्तम् अधीयते लौकाक्षाः। लोकाक्षस्य वा अपत्यं लौकाक्षिः, तस्य छात्राः लौकाक्षाः। स्त्रीकुमारम्। स्त्रीशब्दो ऽन्तोदात्तः। मौदपैप्पलादाः। मुदस्य अपत्यं मौदिः। तस्य छात्रा मौदाः। तथा पैप्पलादाः। मौदपैप्पलादाः इति द्विः पठ्यते, तस्य प्रयोजनं पक्षे समासान्तोदात्तत्वम् एव यथा स्यादिति। वत्सजरत्। वत्सश्च जरच् च। वत्सशब्दो ऽन्तोदात्तः। सौश्रुतपार्थवाः। सुश्रुतस्य पृथोश्च छात्राः, प्राग्दीव्यतो ऽण् ४।१।८३। जरामृत्यू। याज्यानुवाक्ये। यजेर्ण्यत्, यजयाचरुचप्रवचर्चश्च ७।३।६६ इति कुत्वाभावः। तत्स्वरितम् ६।१।१७९ इत्यन्तस्वरितः। अनुवाक्या इति वचेरनुपूर्वात् ण्यत्। आचार्योपसर्जनान्तेवासिनाम् इह पाठः प्रप्ञ्चार्थः।
न्यासः
कार्तकौजपादयश्च। , ६।२।३७

"अणन्तावेतौ" इति। तेन प्रत्ययस्वरेणान्तोदात्ताविति भावः। उत्तरत्राप्यणन्तस्यानोदात्तता वेदितव्या। "सौवर्णिरिञन्तः" ["सावर्णिः--काशिका] इति। ञित्स्वरेणाद्युदात्त इत्यभिप्रायः। एवमुत्तरत्रापीञन्तस्याद्युदात्तत वेदितव्या। माण्डूकेयशब्दः "ढक्? च मण्डूकात्()" ४।१।११९ इति ढगन्तः। "अवन्तेः" इत्यादि। अवन्तेरपत्यानि बहुनीति "बृद्धेत्कोशलाजादाञ्ञ्यङ्()" ४।१।१६९ इति ञ्यङ्(), तस्य "तद्राजस्य" २।४।६२ इत्यादिना लुक्। अवन्तीनां निवासो जनपदः "तस्य निवासः" ४।२।६८ इति चातुर्थिकोऽण्()। तस्य "जनपदे लुप्()" ४।२।८० इति लुप्। "अवन्तयः, तथाश्मकाः" इति। यथावन्तय इति कृतस्तथाश्मका इत्यत्रापि। अत्र क्षत्त्रियवाचिनो जनपदवाचिनश्च शब्दाः। तद्धितेऽपत्येषु यो बहुषत्पद्यते तदन्ताचच निवासे चातुरर्थिकः। तस्य लुप्? कृतः। तथाश्मका इत्यत्रापि। एतावन्मात्रमतिदिश्यते। अश्मकस्यापत्यानि बहूनि, "साल्वावयव" ४।१।१७१ इत्यादिनेञ्(), तस्य लुक्? पूर्ववत्(), तेषां निवासेऽण्(), तस्य पूर्ववल्लुप्()। अवन्तिशब्दो घृतादित्वादन्तोदात्त इत्येके। चित्स्वरेणेत्यपरे, ते हि "भुवो झिच्()" (पं।उ।३३०) बहुलवचनादवतेरपि झिज्भवतीति वर्णयन्ति। "युवद्वन्द्वोऽयम्()" इति युदसंज्ञकप्रत्ययान्तयोरयं द्वन्द्व इत्यर्थः। "फैलः" इति। "पीलाया वा" ४।१।११८ इत्यण्()। "श्यायर्णशब्दो बिदादिः" इति तेन ततोऽप्त्यविवक्षायामञ्? भवतीति भवाः। "स्त्री" इति। "शाङ्र्गरवाद्यञो ङीन्()" ४।१।७३। "श्यापर्णेयः" इति। "स्त्रीभ्यो ढक्()" ४।१।१२०। "बहुचचनमतन्त्रम्()" इति। अविवक्षितत्वात्()। "तेन" इत्यादिना बहुवचनाविवक्षायाः फलं दर्शयति। "कपिरन्तोदात्तः" इति। प्रातिपदिकस्वरेण। "तेन" इत्यादि। यस्मात्? कपिशब्दोऽयं लुगन्त; तेन बहुवचनमत्राश्रीयत एव। "ऋष्यण्()" इति। "ऋष्यन्धक" ४।१।११४ इत्यादिना। "यूनि य इञ्()" इति। "अत इञ्()" (श्र४।१।९५) इत्यनेन। "पाञ्चाली" इति। "जनपदशब्दात्? क्षत्रियादञ्()" ४।१।१६६ इत्यञ्()। तदन्तात्? पूर्ववन्ङीप्()। "पाञ्चालेयी" [पाञ्चालेयः--काशिका] पूर्ववड्ढक्()। एवं "वार्चलयी" इत्यत्रापि। "शाकल्यः" इति। गर्गादित्वात्? यञ्()। शाकल्यशब्दो ञित्स्वरेणाद्युदात्तः। "शणकबाभ्रवाः" इति। शणं करोतीति "कै गै शब्दे" (धा।पा।९१६,९१७) इत्यस्माद्धात्तोः "आतोऽनुपसर्गे कः" ३।२।३, तेन प्रत्ययस्वरेण शणकशब्दोऽन्तोदात्तः। "बाभ्रवः" इति। "ओर्गुणः" ६।४।१४६। "आर्चाभिनः" इति। प्रोक्तार्थे णिनिः, तस्मादध्येतर्यण्(), तस्य "प्रोक्ताल्लुक्()" ४।२।६३ इति लुक्()। एवमुत्तरत्रापि प्रोक्तप्रत्ययान्तादध्येतृप्रत्ययस्य लुग्वेदितव्यः। "मुद्गलः कण्वादिः" इति। गर्गाद्यन्तर्गणः। "तदपत्यस्य" इति। मौद्गलाः" इति। मौद्गल्यशब्दात्? "कण्वादिभ्यो गोत्र" ४।२।११० इत्यण्(), "यस्येति च" ६।४।१४८ इत्यकारलोपः। "आपत्यस्य च तद्धेतेऽनाति" ६।४।१५१ इति यकारस्य। आर्चाभिशब्दः प्रत्ययस्वरेणान्तोदात्तः। "कुन्ते सुराष्ट्रस्य" इत्यादि। "कमु कान्तौ" (धा।पा।४४३) इत्यस्मात्? पूर्ववत्? क्तिच्(), बहुलवचनादुत्त्वम्()। कुन्ति शोभनं राष्ट्रमस्येति सुराष्ट्रः। कुन्तेरपत्यानि बहूनि "वृद्धेत्कोशलाजादञ्ञ्यङ्()" ४।१।१६९; सुराष्ट्रस्यापत्यानि बहूनि, जनपदशब्दादिना ४।१।१६६ अण्(), तयोः "तद्राजस्य" २।४।६२ इत्यादिना बहुषु लुक्()। ततः कुन्तीनां निवासो जनपदः "तस्य निवासः" ४।२।६८ इति चातुरर्थिकोऽण्(), "तस्य जनपदे लुप्()" ४।२।८० इति लुप्()। कुन्तयश्च सुराष्ट्राश्च कुन्तिसुराष्ट्राः। एवं कुन्तेः सुराष्ट्रस्य चापत्येषु बहुषु तन्निवासे जनपदद्वन्द्वादयं भवति। कुन्तिशब्दाश्चित्स्वरेणान्तोदात्तः। "चिन्तिसुराष्ट्राः" इति। चिन्तिशब्दोऽप्यान्तोदात्त एव। सोऽपि "चिति समृत्याम्()" (धा।पा।१५३५) इत्यस्मात्()। क्तिच्प्रत्ययान्तः। केचिदवन्तिकुन्तिशब्दौ "क्तिच्क्तौ च संज्ञायाम्()" ३।३।१७४ इति क्तिच्प्रत्ययान्तौ व्युत्पादयन्ति। "पचाद्यन्प्रत्ययान्तौ" इति। "तडि हर्षे" (धा।प।२८०) इत्यस्मात्? केवलादवपूर्वाच्च पचाद्यच्()। "वष्टि भागुरिरल्लोपमवाप्योरुपसरगयोः" इत्यवशब्दाकारस्य लोपः। "यञो लुक्? क्रियते" इति। "यञञोश्च" २।४।६४ इति। "अविमत्तकामविद्धा" इति। "मदी हर्षे" (धा।पा।१२०८) इत्यस्माद्विपूर्वान्निष्ठा--विमत्तः, न विमत्तोऽविमत्त इति। "तत्पुरुषे तुल्यार्थं" (६।२।२।) इत्यादिना पूर्वपदसय प्रकृतिभावे कृते नञ्स्वरेणाद्युदात्तः। "बह्वचः" इति। अनेन सूत्रैकदेशेन "बह्वच इञः प्राचयभरतेषु" (२।४।६६) इत्येतत्? सूत्रमुपलक्षयति। "शलङ्कु शलङ्कञ्च" इति। नडादिष्वेतत् पठ()ते। अस्यायमर्थः--शलङ्कुशब्दः फकमुत्पादयति शलङ्कादेशञ्चापद्यत इति। "बाभ्रवदानच्युताः" इति। ब्राभ्रोरपत्यं बाभ्रवः, अणन्तः। दानच्युतशब्दादिञो बह्वचो लुगिति पूर्ववत्()। "कठकालपाः" इति। कठशब्दः पचाद्यचि व्युत्पादितत्वादन्तोदात्तः। लोकाक्षस्यापत्यं "लौकाक्षि)" तसय च्छात्रा "लौकाक्षाः"। "स्त्रीकुमाम्()" इति। "सत्यायतेर्ड्रट्()" (पं।उ।४।१६५) तदन्तात्? "टिड्()ढाणञ्()" ४।१।१५ इति ङीप्(), तत्र प्रतद्ययस्वरेणान्तोदात्ताकारस्य "यस्येति च" ६।४।१४८ इति लोपः, "अनुदात्तस्य च यत्रोदात्तलोपः" ६।१।१५५ इति ङीप उदात्तत्वे कृते स्त्रीशब्दो ह्रुदात्तः। "तस्य च्छात्रा मीदाः" इति। "इञश्च" ४।२।१११ इत्यण्()। "तथा पैप्पलादाः" इति। पिप्पलावस्यापत्यं पौप्यलादिः, तस्य च्छात्राः पैप्पलादाः। "वत्सजरत्()" इति। "वृ()तृ()वदिहनिकमिकषिभ्यः सः" (द।उ।९।२१) [वृ()तृ()वदिहिनिकमिकषियुमुचिभ्यः सः--द।उ।] इति वदेः सः, अनेन वतसशब्दोऽन्तोदात्तः, "जीर्यतेरतृन्" ३।२।१०४। जरत्(), तयोद्र्वन्द्वः। "सौश्रुतपर्थवाः" इति। सुश्रुतस्य छात्राः सौश्रुताः। "पृथोश्छात्राः पार्थवाः" इति। उभयत्र "तस्येदम्()" ४।३।१२० इत्यण्()। "जरामृत्यु" इति। जृ()षित्येतस्मात्? "षिद्भिदादिभ्योऽङ्()" ३।३।१०४ इत्यङ्(), जरा, तस्य प्रत्ययस्वरेणान्तोदात्तत्वम्()। म्रियतेः "भृजडिमृङ्भ्यां युक्त्युकौ" (द।उ।१।१३५) इति त्युक्(), मृत्युः॥