पूर्वम्: ७।२।३३
अनन्तरम्: ७।२।३५
 
सूत्रम्
ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्तविशस्तॄ- शंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरुत्रीरुज्ज्वलितिक्षरिति- क्षमितिवमित्यमितीति च॥ ७।२।३४
काशिका-वृत्तिः
ग्रसितस्कभितस्तभितौत्तभितचत्तविकस्ता विशस्तृशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरूत्रीरुज्ज्वलितिक्षरितिक्षमितिवमित्यमिति इति च ७।२।३४

ग्रसित स्कभित स्तभित उत्तभित चत्त विकस्त विशस्तृ शंस्तृ शास्तृ तरुतृ तरूतृ वरुतृ वरूतृ वरूत्रीः उज्ज्वलिति क्षरिति क्षमिति वमिति अमिति इत्येतानि छन्दसि विषये निपात्यन्ते। तत्र ग्रसित स्कभित स्तभित उत्तभित इति ग्रसु स्कम्भु स्तम्भु इत्येतेषाम् उदित्त्वान् निष्ठायाम् इट्प्रतिषेधे प्राप्ते इडागमो निपात्यते। ग्रसितं वा एतत् सोमस्य। ग्रस्तम् इति भाषायाम्। स्कभित विष्कभिते अजरे। विष्कब्ध इति भाषायाम्। स्तभित येन स्वः स्तभितम्। स्तब्धम् इति भाषायाम्। उत्तभित सत्येनोत्तभिता भूमिः। उत्तब्धा इति भाषायाम्। उत्तभित इति उत्पूर्वस्य निपातसामर्थ्यादन्योपसर्गपूर्वः स्तभितशब्दो न भवति। चत्त, विकस्त इति चतेः कसेश्च विपूर्वस्य निष्ठायाम् इडभावो निपात्यते। चत्ता वर्षेण विद्युत् चतिता इति भाषायाम्। विकस्त उत्तानाया हृदयं यद् विकस्तम्। विकसितम् इति भाषायाम्। निपातनं बहुत्वापेक्षम्, विकस्ताः इति बहुवचनं कृतम्। अपरेषु तु निपातनेषु प्रत्येकं विभक्तिनिर्देशः। विशस्तृ शंस्तृ शास्तृ इति शसेर् विपूर्वस्य शंसेः शासेश्च तृचि इडभावो निपात्यते। विशस्तृ एकस्त्वष्टुरश्वस्याविशस्ता। विशसिता इति भाषायाम्। शंस्तृ उत शंस्ता सुविप्रः। शंसिता इति भाषायाम्। शास्तृ प्रशास्ता। प्रशासितम् इति भाषायाम्। तरुतृ तरूतृ वरुतृ वरूतृ वरूत्रीः इति तरतेः वृङ्वृञोश्च तृचि उटूटित्येतावागमौ निपात्येते। तरुतारं रथानाम्, तरूतारम्। तरितारम्, तरीतारम् इति भाषायाम्। वरुतारं रथानाम्, वरूतारं रथानाम्। वरितारम्, वरीतारम् इति भाषायाम्। वरुत्री त्वा देवी विश्वदेव्यवती। जसि पूर्वसवर्णोच्चारणं प्रयोगदर्शनार्थम्। अतन्त्रं चैतत्। इदम् अपि हि भवति अहोरात्राणि वै वरूत्रयः इति। छान्दसिकमत्र ह्रस्वत्वम्। प्रपञ्चार्थम् एव च ङीबन्तस्य निपातनम्। वरूतृशब्दो हि निपातितः, तत एव ङीपि सति सिद्धो वरूत्रीशब्दः। उज्ज्वलिति क्षरिति क्षमिति वमिति अमिति इति च ज्वलतेरुत्पूर्वस्य क्षर क्षम वम इत्येतेषां च तिपि शपः इकारादेशो निपात्यते, शपो लुग्वा, इडागमः। अग्निरुज्ज्वलिति। उज्ज्वलति इति भाषायाम्। क्षरिति स्तोकं क्षरिति। क्षरति इति भाषायाम्। क्षमिति स्तोमं क्षमिति। क्षमति इति भाषायाम्। वमिति यः सोमं वमिति। वमति इति भाषायाम्। अमिति अभ्यमिति वरुणः। अभ्यमति इति भाषायाम्। इतिकरणं प्रदर्शनार्थम् तेन क्वचितीकारो भावति, रविमभ्यमीति वरुणः इत्यपि हि वेदे पठ्यते।
न्यासः
ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ताविशस्तृशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरूत्रीरुज्वलितिक्षरितिक्षमितिवमित्यमितीति च। , ७।२।३४

"ग्रसु स्कन्भु स्तन्भु इत्येतेषाम्()" इत्यादि। "ग्रसु ग्लसु अदने" (धा।पा।६३०,६३१), "स्कन्भु", "स्तन्भु" ३।१।८२ इत्येतौ सौत्रौ धातू; "स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च" ३।१।८२ इति सूत्रे पाठात्()। "स्कभितम्, स्तभितम्()" इति। "अनिदिताम्()" ६।४।२४ इत्यनुनासिकसलोपः। "स्कब्धभ्(), स्तब्धम्()" इति। "झषस्तथोर्धोऽधः" ८।२।४० इति धत्वम्(), "झलां जश्? झशि" ८।४।५५ इति जश्त्वम्()। "उत्तभितम्()" इति। "उदः स्थास्तम्भोःत पूर्वस्य" ८।४।६० इति पूर्वसवर्णः। "अन्योपसर्गपूर्वः स्तभितशब्दो न भवतीति इति। यदि स्यात्(), उत्पूर्वस्य निपातनमनर्थकं स्यात्()। "चतेः, कसेश्च" इति। "चते चदे याचने" (धा।पा।८६५,८६६), "कस गतौ" (धा।पा।८६०)। ननु सूत्रे विकस्तशब्दाद्वहुवचनं श्रूयते, ततश्च कथमसौ वृत्तादेकवचनान्त उदह्मतः? इत्यत आह--"निपातनं बहुत्वापेक्षम्()। विकस्ता इति बहुवचनम्()" इति। सूत्रे ग्रसितादीनि निपातनानि कृतद्वन्द्वानि, अतस्तदपेक्षया बहुवचनं कृतम्()। वृत्तौ त्वसमस्त एक एवायं विकस्तशब्दः। न चैतदर्थस्य बहुवचनं विवक्षिम्(), अत एकवचनान्त एवोदाह्मतः। "अपरेषु" इति। विशस्तृप्रभृतिषु। "प्रत्येकं विभक्तिनिर्देशः" इति। बहुत्वाभावाद्बहुवचनम्(), तेन तत्र न कृतमित्यभिप्रायः। शसेर्विपूर्वस्य शंसेः शासेश्चेति। "शसु हिसायाम्()" (धा।पा।७२७), "शन्सु स्तुतौ" (धा।पा।७२८) "शासु अनुशिष्टौ" (धा।पा।१०७५)। "तरीतारम्? वरीतारम्()" इति। "वृतो वा" ७।२।३८ इति दीर्घः। "वरूत्रीः" इति। "ऋन्नेभ्यो ङीप्()" ४।२।५ इति ङीप्(), तदन्ताज्जस्(), "वा छन्दसि" ६।१।१०२ इति पूर्वसवर्णदीर्घः। जसि पूर्वसवर्णोच्चारणम्()" इत्यादि। ननु यणादेशे कृते वरूत्र्य इति भवितव्यम्(), कथं "वरूत्रयः" इति भवति? इत्याह--"छान्दसम्()" इत्यादि। छान्दसत्वेन हि ह्यस्वत्वे कृते "जसि च" ७।३।१०९ इति यणादेशापवदो गुणो विधीयते। "प्रपञ्चार्थम्()" इति। विस्तरेणान्वाख्यानमित्यर्थः। तथा हि "पचिर्विस्तारवचने" (धा।पा।१६५१) इति तस्यैवाजन्तस्य प्रपञ्च इति भवति। प्रपञ्चस्तु विस्पष्टार्थः। विस्तरेण ह्रन्वाख्यानं स्पष्टं भवति। अथ वरूत्रीशब्दस्य सिध्यर्थ निपातनं कस्मान्न भवति? इत्याह--"वख्तृशब्दो हि" इत्यादि। ज्वलतेरिति "ज्वल दीप्तौ" (धा।पा।८३१), "क्षर सञ्चलने" (धा।पा।८५१), "टु वम उद्()गिरणे" (धा।पा।८४९) "अम गत्यादिषु (धा।पा।४६५)। "इतिकरणं प्रदर्शनार्थम्()" इति एवम्प्रकारस्याम्यस्यापि प्रदर्शनार्थमितिकरणम्()। तेन किं सिद्धं भवति? इत्याह--"तेन क्वचित्()" इत्यादि। चकारस्श्छन्दसीत्यनुकर्षणार्थः। तेन चानुकृष्टत्वान्नोत्तरत्राभिसम्बध्यते। तेनोत्तरत्र विधानमविशेषेण भवति॥