सूत्रम्
अष्टनः संज्ञायाम्॥ ६।३।१२४
काशिका-वृत्तिः
अष्टनः संज्ञायाम् ६।३।१२५
अष्टनित्येतस्य उत्तरपदे संज्ञायां दीर्घो भवति। अष्टावक्रः। अष्टाबन्धुरः। अष्टापदम्। संज्ञायाम् इति किम्? अष्टपुत्रः। अष्टभार्यः।
न्यासः
अष्टनः संज्ञायाम्?। , ६।३।१२४
"अष्टावक्रः" इति। अष्टौ वक्राण्यस्येति बहुव्रीहिः॥
"अष्टाकपालम्()" इति। अष्टसु कपलेषु संस्कृतमिति "संस्कृतम्()"
४।४।३ इत्यण्(), तस्य "द्विगोर्लुगनपत्ये
४।१।८८ इति लुक्। "अष्टाहिरण्या" इति। बहुव्रीहिः। "पादस्य लोपे कृते" इति। "पादस्य लोपोऽहस्त्यादिभ्यः"
५।४।१३८ इत्यनेन।
"गविच युक्ते" इत्यादि।
"वक्तव्यम्()" इति। अस्य व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--चकारोऽत्रक्रियते, सचानुक्तसमुच्चयार्थः। तेन गवि च युक्ते भाषायामप्यष्टनो दीर्घो भवति॥
बाल-मनोरमा
अष्टनः संज्ञायाम् १०३१, ६।३।१२४
अष्टनः संज्ञायाम्। शेषपूरणेन सूत्रं व्याचष्टे--उत्तरपदे दीर्घ इति। अष्टापदमिति। संज्ञात्वमन्वेषणीयम्।