पूर्वम्: ७।२।१
अनन्तरम्: ७।२।३
 
सूत्रम्
अतो र्लान्तस्य॥ ७।२।२
काशिका-वृत्तिः
अतो ल्रान्तस्य ७।२।२

रेफलकारौ यावतः अन्तौ समीपौ तदन्तस्य अङ्गस्य अत एव स्थाने वृद्धिः भवति। क्षर अक्षारीत्। त्सर अत्सारीत्। ज्वल अज्वालीत्। ह्मल अह्मालीत्। अतो हलादेर् लघोः ७।२।७ इति विकल्पस्य अयम् अपवादः। अतः इति किम्? न्यखोरीत्। न्यमीलीत्। ल्रान्तस्य इति किम्? मा भवानटीत्। मा भवानशीत्। अन्तग्रहणं किम्? अवभ्रीत्। अश्वल्लीत्। अत्र यौ रेफलकारौ अङ्गस्य अन्तौ न तावतः समीपौ।
न्यासः
अतो ल्रान्तस्य। , ७।२।२

अन्तशब्दोऽयमस्त्यवयववचनः, यथा वस्त्रान्तः, वसनान्त इति। अस्ति च समीपवाची, यथा--उदकान्तं प्रियं प्रोथमनुव्रजेदिति। उदकसमोपमित्यर्थः। अत्रावयववाचिनोऽन्तशब्दस्य ग्रहणे इहान्तग्रहणमनर्थकं स्यात्()? तस्य ह्रुपादनस्यैतत्? प्रयोजनम्()--रेफलकारान्तस्य यथा स्यादिति। एतच्च "येन विधिस्तदन्तस्य" १।१।७१ इत्यनेनैव सिध्यति। तस्मात्? समीपवाचिन एव ग्रहणमिति मत्वाऽ‌ऽह--"रेफलकारो यावतोऽन्तौ= समीपी" इति। यदि तर्हि ल्रावन्तौ यसय समीपावत इत्यनेन निर्दिश्यते वृद्धिभाग्? न निर्दिष्टः स्यात्()। एवञ्च "अलोऽन्त्यस्य" १।१।५१ इत्यन्त्यस्य स्यात्(); अकारसमीपभूतस्य ल्रान्तस्यान्त्यस्य वृद्धिभाज इकोऽभावादित्यत आह--"अत एव स्थाने" इति। एवं मन्यते--अकारस्य श्रुतत्वादकारस्यैव स्थाने वृद्धिर्विज्ञायत इति। "अक्षारीत्()" इत्यादि। "क्षर सञ्चलने" (धा।पा।८५१), "त्सर छद्मगतौ" (धा।पा।५५४), "ज्वल दीप्तौ" (धा।पा।८०४), "ह्वल ह्रल चलने" (धा।पा।८०५,८०६) इत्येतेषां रूपाणि। "अतो हलादेर्लघोरित्यस्य विकल्पस्यायमपवादः" इति। एतेन नियमार्थतामस्य योगस्य दर्शयति। "न्यखोरीत्(), न्यमीलीत्()" इत्यादि। "खुर छेदने" (वा।यां।१३४२), "मील श्मील स्मील श्मील निमेषणे" (धा।पा।५१७-५२०)। "मा भवानटीत्(), मा भवानशीत्()" इति। "अट पट गतौ" (धा।पा।२९५,२९६), "अशभोजने" (धा।पा।१५२३) "न माङ्योगे" ६।४।७४ इत्याट्प्रतिषेधार्थो माङ्योगः। "भवान्()" इति। अयं सन्देहनिरासार्थः; अतोऽन्यत्र विशेषाभावात्()। "अवभ्रीत्()" इति। "अभ्र वभ्र मभ्र चर गत्यर्थाः" (धा।पा।५५६-५५९)। "अ()आल्लीत्()" इति। "()आल()आल्ल आशुगमने" (धा।पा।५४९,५५०)। "न तावतः समीपौ" इति। भकारलकाराभ्यां व्यवधानादिति॥
बाल-मनोरमा
अतो ल्रान्तस्य १७०, ७।२।२

अतो ल्रान्तस्य। "सिचि वृद्धिः परस्मैपदेषु" इत्यनुवृत्तम्। अङ्गस्येत्यधिकृतम्। तद्विशेषणत्वात्तदन्तविधिनैव सिद्धेऽन्तग्रहणं व्यर्थम्। तत्राह--- ल्रेति लुप्तषष्ठीकमिति। ल्र अन्तस्य इति छेदः। ल् च रश्चेति समाहारद्वन्द्वात्षष्ठ()एकवचनं लुप्तम्। ल्रस्यान्तस्येति सामानाधिकरण्येनान्वयः। "अत" इति व्यधिकरणषष्ठ()न्तम्-- अन्तस्येत्यत्रान्वेति। अन्तशब्दः समीपवर्तिवाची। तथा च अतः समीपवर्तिनो ल्रस्येति लभ्यते। ल्रस्येत्यङ्गविशेषणत्वात्तदन्तविधिः। ततश्च अत्समीपवर्तिरेफलकारान्तस्य अङ्गस्य सिचि वृद्धिरिति लभ्यते। "अत" इत्यावृत्तं वृद्धौ स्थानित्वेनान्वेति तदाह--अतः समीपावित्यादिना। अतः समीप इति किम्?। अखोरीत्। अमीलीत्। ल्रान्तस्येति किम्?। मा भवनातीति। अतो वृद्धिरुत्युक्ता अतः समीपावित्यनुक्तौ तु अवभ्रीत् अ()आल्लीदित्यत्रातिपव्याप्तिः। अत्र अङ्गस्यान्तौ रेफलकारौ नातः समीपाविति न वृद्धिः। न चात्र अतो भकारेण लकारेण च व्यवहितत्वादेव न वृद्धिः, आलीदित्यादौ एकव्यवधाने चरितार्थत्वादिति वाच्यं, सिचि परे यदङ्गं तदकारस्य वृद्धिरित्यर्थाश्रयणेऽतिव्याप्तवारणार्थत्वात्। ञि फलेति। विशरणं--शिथिलीभावः। "आदिर्ञिटुडवःर" इति ञिरित्। "ञीतः क्तः" इति प्रयोजनम्। "आदितश्चे"ति तीण्निषेधार्थमादित्त्वम्। लिण्निमित्तादेशादित्वादप्राप्ते आह---तृफलेति। मील श्मीलेति। निमेषणं-- नेत्रसंकोचः। संकोच इति पाठेऽप्ययमेवार्थः। णील वर्ण इति। वर्णक्रियायामित्यर्थः। फल निष्पत्ताविति। ञि फलेति पूर्वं पठितम्। अनुबन्धभेदात्पुनः पाठः। खोलृ खोरृ इति। द्वितीयो रेफान्त ऋदित्। इत आरभ्यष्ठिवेः प्राग्रेफान्ताः। धोरृगतिचातुर्य इति। अ()आगतिविशेष इत्यर्थः। रेपान्तोऽयम्(), ऋदित्। त्सर छद्मगताविति। कपटगतावित्यर्थः। क्मर हूर्छन इति। कुटिलीभवन इत्यर्थः। ष्ठिवु निरसन इति। इदुपधः, उदित्। इत आरभ्य ऊष्मान्तेभ्यः प्राग्वकारान्ताः। तिपि शपि लघूपधगुणे प्राप्ते आह---ष्विनुक्लम्वितीति। ल्युटि तु शित्परकत्वाऽभावाद्धीर्घऽभावे लघूपधगुणः। "ष्ठीवन" मिति तु पृषोदरादित्वात्समाधेयम्। अस्येति। ष्ठिनुधातोर्द्वितीयो वर्णस्थकार इत्यर्थः। कृतष्टुत्वस्य निर्देश इति भावः। षोपदेशोऽयं, केवलदन्त्यथकारपरकसादित्वात्। षोपदेशत्वेऽपि न सत्वम्, "सुब्धातुष्ठिवु" ति निषेधात्। लिटि तु "शर्पूर्वाः खयःर" इति षकारवकारयोर्निवृत्त्या ष्टुत्वनिवृत्तौ?रूपमाह-- तिष्ठेवेति। ठकारस्य स्वाभाविकत्वे तु टिष्ठेवेति रूपम्। जि जय इति। जिधातुरनिट्कः। सँल्लिटोर्जेः। "अभ्यासाच्चे"ति सूत्रादभ्यासादित्यनुवर्तते। "चजोः कुघिण्यतो"रित्यस्मात्कु इति च। "संल्लिटो"रिति निमित्तसप्तमी अभ्यासे अन्वेति। तदाह--- संल्लिण्निमित्तो योऽभ्यास इत्यादि। "सनि लिटि च अभ्यासात् परस्य कुत्व"मिति व्याख्याने तु यङ्लुगन्तात्सनि जेजयिषतीत्यत्र कुत्वं स्यात्। अतः "संल्लिण्निमित्तो योऽभ्यास" इति व्याख्येयमिति माधवः। जिगायेति। णलि द्वित्वे वृद्धौ उत्तरखण्डे जस्य कुत्वेन गः। जिग्यतुरिति। कित्त्वाद्गुणाऽभावः। लिटि "एकाच" इति इण्निषेधं बाधित्वा क्रादिनियमादिटि प्राप्ते,थलि "अचस्तास्व"दिति तन्निषेधस्य भारद्वाजनियमाद्विकल्पः। तदाह-- जिगयिथ जिगेथेति। जिग्यथुः। जिग्य। "णलुत्तमो वे"ति मत्वा आह-- जिगाय जिगयेति। क्रादिनियमादिटं मत्वा आह--जिग्यिव जिग्यिमेति। जेतेति। जेष्यति। जयतु।अजयत्। आशीर्लिङि "अकृत्सार्वधातुकयो"रिति दीर्घ मत्वा आह--जीयादिति। अजैषीदिति। "सिचि वृद्धि"रिति वृद्धिरिति भावः। अजेष्यते। षर्वधातुः षोपदेशः। इविधातोरिदित्त्वान्नुम्। तदाह-- इन्वतीति। इन्वांचकारेति। नुमि इजादिगुरुमत्त्वादमिति भाव-। पिवि मिवीत्यादय इदितः।

तत्त्व-बोधिनी
अतो ल्रान्तस्य १४३, ७।२।२

अतो ल्रान्तस्य। यद्यवयववचनेनाऽन्तशब्देन बहुव्रीहिरङ्गं चान्यपदार्थस्तत्पक्षे विशेषणेन तदन्तविधेः विशेषणेन तदन्तविधेः सिद्धत्वादन्तग्रहणमनर्थकम्। अ()आल्लीदित्यत्रातिव्याप्तिश्च। समीपवाचिना अन्तशब्देन षष्ठीसमासपक्षे विशेषणेन तदन्तविधेः सिद्धत्वादन्तग्रहणमनर्थकम्। अ()आल्लीदित्यत्रातिव्याप्तिश्च। समीपवाचिना अन्तशब्देन षष्ठीसमासपक्षे रपिरणि()आल्लप्रभृतिष्वतिव्याप्तिः, अङ्गस्याऽतो ल्रोः समीपत्वात्()। "ल्र" च तदन्तश्चेति समीपवाचिनाऽन्तशब्देन कर्मधारयपक्षे त्वन्तशब्दस्य विशेषणत्वात्पूर्वनिपातः स्यादत आह--लुप्तषष्ठीकमिति। अन्तशब्दः समीपवाचीत्यभिप्रेत्याह-- अतः समीपाविति। अतो वृद्धि स्यादिति। इह "अत" इत्यस्य तन्त्रावृत्यादिकं स्वीकर्तव्यम्। अन्यथा प्रयोजनाऽभावादिक्परिभाषानुपस्थानऽप्यलोन्त्यपरिभाषयाऽन्त्यस्य स्यादिति भावः। यद्यपि "अतो ल्रस्येट त्युक्तेऽपि ल्रान्तस्याङ्गस्य अतः सिचि परे वृद्धिरित्यर्थोऽपि प्रतीयेत। ततश्चाऽ()आल्लीदित्यत्रातिप्रसङ्गः स्यात्। तद्वारणाय सूत्रेऽन्तग्रहणं कृतमिति। तदनुरोधेनाऽन्तशब्दस्य समीपवनाचित्वमत इत्यस्य चाऽ‌ऽवृत्तिः स्वीकृतेति बोध्यम्। अतः समीपाविति क#इम्()। अखोरीत् अमीलीत्। ल्रान्तस्याङ्गस्य किम्?। ()आल्ल आशुगमने। अ()आल्लीत्। अकारसमीपे यो लकारः स नाङ्गस्यान्तः, यस्त्वङ्गस्यान्तः, रा तु नाकारस्य समीपः। ननु ल्रेत्यस्य लुप्तषष्ठीकत्वनाभ्युपगमेऽप्यन्तशब्दस्यावयववाचित्वंस्वीकृत्य अङ्गस्यान्तं यत् ल्रं तस्याऽतो = तत्समीपस्याऽतो वृद्धिरिति व्याख्याने त्वत इत्यस्यावृत्तिर्नापेक्षितेति चेत्। अत्राहुः-- "हलन्त्यटमिति सूत्रे मनोरमायां "सामीप्यं षष्ठ()र्थः" इति पक्षस्य निराकरणात्तदनुरोधनात्राऽत इत्यस्याऽ‌ऽवृत्तिराश्रितेति। अत्र केचित्-- "अतो ल्रान्तस्ये"त्यत्र ल्रेति लुप्तसप्तमीकम्। अथवा "अतो ल्रान्ते" इति व्यस्तमेव सूत्रयितुं शक्यम्। तथा च "अङ्गस्यान्तं यत् ल्रं तस्मिन्परेऽव्यवहितस्याऽतो वृद्धिरिति व्याख्यानसंभवान्न तन्त्रा[वृत्त्या] द्याश्रयणक्लेशः। न चाङ्गस्य विशेख्यत्वेनैवान्वयो युज्यते न तु विशेषणत्वेन "पदाङ्गाधिकारे तस्य च तदन्तस्य चे"ति परिभाषायाः पदमङ्गं च विशेष्यं भवतीत्यभिप्रायवर्णनादिति वाच्यम्, "अल्लोपोऽनः" इतिसूत्रेऽङ्गावयवोऽसर्वनाम स्थानेत्येवं भाष्याकारादिभिर्विशेषणतया व्याख्यानात्क्वचिद्विशेषणत्वेऽप्यङ्गस्य न क्षतिर#इत्याहुः। नेटीत्यादि। यद्यपि पुरस्तादपवादन्यायेन "नेटी"त्यस्यापवादो न तु विकल्पस्यापि, तथापि बाध्यसामान्यचिन्तायां स्वविषये प्राप्तं सर्वं बाध्यत इति पुरस्तादपवादन्यायोऽत्र न प्रवर्तत इति भावः। मील संकोचे इति। नेत्रसंकोचे तु प्रचुरप्रयोगः। तिल गतौ। तिल स्नेहने इति चुरादौ। दल विशरणे। विशरणमवयवानां विभागः। धोरृ। धोरितकम()आआनां गतिविशेषः। निष्ठान्तात्संज्ञायां कन्। त्सरः। छद्मना कपटेन गतिः-- छद्मगतिः। क्मर हूर्छने। हूर्छनं-- कौटिल्यम्। ष्ठिवु निरसने। अस्य ल्युटि--ष्ठेवनम्। "ष्ठीवनाऽसृक्शकृन् मूत्ररेतांस्यप्सु न निक्षिपे"दित्यत्र पृषोदरादित्वापक्षे दीर्घ ईकार इत्याहुः।