पूर्वम्: ६।३।९०
अनन्तरम्: ६।३।९२
 
सूत्रम्
विष्वग्देवयोश्च टेरद्र्यञ्चतौ वप्रत्यये॥ ६।३।९१
काशिका-वृत्तिः
विष्वग्देवयोश् च टेरद्र्यञ्चतौ वप्रत्यये ६।३।९२

विष्वक् देव इत्येतयोः सर्वनाम्नश्च टेः अद्रि इत्ययम् आदेशो भवति अञ्चतौ वप्रत्ययान्ते उत्तरपदे। दिष्वगज्चति इति विष्वद्र्यङ्। देवद्र्यङ्। सर्वनाम्नः तद्र्यङ्। यद्र्यङद्रिसघ्र्योरन्तोदात्तनिपातनं कृत्स्वरनिवृत्त्यर्थम्। तत्र यणादेशे कृते उदात्तस्वरितयोर् यणः स्वरितो ऽनुदात्तस्य ८।२।४ इत्येष स्वरो भवति। विष्वग्देवयोः इति किम्? अश्वाची। अञ्चतौ इति किम्? विष्वग्युक्। वप्रत्यये इति किम्? विष्वगञ्चनम्। वप्रत्ययग्रहणम् अन्यत्र धातुग्रहणे तदादिविधिप्रतिपत्त्यर्थम्। तेन अयस्कृतम्, अयस्कारः इत्यत्र अतः कृकमिकंसकुम्भपात्र इति सत्वं भवति। छन्दसि स्त्रियां बहुलम् इति वक्तव्यम्। विश्वाई च घृताची च इत्यत्र न भवति। कद्रीची इत्यत्र तु भवत्येव।
न्यासः
विष्पग्देवयोश्च टेरद्र�ञ्चतौ वप्रत्यये। , ६।३।९१

"विष्वद्र()ङ्()" इति। विष्वगञ्चतीति ऋत्विगादिसूत्रेण ३।२।५९ क्विन्(), "उगिदचाम्()" ७।१।७० इति नुम्(), हल्ङ्यादिसंयोगान्तलोपौ, "क्विन्प्रत्ययस्य कुः" ८।२।६२ इति कुत्वम्()। "अद्रिसध्र्योरन्तोदात्तनिपातम्()" इत्यादि। विष्वद्र()ङित्यत्रानेनाद्र()आदेशे कृते सध्य्रङित्यत्र सहस्य सध्य्रादे देशे च "गितकारकोपपदात्? कृत्()" ६।२।१३८ इति प्रकृतिस्वरेणोत्तरपदसर्यान्तोदात्तत्वं प्राप्नोति, स्वरितत्वं चेष्यते। तस्मादुत्तरपदान्तोदात्ततवविधानार्थमिहाद्रिसध्य्रारेन्तोदात्तत्वं निपात्यते। तेन शेषं भवत्यनुदात्तम्()। तत्र यणादेशे कृते सति "उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य" ८।२।४ इति स्वरितत्वमुत्तरपदस्य सिद्धम्()। अथ वप्रतययगरहणं किमर्थम्(), यावता "अञ्चतौ" इत्युक्ते केवल एवाञ्चतावुत्तरपदे कार्येण भवितव्यम्()। वप्रत्ययान्त एवाञ्चतिः केवलमुत्तरपदं भवति। तत्रैतद्वक्तव्यमञ्चतावित्याह--"वप्रत्ययग्रहणम्()" इत्यादि। अन्यत्र धातुग्रहणे, धात्वादेः प्रकृतिपरतययसमुदायस्य प्रतिपत्तिः=प्रतीतिर्यथा स्यादित्येवमर्थं वप्रत्ययग्रहणम्()। अनेन ह्रयमर्थो विज्ञाप्यते--इतोऽन्यत्र धातुगरहणे सति न केवलं धातुरेव गृह्रते, अपि तु धात्वादिः शब्द इति। तेनायस्कृतम्(), अयस्कार इत्यत्र "अतः कृकमि" ८।३।४६ इत्यादिना विसरजनीयस्य सकारः सिद्धो भवति। यदि पुनरयमर्थो न विज्ञाप्येत, तदा करोतेरेव केवलस्य ग्रहणं स्यात्(); ततो यत्र करोतेः केवलस्य प्रत्ययरहितस्य प्रयोगस्तत्रैव स्यात्()--अयस्कृदिति। अत्र तुगागमः करोतेरेव भकतत्वात्? तद्ग्रहणेनैव गृह्रत इति करोतेरेव केवलस्य प्रयोगः। "अ()आआची" इति। अ()आमञ्चति इति क्विन्(), "अञ्चतेश्चोपसंख्यानम्()" (वा।३३६) इति ङीप्(), "अचः" ६।४।१३८ इत्यकारलोपः "चौ" ६।३।१३७ इति दीर्घः। "विष्वग्युक्()" इति। विष्वगयुनक्तीति "सत्सूद्विष" ३।२।६१ इत्यादिना क्विप्()। "विष्वगञ्चनम्()" इति। "ल्युट्? च" ३।३।११५ इति ल्युट्()। "छन्दसि" इत्यादि। छन्दसि विषये स्त्रियामभिधेयायां बहुलमद्र()आदेशे भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--"विभाषोदरे" ६।३।८७ इत्यतो विभाषाग्रहणमनुवत्र्तते, सा च व्यवस्थितविभाषा। इह वा चकारोऽनुक्तसमुच्चयार्थः, तेन च्छन्दसि विषये विष्वगावेरन्यत्रापि क्वचिदद्र()आदेशो भवतीति, क्वचिन्न भवत्येव। ननु च सर्वनाम्नोऽनुकर्षणार्थश्चकारः? नैतदस्ति; स्वरितत्वादेव हि सर्वनाम्नोऽनुवृत्तिर्भविष्यति। "वि()आआची" इत्यादि। वि()आघृतकिंशब्देषूपपदेष्वञ्चतेः पूर्ववत्? क्विन्(), ङीबादिकार्यञ्च॥