पूरणगरहणिह स्वर्यते, स्वरितेन चाधिकारावगतिर्भवति। तेन पूरणग्रहणधिकृत्य पूरणग्रहणमधिकृत्य पूरणप्रत्यया विहितास्त एव पूरणग्रहणेन गृह्रन्ते, न तु स्वरूपम्()। "उत्तरपदे"
६।३।१ इत्यनुवत्र्तते च, ततः प्रत्ययग्रहणपरिभाषया (भो।प।सू।७) पूरणप्रत्ययान्त उत्तरपदे कार्यं विज्ञायत इत्यालोच्याह--"पूरणप्रत्ययान्त उत्तरपदे" इत्यादि। "पञ्चमः" इति। पञ्चानां पूरणः "तस्य पूरणे डट्()"
५।२।४८ इति डट्(), तस्य "नान्तादसंख्यादेर्मट्()"
५।२।४९। "षष्ठः" इति। षण्णां पूरण इति "षट्कतिकतिपयचतुरां थुक्()"
५।२।५१, ष्टुत्वम्()। "आत्मनापञ्चमः" इत्यादौ केन तृतीया, न ह्रत्र करणादिस्तृतीयार्थोऽस्ति, करणादि हि कारकम्(), क्रियायाश्च कारक्रं भवति,
न चेह काचित्? क्रिया विद्यते? इत्याह--"तृतीयाविधाने" इत्यादि। भवत्वेवम्(), तृतीयासमासास्तु कथम्(),
न ह्रत्र समासलक्षणमस्ति? इत्यत आह--"तृतीयाविधाने" इत्यादि। भवत्वेवम्(), तृतीयासमासस्तु कथम्(),
न ह्रत्र समासलक्षणमस्ति? इत्यत आह--"तृतीयेति च" इत्यादि। अथ वा--"कर्तृकरणयोस्तृतीया"
२।३।१८ इत्यनेनैवात्र तृतीया, "कर्तृकरणे कृता बहुलम्()"
२।१।३१ इति समास इति दर्शयन्नाह--"आत्मना वा" इत्यादि। अत्र कर्तर करणे वैषा तृतीया--कृतः पञ्चम इति। कृते समासे कृतशब्दो न प्रयज्यते; तदर्थस्य वृत्तावन्तर्भावात्()।
"कथम्()" इत्यादि। अत्राप्यात्मना चतुर्थ इति भवितव्यमिति भावः। "बहुव्रीहिरयम्()" इत्यादि परिहारः। तत्पुरुषे ह्रात्मनाचतुर्थ इति स्यात्(), न चायं तत्पुरुषः।
किं तर्हि? बहुव्रीहिः। स च प्रथमान्तयोरेव पदयोरिति न भवत्यनिष्टप्रसङ्गः। ननु चान्यपदार्थे बहुव्रीहिरुच्यते, अन्यपदार्थश्च व्यतिरिक्तो भवति। यथा चित्रा--गावो यस्य सः चित्रगुरिति,
न चेह कश्चिद्व्यतिरिक्तोऽन्यपदार्थोऽस्ति? नैष दोषः; अव्यतिरक्तोऽप्यन्यपदार्थो भवति वयपदेशिवद्भावेन। यथा--शोभनशरीरः शिलापुत्रक इति॥