सूत्रम्
शयवासवासिषु अकालात्॥ ६।३।१७
काशिका-वृत्तिः
शयवासवासिष्वकलात् ६।३।१८
शय वास वासिनित्येतेषु उत्तरपदेष्वकालवाचिनः उत्तरस्याः सप्तम्या विभाषा अलुक् भवति। खेशयः, खशयः। ग्रामेवासः, ग्रामवासः। ग्रामेवासी, ग्रामवासी। अकालातिति किम्? पूर्वह्णशयः। हलदन्तातित्येव, भूमिशयः। अपो योनियन्मतुसु सप्तम्या अलुग् वक्तव्यः। अप्सुयोनिः। अप्सव्यः। अप्सुमन्तौ। अप्सु भवः इति दिगादित्वाद् यत् प्रत्ययः। सर्वत्र सप्तमी ती योगविभागात् समासः।
न्यासः
शयवासवासिष्वकालात्?। , ६।३।१७
"खेशयः" इति। "अधिकरणे शेतेः"
३।२।१५ इत्यच्()। "ग्रामेवासः" इति। वसनं वासः, भावे घञ्()। "ग्रामेवासी" इति। ताच्छीलिको णिनिः, व्रते वा।
"पूर्वाह्णशयः" इति। ननु च स्वरूपग्रहणे सति कालशय इति प्रत्युदाहार्यम्(), नैवेदं स्वरूपग्रहणम्()।
किं तर्हि? अर्थग्रहणम्()। अत एव वृत्तावुक्तम्()--"अकालवाचिनः" इति।
कथं पुनरर्थग्रहणं लभ्यते? पूर्वसूत्रादिह नामग्रहणानुवृत्तेः। यद्येवम्(), तदा नार्थः कालग्रहणेन "कालनाम्नः"
६।३।१६ इत्येतदनुवर्तिष्यते, तस्य च नञा सह सम्बन्धं करिष्यामः--कालनाम्नो नेति, तत्रायमर्थः--"नेन्सिद्धबध्नातिषु च" (६।३।
१९) ["नेन्सिद्ध" इति प्राचीनमुद्रितपाठः] इत्यत्र नेति वक्तव्यं न भवति, नेत्येतदेव ह्रनुवर्त्तिष्यते? नैवं शक्यम्(); "न शयवासवासिषि" इत्युच्यमाने ह्रलुक एवायं प्रतिषेधो विज्ञायेत, तस्यात्र विधेयतया प्रस्तुतत्वात्()।
तस्मात्? कालस्यैव प्रतिषेधो यथा स्यादित्येवमर्थं कालग्रहणं कत्र्तव्यम्()।
वक्तव्यमिति व्याख्येयमित्यर्थः। व्याख्यानं तु पूर्वमेव कृतम्()॥
बाल-मनोरमा
शयवासवासिष्वकालात् ९६१, ६।३।१७
शयवास। शय, वास, वासिन्-एतेषु परेषु कालभिन्नात्सप्तम्या अलुक् स्यादित्यर्थः।
अपो योनि। योनिशब्दे यत्प्रत्यये मतुपि च परेऽप्शब्दात्सप्तम्या अलुक् स्यादित्यर्थः। अप्सव्य इति। दिगादित्वाद्यत्। "ओर्गुणः" "वान्तो यी"त्यवादेशः। अप्सुमन्ताविति। "अप्सु" इति पदं यदीयमन्त्रयोरस्ति तावप्सुमन्तौ, आज्यभागाविति कर्मविशेषौ।