पूर्वम्: ६।४।१२७
अनन्तरम्: ६।४।१२९
 
सूत्रम्
मघवा बहुलम्॥ ६।४।१२८
काशिका-वृत्तिः
मघवा बहुलम् ६।४।१२८

मघवनित्येतस्य अङ्गस्य बहुलं तृ इत्ययम् आदेशो भवति। मघवान्, मघवन्तौ, मघवन्तः। मघवन्तम्, मघवन्तौ, मघवतः। मघवता। मघवती। माघवतम्। न च भवति। मघवा, मघवानौ, मघवानः। मघवानम्, मघवानौ, मघोनः। मघोना, मघवभ्याम्, मघवभिः। मघोनी। माघवनम्।
लघु-सिद्धान्त-कौमुदी
मघवा बहुलम् २९०, ६।४।१२८

मघवन्शब्दस्य वा तृ इत्यन्तादेशः। ऋ इत्॥
न्यासः
मघवा बहुलम्?। , ६।४।१२८

मधवेति सुव्व्यत्ययेन षष्ठ्याः स्थाने प्रथमा। "मधोनः" इति। "()आयुवमधोनाम्()" ६।४।१३३ इति समप्रसारणम्(), परपूर्वत्वम्(), "आद्गुणः" ६।१।८४। ननु च मघोऽस्यास्तीति मत्वर्थविवक्षायां "छन्दसीवनिपो वकतव्यौ" (वा।५८२) इति वनिप्()रत्ययान्तोऽयं मघवन्शब्दः। तत्र वनिपः सम्प्रसारणे भसंज्ञायां सत्याम्(), "यस्येति च" ६।४।१४८ इति लोपेन भवितव्यम्(), ततश्च "मधुनः" इत्यनिष्टं रूपं स्यात्()? नैतत्(); अन्येव हीदमव्युत्पन्नं प्रातिपदिकम्(), तथा हि भावायामपि तस्य प्रयोगो दृश्यते। अथापि वनिप्प्रत्ययान्तः स्यात्()? एवमपि बहुलवचनात्? "यस्येति" ६।४।१४८ इति लोपो न भविष्यतीत्यदोषः। "मघोनी" इति। "ऋन्नेभ्यो ङीप्()" ४।१।५। "माघवनम्()" इति। पूर्ववदण्()। "अन्()" ६।४।६७ इति प्रकृतिवद्भावः॥
बाल-मनोरमा
मघवा बहुलम् , ६।४।१२८

"()आन्नुक्षन्पूषन्प्लीहनक्लेदन्()स्नेहन्मूर्धन्मज्जन्नर्यमन्वि()आप्सन्परिज्मन्मातरि()आन्मघव"न्नित्युणादिसूत्रेण निष्पन्ने तस्मिन्मघवन्शब्दे विशेषमाह--मघवा बहुलम्। "अर्वणस्त्रासौ" इत्यतः "तृ" इत्यनुवर्तते। तच्च लुप्तप्रथमाकम्। "मघवे"ति तु षष्ठ()र्थे प्रथमा। तदाह--मघवन्शब्देस्येत्यादिना। ऋ इदिति। "उपदेशेऽजनुनासिक इत्" इति ऋकार इत्संज्ञक इत्यर्थः। "ऋ" इत्यविभक्तिको निर्देशः प्रक्रियासमये न दुष्यति। अलोऽन्त्यस्येति नकारस्य तकारः। सर्वादेशस्तु न, "नानुबन्धकृतमनेकाल्त्वमि"ति वचनात्। मघवत् स् इति स्थिते-।

तत्त्व-बोधिनी
मघवा बहुलम् ३२१, ६।४।१२८

माधवेनोक्तमिति। इत्थं हि तदियो ग्रन्थः--"भसंज्ञायामल्लोपे उत्तरपदमनच्कं स्थानिवद्भावश्चाऽल्विधित्वान्ने" त्येकाजुत्तरपदत्वाऽभात् "प्रातिपदिकान्तनुम्विभक्तिषु चे"ति विकल्पो भवति--वृत्रघ्नो""वृत्रघ्ण"इति। तद्भाष्येतिष किंच "अल्विधित्वान्ने"त्यसङ्गतम्। अल्बिघ्यर्थमेब "अचः परस्मि"न्नित्यस्यारम्भात्। तस्याऽप्रवृत्तौ युक्तयन्तरस्यैव वाच्यत्वात्। "एकाजुत्तरे"त्यस्याऽप्रवृत्तावपि "कुमति चे"ति सूत्रस्य दुर्वारत्वाद्वैकल्पिकत्वं णत्वस्याऽसङ्गतमेव। न च त्रिपद्यामपि पूर्वं प्रत्युत्तरशास्त्रस्याऽसिद्धत्वात् "एकाजुत्तरपदेः णः" "कुमति चे"त्यस्याऽप्रवृत्त्या "प्रातिपदिकान्ते"ति वैकल्पिकमेव णत्वं भवतीति वाच्यं, "न हि योगोऽसिद्धः किंतुपर्करणे प्रकरण"मिति भाष्यादौ स्पष्टत्वादिति दिक्। अनिनस्मन्ग्रहणानीति। अन्--"राज्ञे"त्यर्थवता, "साम्ना"इत्यनर्थकेन। इन्--"दण्डी"त्यर्थवता, "वाग्ग्मी"त्यनर्थकेन। अस्---"सुपया"इत्यर्थकेन। इह "स्त्रुरूभ्यां नुट् चे"त्यसुनस्तुट्। मन्--"सुशर्मे"त्यर्थवता, "सुप्रथिमा"इत्यमर्थकेन। एतच्च "इणः षीध्व"मिति सूत्रेऽङ्गग्रहणेनार्थवद्न्रहणपरिभाषाया अनित्यत्वज्ञापनात्सिद्धम्। "वेविषीध्व"मित्यत्र षीध्वंशब्दस्य ग्रहणं माभूदिति हि तत्राऽङ्गग्रहणं कृतम्। तच्चाऽपार्थकम्, अनर्थकत्वादेव तद्न्रहणाऽसिद्धेः। अतो ज्ञायते "अर्थवद्न्रहणपरिभाषा अनित्ये"ति। मघवा बहुलम्। "अर्वणस्त्रसा"वित्यतस्तृ इत्यनुवर्तते, तदपक्षा च "मघवे"तिषष्ठ()र्थे प्रथमा, तदाह--