पूर्वम्: ६।४।२७
अनन्तरम्: ६।४।२९
 
सूत्रम्
स्यदो जवे॥ ६।४।२८
काशिका-वृत्तिः
स्यदो जवे ६।४।२८

जवे ऽभिधेये स्यदः इति घञि निपात्यते। स्यन्देर् नलोपो वृद्ध्यभावश्च। इक्प्रकरणात् न धातुलोपः इति प्रतिषेधो न अस्ति। गोस्यदः। अश्वस्यदः। जव इति किम्? तैलस्यन्दः। घृतस्यन्दः।
न्यासः
स्यदो जवे। , ६।४।२८

जवः=वेगः, गतिविशेषः। "वृद्ध्यभावश्च" इति। "अत उपधायाः" इति। नलोपे कृते "अत उपधायाः" इति वृद्धिः प्राप्नोति, अतस्तदभावो निपात्यते। ननु च "न धातुलोप आर्धधातुके" १।१।४ इत्यनेनैव वृद्धिप्रतिषेधः सिद्धः, तत्? किमर्थं वृद्ध्यभावो निपात्यते? इत्याह--"इक्प्रकरणात्()" इत्यादि। तत्र "इको गुणवृद्धी" १।१।३ इत्यत "इक्()" इति परकृतमनुवर्तते, तेनेग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः। न चेयमिन्लक्षणा वृद्धिः, किन्तूपधालक्षणा। न चेयमुपधालक्षणा वृद्धिरिग्लाक्षणा भवति, निर्दिष्टस्थानिकत्वात्()। तेन नास्त्यत्र तस्याः प्रतिषेधः। "गोस्यदः" इति। भावे धञ्()। गवां स्यद इति गोस्यदः, "कृद्योगा षष्ठी समस्यते" (धा।८६) इति समासः। "तैलस्यन्दः" इति। तैलस्य रुआवणमित्यर्थः। "स्यन्दू रुआवणे"["प्ररुआवणे" धा।पा।] (धा।पा।७६१)॥