पूर्वम्: ७।२।११८
अनन्तरम्: ७।३।२
 
सूत्रम्
देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात्॥ ७।३।१
काशिका-वृत्तिः
देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसाम् आत् ७।३।१

देविका शिंशपा दित्यवाट् दीर्घसत्र श्रेयसित्येतषाम् अङ्गानाम् अचामादेः अचः स्थने वृद्धिप्रसङ्गे आकारो भवति ञिति, णिति, किति तद्धिते परतः। देविकायां भवमुदकं दाविकमुदकम्। देविकाकूले भवाः शालयः दाविकाकूलाः शालयः। पूर्वदेविका नाम प्राचां ग्रामः, तत्र भवः पूर्वदाविकः। प्राचां ग्रामनगराणाम् ७।३।१४ इति उत्तरपदवृद्धिः, सापि आकार एव भवति। शिंशपा शिंशपायाः विकारः चमसः शांशपः चमसः। पलाशादिरयम्, तेन पक्षे अण्, अनुदात्तादिलक्षणो वा अञ्। शिंशपास्थले भवाः शांशपास्थलाः देवाः। पूर्वशिंशपा नाम प्राचां ग्रामः, तत्र भवः पूर्वशांशपः। दित्यवाट् दित्यौहः इदम् दात्यौहम्। दीर्घसत्र दीर्घसत्रे भवम् दार्घसत्रम्। श्रेयस् श्रेयसि भवम् श्रायसम्। वहीनरस्येद्वचनं कर्तव्यम्। वृद्धिविषये ऽचामादेः अचः स्थाने वहीनरस्य इकारादेशो भवति। वहीनरस्य अपत्यम् वैहीनरिः। केचित् तु विहीनरस्य एव वैहीनरिम् इच्छन्ति।
न्यासः
देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात्?। , ७।३।१

"तद्धितेष्वचामादेः" ७।२।११७ इत्यान्तरतम्यादैकारे वृद्धौ प्राप्तायां देविकादीनामाकारो विधीयते। "अत्र पक्षत्रयं सम्भाव्यते--१। प्रकृतेनाङ्गेन देविकादयो विशिष्यन्ते--देविकादीनामङ्गानामिति; २। तैर्वाङ्गम्()--"देविकाद्यन्तस्याङ्गस्येति, अथ वा--३। तैराद्योऽच्()---देविकदीनां सम्बन्धिनामचां मध्ये य आदिरजिति। तत्र यद्याद्यः पक्ष आश्रीयेत, तदा देविकाकूले भवाः शालयो दाविकाकूलाः शालय इति न सिध्येत्(), न ह्रतर देविकाशब्दोऽङ्गम्(), किं तर्हि? देविकाकूलशब्दः। ननु चाङ्गस्येत्यवयवषष्ठी, तत्रैवं विशेषणविशेष्यभावः करिष्यते--अङ्गस्य ये देविकादयोऽवयवभूता इति, भवति चेहावयवोऽङ्गस्य देविकाशब्दः, ततोऽयमोदोष इति चेत्()? सत्यमेतत्? किन्त्वतिप्रसङ्गः स्यात्(), सुदेविकायां भवः सौदेविकः--इत्यत्रापि स्यात्()। अथ द्वितीयपक्ष आश्रीयेत, एवमपि दाविकाकूलाः शालय इति न सिध्येत्()। देविकादिभिः प्रकृतेऽङ्गे विशेष्यमाणे विशेषणे च तदन्तविधिरिति देविकाद्यन्तस्याङ्गस्येति भवितव्यम्(), न तदादेः। तस्मात्? तदादेरपि यथा स्थादिति यत्नान्तरमास्थेयमिति। तृतीये तु पक्ष आश्रीयमाणे, विनापि यत्नान्तरेण केवलस्य तदादेस्तदन्तस्य भवति। सर्वत्राचामादेरचो देविकादिसम्बन्धित्वात्()। अतस्तमेवाश्रित्याह--"देविकाशिंशपादित्यवाड्()दीर्घसत्त्रश्रेयस इत्येतेषाम्()" इत्यादि। एषां देविकादीनामचां मध्य आदिभूतो योऽज्? वृद्धेरैकारस्य प्रसङ्गे तस्याकारो विधीयते। "पूर्वशांशप" इति। पूर्ववदुत्तरपदस्य वृद्धिः। साप्याकार एव भवतीत्युत्तरपदाधिकारे देविकादीनामनुवृत्तेर्लभ्यते। "वहीनरस्येद्वचनं कत्र्तव्यम्()" इति। अकारस्य या वृद्धिः प्राप्नोति तद्वाधनार्थमेत्()। इकारे कृते या वृद्धिः प्राप्नोति सा तु भवत्येव। "केचित्तु" इत्यादि। कुणडवाडवादयः। विहीनो नरः कामक्रोधाभ्यामिति पृषोदरादित्वान्नलोपः, विहीनरस्यापत्यं वैहीनरिः--"अत इञ्()" ४।१।९५
बाल-मनोरमा
देवकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् १४१८, ७।३।१

देविका। आदिवृद्धि प्रकरणे इदं सूत्रम्। षामिति। देविका, शिंशपा, दित्यवाहू, दीर्घसत्र क्षेयस् इत्येषामित्यर्थः। वृद्धिप्राप्ताविति। आदिवृद्धिप्राप्तौ तदपवादत्वेन आदेरच आकारः स्यादित्यर्थः। दाविकमिति। देविका नाम नदी, तस्यां भवमित्यर्थः। दाविकाकूला इति। उत्तरपदवृद्धिभ्रमनिरासाय इदमुदाहरसणम्, अस्य सूत्रस्य तदधिकारबहिर्भूतत्वादिति भावः। शांशप इति। इकारस्य आकारः, अञिवृद्धिः, शिशपाशब्दस्य पलाशादौ पाठात् पाक्षिको।ञञ्। तदभावेऽणित्यर्थः। दात्यौहमिति। दित्यवाह्शब्दात् "तस्येद"मित्यणि "वाह ऊठ्" इति संप्रसारणं, पूर्वरूपम्। "एत्येधत्यूठसु" इति वृद्धिः। इकारस्य आदिवृद्ध्यपवाद आकारः। दीर्घसूत्रमिति। "तस्येद"मित्यण्, आदेरीकारस्य आकारः। श्रायसमिति। तत्र भव इत्यणि एकारस्य आकारः।