पूर्वम्: ६।३।१५
अनन्तरम्: ६।३।१७
 
सूत्रम्
घकालतनेषु कालनाम्नः॥ ६।३।१६
काशिका-वृत्तिः
घकालतनेसु कालनाम्नः ६।३।१७

घसंज्ञके प्रत्यये, कालशब्दे, तनप्रत्यये च परतः कालनाम्नः उत्तरस्याः सप्तम्या विभाषा अलुग् भवति। घ पूर्वह्णेतरे, पूर्वाह्णतरे। पूर्वाह्णेतमे, पूर्वाह्णतमे। काल पूर्वाह्णेकाले, पूर्वह्णाकाले। तन पूर्वाह्णेतने, पूर्वाह्णतने। कालनाम्नः इति किम्? शुक्लतरे। शुक्लतमे। हलदन्तादित्येव, रात्रितरायाम्। उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर् न इष्यते हृदयस्य हृल्लेख इति लेखग्रहणाल् लिङ्गात्। तेन घतनग्रहणे, तदन्तग्रहनं न भवति। काल इति न स्वरूपग्रहणम्।
न्यासः
घकालतनेषु कालनाम्नः। , ६।३।१६

"घ" इति तरपतमपोर्गहणम्(), "काल" इति कालवाचिनः शब्दस्य, "तन" इति ट()उट()उलोरनादेशस्य सतुट्कस्य। "पूर्वाह्णेतराम्()" इति। अह्नः पूर्वमिति विगृहय "पूर्वापर" २।२।१ इत्यादिनैकदेशिसमासः। "राजाहः--सखिभ्यष्टच्()" (५।४।९१) इति टच्? समासान्तः, "अह्नोऽहन एतेभ्यः" ५।४।८८ इत्यह्नादेशः। "अह्नोऽदन्तात्()" ८।४।७ इति णत्वम्()। अ()स्मश्च पूर्वाह्णे अ()स्मश्च पूर्वाह्णे, अस्मिस्त्वनयोरतिशयेन पूर्वाह्णे पूर्वाह्णेतर इति। "द्विवचन" ५।३।५७ इत्यादिना तरप्()। "पूर्वाङ्णेतमाम्()" इति। "अतिशायने" ५।३।५५ इत्यादिना तमप्(), "कृत्तद्धितसमासाश्च" (१।२।४६) इति प्रादिपदिकत्वे सति सुब्लुक्? प्राप्तः पक्षे प्रतिषिध्यते। "पूर्वाह्णेतने" इति। "पूर्वाह्णेतरे" इत्यत्रार्थे "विभाषा पूर्वाह्णापराह्णाभ्याम्()" ४।३।२४ इति ट()उट()उलौ तुडागमश्च, "युवोरनाकौ ७।१।१ इत्यटनादेशः। "रात्रितरायाम्()" इति। अस्याञ्च रात्रावस्याञ्च रात्रावनयोरतिशयेन रात्राविति विग्रहः। ननु च "प्रत्ययग्रहणे यस्मात्? स विहितस्तदादेस्तदन्तस्य" (पु।प।वृ।४४) इति तदन्तग्रहणं भवतीति घसंज्ञकप्रत्ययान्ते तनप्रत्ययान्ते चोत्तरपदे परतोऽलुगुदाहत्र्तवयः, तत्? कस्मात्? प्रत्ययमात्रे स उदाह्मतः? इत्याह--"उत्तरपदाधिकारे" इत्यादि। कुतः पुनरेतदित्याह--"लेखग्रहणात्()" इत्यादि। "ह्मदयस्य ह्मल्लेखयदण्लासेषु" ६।४।५० इत्यत्राणो लेखशब्दस्य चाणन्तस्य भेदनोपादनम्()। तत्र यद्युत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तरविधिरिष्यते तदा लेखग्रहणं न कुर्यात्(); अण्ग्रहणेनैव तद्ग्रहणस्य सिद्धत्वात्(), क्रियते च। तस्माल्लेखग्रहणाद्विज्ञायते--"उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्नेष्यते" (पु।प।२६) इति। "तेने" इति। तदन्तविधेरिहानिष्टत्वेन। "काल इति न स्वरूपग्रहम्()" इति। नामग्रहणात्()। तस्य ह्रेतदेव प्रयोजनम्()॥
बाल-मनोरमा
घकालतनेषु कालनाम्नः ९६०, ६।३।१६

घकालतनेषु। शेषपूरणेन सूत्रं व्याचष्टे--सप्तम्या इति। घेति घे परे उदाहरणसूचनमिदम्। "तरप्तमपौ घः"। पूर्वाह्णेतरे इति। अतिशायने सप्तम्यन्तात्तरप्तमपौ। अत एव तत्तद्विभक्त्यन्तात्तरप्तमपाविति विज्ञायते। कालेति। उदाहरणसूचनमिदम्। पूर्वाह्णेकाले इति। अत एव विशेषणादिसमासोऽपि तत्तद्विभक्त्यन्तानामेव। तनेति। उदाहरणसूचनमिदम्। पूर्वाह्णेतने इति। "विभाषा पूर्वाह्णापराह्णाभ्या"मिति ठ्युठ्युलौ, तुट् च।