पूर्वम्: ७।२।१०६
अनन्तरम्: ७।२।१०८
 
सूत्रम्
अदस औ सुलोपश्च॥ ७।२।१०७
काशिका-वृत्तिः
अदस औ सुलोपश् च ७।२।१०७

अदसः सौ परतः सकारस्य औकारादेशो भवति सोश्च लोपो भवति। असौ। औत्वप्रतिषेधः साकच्काद् वा वक्तव्यः सादुत्वं च। यदा च औत्वप्रतिषेधः तदा सकारादुत्तरस्य उत्वं भवति। असुकः। असुकौ। उत्तरपदभूतानां त्यदादीनाम् अकृतसन्धीनाम् आदेशा वक्तव्याः। परमाहम्। परमायम्। परमानेन। अदसः सोर्भवेदौत्वं किं सुलोपो विधीयते। ह्रस्वाल् लुप्येत सम्बुद्धिर् न हलः प्रकृतं हि तत्। आप एत्वं भवेत् तस्मिन् न झलीत्यनुवर्तनात्। प्रत्ययस्थाच्च कादित्वं शीभावश्च प्रसज्यते।
लघु-सिद्धान्त-कौमुदी
अदस औ सुलोपश्च ३५७, ७।२।१०७

अदस औकारोऽन्तादेशः स्यात्सौ परे सुलोपश्च। तदोरिति सः। असौ। त्यदाद्यत्वम्। वृद्धिः॥
न्यासः
अदस औ सुलोपश्च। , ७।२।१०७

"सौ" इत्येव। त्यदाद्यत्वापवादोऽदस औत्वं विधीयते। "असौ" इति। पूर्वसूत्रेण दकारस्य सकारः, "वृद्धिरेचि" ६।१।८५ इति वृद्धिः। "यदा च" इत्यादि। "सादुत्वञ्च" इति। चकारः सन्नियोगार्थः। तेन यस्मिन्? पक्षे औत्वप्रतिषेधः, तस्मिन्नेव पक्षे सादुत्तरस्याकारस्योत्त्वं विधीयते। "उत्तरपदमभूतानाम्()" इत्यादि। इह परमाहम्(), परमानेनेति "त्वाहौ सौ" ७।२।९४, "इदोऽय्? पुंसि" ७।२।१११, "अनाप्यकः" (७।२।११२) इति समासाद्? या विभक्तिः, तस्यामेत आदेशः भवन्तो बहिरङ्गा भवन्ति; प्रागेव तु विभक्त्युत्पत्तेः। अकः सवर्णे दीर्घत्वं प्राप्नुवदन्तरङ्गम्(), तस्मात्? पूर्वं तदेव स्यात्(), पश्चादादेशाः स्युः; ततश्च परमहम्(), परमयम्(), परमनेनेत्यनिष्टानि रूपाणि रूपणि स्युः। तस्मादुत्तपदभूतानामकृतसवरसन्धीनां त्यदीदीनामादेशा वक्तव्याः=व्याख्येया इत्यर्थः आचार्यप्रवृत्तिज्र्ञापयति--पूर्वोत्तरयोः पदयोस्तावत्? कार्यं प्रथमं भवति, पश्चादेकादेश ति। यदयं "नेन्द्रस्य परस्य" ७।३।२२ इति प्रतिषेधं शास्ति। कथं कृत्वा ज्ञापकम्()? इन्द्रे द्वावचौ, तत्रैकः--"यस्येति च" ६।४।१४८ इति लोपेनापह्नियते, अपरः--एकादेशेनेत्यनच्क इन्द्रशब्दः सम्पन्नः, तत्र को वृद्धिप्रसङ्गः! पश्यति त्वाचार्यः--पुर्वोत्तरयोः पदयोस्तावत् कार्यं भवति, पश्चादेकादेश इति; यतः "नेन्द्रस्य परस्य" ७।३।२२ इति वृद्धिप्रतिषेधं शास्ति। तदेतस्माज्ज्ञापकादकृतस्वरसन्धीनामुत्तरपदभूतानां त्यदादीनामादेशा भवन्तीति। "अवसः सोर्भवेदौत्वम्()" इत्यादि। अवधारणमत्र द्रष्टव्यम्()। अदःशब्दात्? परस्य सोरेवौत्वं भवेत्()। भवतु, मा वा भूत्()। अदश्शब्दस्य त्यदाद्यत्वे कृते "वृद्धिरेचि" ६।१।८५ इति वृद्धौ कृतायामसाविति सिध्यत्येव, तत्? किमर्थं सुलोपे विधीयते? निरर्थकतवान्नैवं सोर्लोपो विधेयः, औत्वमेव विधेयम्()। अत्र दोषमाह--"ह्यस्वाल्लुप्येत सम्बुद्धिः" इति। हेऽसावित्यत्र "एङ ह्यस्वात्? सम्बुद्धेः" ६।१।६७ इति सोर्लोपः प्रसज्येत, ततश्च सम्बुद्धौ हेऽसाविति न सिध्येत्()? "न हलः प्रकृतं हि तत्()" इति। नायं देषः; हलः सम्बुद्धेर्लोप औत्वे कृतेऽण्? भवति, न हलिति, तत्कुतो लोपप्रसङ्गस्तत्र! तर्हि हल्ग्रहणं कत्र्तव्यम्()? न कत्र्तव्यम्(); यस्मात्? प्रकृतं तत्()। "हल्ङ्याब्भ्यः सुतिस्यपृक्तं हल्()" ६।१।६६ इत्यतो हल्ग्रहणं प्रकृतमेव। यद्यपि तत्र प्रथमानिर्दिष्टम्(), षष्ठीनिर्देशेन चेहार्थः, तथापि "एङ्? ह्यस्वात्()" ६।१।६७ इति पञ्चमी हलित्यस्याः प्रथमायाः षष्ठीत्वं प्रकलप्यिष्यति; "तस्मादित्युत्तरस्य" १।१।६६ इति वचनात्()। अथं तर्हि दोषः--"आप एत्वं भवेत्? तस्मिन्()" इत्यादि। तस्मिन्नोकारे परतस्त्यदाद्यत्वे कृते स्त्रियां टापि--हे असौ ब्राआहृणीत्यतर "सम्बुद्धौ च" ७।३।१०६ इत्येत्वं स्यात्(), यथा हि हे खट्वे इत्यत्र? "न ज्ञलीत्यनुवत्र्तनात्()" इति। नायं दोषः; "सम्बुद्धो च" ७।३।१०६ इत्यत्र "बहुवचने झल्येत्()" ७।३।१०३ इत्यनुवत्र्तते, तेन झलादौ सम्बुद्धावेत्येन भवितव्यम्()। च चौकारे कृते झलादिः सम्बुद्धिर्भवति, किं तर्हि? अजादिः। "प्रत्ययस्थाच्च कादित्त्वं शीभावश्च प्रसज्यते" ["प्रसज्येत"--प्रा। मुद्रितः पाठः] इति। पूर्वकश्चकारः तह्र्रर्थे, इतरः समुच्चये। अयं तर्हि दोषः--असकौ ब्राआहृणीत्यत्राज्ञाताद्यर्थविवक्षायामकचि कृते टापि च "प्रत्ययस्थात्? कात्()" (७।३।४४) इत्यादिना कात्? पूर्वस्येत्वं प्राप्नोति? असौ ब्राआहृणी इत्यत्र "औङ आपः" ७।१।१८ इत्यनेन शीभावोऽदसस्त्ववयव ओकारे कृते टाबेव नास्तीति नैतद्दोषद्वयं सम्भवति। शीभावदोषश्च पाक्षिको वेदितव्यः, यस्मिन्? पक्षे सामान्यग्रहणार्थो ङकारः प्रत्ययस्यासज्यते। यदा तु पूर्वसूत्रनिर्देशस्तदा द्विवचनयोरेव शीभावः; तयोरेव पूर्वाचार्यैर्ङित्वस्य कृतत्वात्()। अन्यस्य प्राप्तिरेव नास्ति; आङित्त्वात्()॥
बाल-मनोरमा
अदस औ सुलोपश्च , ७।२।१०७

अदस्शब्दात्सौ त्यदाद्यत्वे प्राप्ते-अदस औ। "अदस इति षष्ठी। "औ" इत्यविभक्तिकनिर्देशः। "तदोः सः सौ" इत्यतः "सा वित्यनुवर्तते। तदाह--अदस इति। "अन्तादेश" इत्यलोन्त्यपरिभाषालभ्यम्। सकारस्य औत्त्वे कृते हलः परत्वाऽभावाद्धल्ङ्यादिलोपेऽप्राप्ते सुलोपविधिः। दस्य स इति। मुत्वापवाद इति भावः। असौ इति। अदस्स् इति स्थिते सकारस्य औत्त्वे, सुलोपे, दस्य सत्वे च रूपम्।

अत "अव्ययसर्वनाम्ना मित्यकचि अदकस्शब्दात्सो विशेषमाह--औत्वप्रतिषेध इति। "अदस औ सुलोपश्चे"त्यत्र अदस्()शब्देन तन्मध्यपतितन्यायेन अदकस्शब्दस्यापि ग्रहणादौत्त्वे प्राप्ते विकल्पेन तत्प्रतिषेदो वक्तव्यः "तदोः सः सौ" इति दकारस्य सकारे कृते तस्मात्सकारात्परस्य अकारस्य उकारश्च वा वक्तव्य इत्यर्थः। ततश्च अदकस्स् इति स्थिते, औत्वाऽभावे, दसय् सत्वे सति, सकारातपरस्य अकारस्य उत्वे सति, त्यदाद्यत्वे, पररूपे, रुत्वे, विसर्गे असुक इति रूपम्। औत्वप्रतिषेधाभावपक्षे अदकस्स् इति स्थिते, सकारस्य औत्वे, सुलोपे, दस्य सत्वे, असकौ इति रूपं वक्ष्यति। तत्र औत्वप्रतिषेधाऽभावपक्षे औत्वे कृते सकारादकारस्य उत्वविकल्पः कुतो न स्यादित्यत आह--प्रतिषेधेति। "सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः" इति न्यायादिति भावः। "अमुकः" "अमुकशर्मा" इत्यादि त्वसाध्वेवेत्याहुः। केचित्तु अदस्शब्दपर्यायोऽमुकशब्दोऽव्युत्पन्न इत्याहुः। अदस् औ इति स्थिते प्रक्रियां दर्शयति--त्यदाद्यत्वमिति। पररूपमपि बोध्यम्। मत्वोत्वे इति। "अदौ" इत्यत्र दात्परस्य औकारस्य दीर्घ ऊकारः, दस्य मत्वं चेत्यर्थः। जसि त्यदाद्यत्वं पररूपं च सिद्धवत्कृत्य आह--जसःशीति। आद्गुणे अदे इति स्थितम्।

तत्त्व-बोधिनी
अदस औ सुलोपश्च ३८९, ७।२।१०७

अदस औ सुलोपश्च। "अदस इति षष्ठी। "तदोः सः सौ इत्यतः सावित्यनुवर्तते, तदाह--औकारोऽन्तादेशः स्यात्सौ पर इति। नन्वदस इति पञ्चम्येवाऽस्तु ततः परस्य सोरेवौकारो विधीयतां, त्यदाद्यत्वेन असाविति रूपं सिध्यति किं सुलोपविधानेन()। न च स्वरे भेदः, उदात्तेन सहेकादेश औकारस्योदात्तत्वात्। मैवम्। "असकौ स्त्री"त्यत्र टापि "पत्र्ययस्था"दितीत्त्वपर्सङ्गात्। असुक इति। औत्वाऽभावे त्यदाद्यत्वे सादुत्वम्। स्त्रियां तु "असुकौ""असुका"इति। "अमुकी""असुकी"ति च प्रयोगऽसाधुरेव। एवममुकशर्मेत्यादिरपि। "अदकःशर्मे"त्यादेरेव न्याय्यत्वात्।