पूर्वम्: ८।४।५९
अनन्तरम्: ८।४।६१
 
सूत्रम्
उदः स्थास्तम्भोः पूर्वस्य॥ ८।४।६०
काशिका-वृत्तिः
उदः स्थास्तम्भोः पूर्वस्य ८।४।६१

सवर्णः इति वर्तते। उदः उत्तरयोः स्था स्तम्भ इत्येतयोः पूर्वसवर्णादेशो भवति। उत्थाता। उत्थातुम्। उत्थातव्यम्। स्तम्भेः खल्वपि उत्तम्भिता। उत्तम्भितुम्। उत्तम्भितव्यम्। स्थास्तम्भोः इति किम्? उत्स्नाता। उदः पूर्वसवर्नत्वे स्कन्देश् छन्दस्युपसङ्ख्यानम्। अग्ने दूरम् उत्कन्दः। रोगे च इति वक्तव्यम्। उत्कन्दको नाम रोगः। कन्दतेर् वा धात्वन्तरस्य एतद् रूपम्।
न्यासः
उदः स्थास्तम्भोः पूर्वस्य। , ८।४।६०

"उत्थाता" इति। "आदेः पदस्य" १।१।५३ इति सकारस्य महाप्राणस्याघोषस्य तादृश एव पूर्वसवर्णस्थकारः, "खरि च" ८।४।५४ इति थकारस्य तकारः, "अनचि च" ८।४।४६ इति पूर्वतकारस्य द्विर्वचनम्(), "झरो झरि" ८।४।६४ इति पक्ष एकस्य लोपः। "उत्तम्भिता" इति। स्तम्भिः सौत्रो धातुः। "उत्स्नाता" इति"ण्णा शौचे" (धा।पा।१०५२)। पूर्वग्रहणं परसवर्णनिवृत्त्यर्थम्()। "उत्पूर्वस्य" इत्यादि। पूर्वसवर्णे कत्र्तव्ये स्कन्देश्छन्दति दि य उपसंख्यानम्()--प्रतिपादनं कत्र्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम्()--"व्यत्ययो बहुलम्()" ३।१।८५ इति व्यत्ययेनोदः परस्य स्कन्दे श्छन्दसि विषये पूर्वसवर्णो भविष्यति। "उत्कन्द" ["उत्कन्दः"--काशिका] इति। लोट्(), सिप्(), "सेह्र्रपिच्च" ३।४।८७ इति हिरादेशः, "अतो हेः" ६।४।१०५ इति हेर्लुक्()। "रोगे च" इत्यादि। इदमविशेषेण च्छन्दसि भाषायां च रोगे वाच्य उदः परस्य स्कन्देः पूर्वसवर्णो भवतीत्येतदर्थरूपं व्याक्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--पृषोदरादित्वा६।३।१०८द्भविष्यतीति। "उत्कन्दकः" इति। "रोगाख्यायां ण्वुल्बहुलम्()" ३।३।१०८ इति ण्वुल्()॥
बाल-मनोरमा
सर्वत्र शाकल्यस्य ५९, ८।४।६०

सर्वत्र शाकल्यस्य। "ने"त्यनुवर्तते। यत्र यत्र द्वित्वं विहितं तत्र तत्र शाकस्यस्य ऋषेर्मते द्वित्वं न भवतीत्यर्थः। दीर्घादाचार्याणाम्। "ने"त्यनुवर्तते। दीर्घात्परस्य यरो द्वित्वं केषाञ्चिदाचार्याणां मते न भवति। मतान्तरे तु भवति। "अनचि चे"त्यत्र वाग्रहणमनुवर्तते इति नाज्झलाविति सूत्रे कैयटः। एवं चाऽनचि चेत्येव द्वित्वविकल्पसिद्धौ त्रिप्रभृतिष्वित्यादिसूत्रत्रयं नारम्भणीयमिति प्रौढमनोरमायां स्थितम्। एतत्सूत्रत्रयविरोधादनचि चेत्यत्र वाग्रहणं नानुवर्त्त्यमिति युक्तं प्रतिभाति।

बाल-मनोरमा
उदः स्थास्तम्भोः पूर्वस्य ११९, ८।४।६०

उदः स्थास्तम्भोः। "अनुस्वारस्य ययि परसवर्णः" इत्यत्र समासनिर्दिष्टमपि सवर्णग्रहणमिह निष्कृष्य सम्बध्यते, एकदेशे स्वरितत्वप्रतिज्ञानात्। "उद" इति पञ्चमी। अतस्तस्मादित्युत्तरस्येति परिभाषया "उदःपरयो"रिति लभ्यते। तदाह--उदः परयोरिति। पूर्वेति। पूर्वनिमित्तस्य उदो दकारस्य यः सवर्णः स आदेशः स्यादित्यर्थः। पूर्वसवर्णश्चायमलोऽन्त्यपरिभाषया स्थास्तम्भोरन्तादेशो न भवतीत्याह--आदेः परस्येति। अनया परिभाषया स्थास्तम्भोराद्यवयवस्य सकारस्यैव भवतीत्यर्थः। उत्थानमिति। "ष्ठा गतिनिवृत्तौ"। भावे ल्युट्। उत्तम्भनमिति। "ष्टभि प्रतिष्टम्भे" भावे ल्युट्। "स्तम्भु रोधने" इति श्नुविधौ निर्दिष्टः सौत्रो वा धातुः। "स्थास्तम्भो"रिति पवर्गीयोपधनिर्देशस्य उभयसाधारणत्वात्। ननु उद्-स्थानमित्यत्र सकारस्य पूर्वसवर्णविधौ पूर्वनिमित्तं दकारः, तत्सवर्णश्च तथदधनाः पञ्चैव। दन्तस्थानसाम्यात्स्पृष्टप्रयत्नसाम्याच्च, न तु लृकारः सकारश्च, तयोः स्थानसाम्येऽपि विवृतप्रयत्नत्वात्। नापि लकारः, ईषत्स्पृष्टत्वात्। एतदतिरिक्ताश्च सर्वे वर्णा भिन्नस्थानकत्वान्न दकारसवर्णाः। ततश्च पूर्वनिमित्तभूतदकारसवर्णास्तथदधना#ः पञ्चापि सकारस्य प्राप्ताः, स्थानीभूतसकारेण दन्तस्थानत आन्तर्यस्य पञ्चस्वप्यविशिष्टत्वात्। आभ्यन्तरप्रयत्नत आन्तर्यस्य च पञ्चस्वप्यभावात्। स्थानीभूतसकारस्य विवृप्रयत्नत्वात्, एतेषां च पञ्चानां स्पृष्टप्रयत्नत्वात्। अतोऽत्र बाह्रप्रयत्नत एवान्तर्यमादाय पञ्चस्वन्यतमव्यवस्थामाह--अत्राऽघोषस्येति। "अघोषस्ये"त्यनेन ()आआसवतो विवरवतश्चेत्युक्तप्रायं, समनियतत्वात्। स्थानीभूतस्तावत्सकारोऽत्राघोष()आआसविवारमहाप्राणात्मकयत्नचतुष्टवान्। तस्य तथदधनेषु प्रथमतृतीयपञ्चमा न भवन्ति, तेषामल्पप्राणत्वात्। नापि चतुर्थो भवति, तस्य घोषनादसंवारयत्नकत्वात्। द्वितीयस्तु थकारोऽघोष()आआसविवारमहाप्राणात्मकयत्नचतुष्टयवान्। अतः स एव थकारः पूर्वनिमित्तभूतदकारसवर्णः सकारस्य भवतीत्यर्थः। एवं च उद्-स्थानमिति स्थिते दकारस्य "खरि चे"ति चर्त्वेन तकारे सकारस्य पूर्वसवर्णे थकारे उत्थ्थानमित्येकतकारं द्विथकारं च रूपं सिद्धम्। एवं उत्थतम्भनमित्यत्रापि योज्यम्। तत्र द्वितकारमेकथकारं चेति विशेषः। तस्येति। सकारादेशस्य थकारस्येत्यर्थः। एवं च प्रथमथकारस्य लोपपक्षे एकतकारमेकथकारं च रूपमिति भावः। ननु प्रथमथकारस्य ल#ओपाभावपक्षे एकतकारं द्विथकारं च रूपमित्यनुपपन्नम्। प्रथमथकारस्य खरि चेति चर्त्वे सति द्वितकारमेकथकारमित्यापत्तेरित्यत आह--लोपाभावेति। असिद्धत्वादिति। "खरि चे"ति सूत्रापेक्षया उदस्था इत्यस्य परत्वादिति भावः। उत्त्तम्भनमिति त्रितकारपाठस्तु प्रामादिकः। उक्तप्रक्रियाया उभयत्रापि साधारण्यात्। केचित्तु "न मुने" इत्यत्र नेति योगविभागमभ्युपगम्य पूर्वसवर्णस्य थकारस्य चर्त्वं प्रत्यसिद्धत्वाऽभावाच्चर्त्वे उत्त्तम्भनमिति त्रितकाररूपं कथञ्चित्साधयामासुः। तत्तु मूलकृतो न संमतं, मूले उभयसाधारण्येनैव प्रक्रियानिरूपणात्। वस्तुतस्तु "दीर्घादाचार्याणा"मित्युत्तरम्। अनुस्वारस्य ययि परसवर्णः, वा पदान्तस्य, तोर्लि, उदःस्थास्तम्भोः पूर्वस्य, झयो होऽन्यतरस्याम्, शश्छोऽटीति षट्()सूत्रीपाठोत्तरं "झलाञ्जश् झशि", अभ्यासे चर्च", "खरि च", "वाऽवसाने", "अणोऽप्रगृह्रास्यानुनासिकः", इति पञ्चसूत्रीपाठ इति "हलो यमा"मिति सूत्रस्थभाष्यसंमतः सूत्रकमः। एवं च "खरि चे"ति चर्त्वे कर्तव्ये उदः स्थास्तम्भोरिति पूर्वसवर्णस्य थकारस्य असिद्धत्वाऽभावाच्चर्त्वे उत्थ्तानमिति द्वितकारमेकथकारं च रूपम्, उत्तूतम्भनमिति तु त्रितकारमेव रूपमिति शब्देन्दुशेखरे प्रपञ्चितम्।

तत्त्व-बोधिनी
उदः स्थास्तम्भोः पूर्वस्य ९५, ८।४।६०

उदः स्था। "अनुस्वारस्य ययी"त्यत्र समस्तमपि सवर्णग्रहणमिह निष्कृष्य संबध्यते, एकदेशे स्वरितत्वप्रतिज्ञानादित्यमिप्रेत्याह--पूर्वसवर्णः स्यादिति॥