पूर्वम्: ७।२।१०७
अनन्तरम्: ७।२।१०९
 
सूत्रम्
इदमो मः॥ ७।२।१०८
काशिका-वृत्तिः
इदमो मः ७।२।१०८

इदमः सौ परतः मकारो ऽन्तादेशो भवति। इयम्। अयम्। इदमो मकारस्य मकारवचनं त्यदाद्यत्वबाधनार्थम्।
लघु-सिद्धान्त-कौमुदी
इदमो मः २७४, ७।२।१०८

सौ। त्यदाद्यत्वापवादः॥
न्यासः
इदमो मः। , ७।२।१०८

अलोऽन्त्यपरिभाषया १।१।५१ मकारस्यैवानेन मकारेण भवितव्यम्(), न च मकरसय मकारादेशे कृते विशेषोऽस्ति, तत्किमर्थं मकारस्य मकारः इत्युच्यते? --इत्येतच्चोद्यं निराकर्तुमाह--"मकारस्य" इत्यादि। गतार्थम्()॥
बाल-मनोरमा
इदमो मः , ७।२।१०८

अथ इदंशब्दे विशेषमाह--इदमो मः। साविति। "तदोः सः सौ" इत्यतस्तदनुवृत्तेरिति भावः। "अलोऽन्त्यस्ये"त्यन्त्यस्य मस्य मः। ननु मस्य मविधिव्र्यर्थ इत्यत आह--त्यदाद्यत्वापवाद इति।

तत्त्व-बोधिनी
इदमो मः ३०३, ७।२।१०८

इदमो मः। "इन्दे कमिर्नलोपश्च"। इदम्। "तदोः सः सौ"इत्यतोऽनुवर्तनादाह---सौ पर इति।