पूर्वम्: ७।३।९६
अनन्तरम्: ७।३।९८
 
सूत्रम्
बहुलं छन्दसि॥ ७।३।९७
काशिका-वृत्तिः
बहुलं छन्दसि ७।३।९७

अस्तिसिचोरपृक्तस्य सार्वधातुकस्य ईडगमो भवति बहुलं छन्दसि विषये। आप एव इदं सलिलं सर्वमाः। आसीदिति स्थाने आः क्रियापदम्। अहर्वाव तर्ह्यासीन्न रात्रिः। सिचः खल्वपि गोभिरक्षाः। प्रत्यञ्चमत्साः। अभैषीर्मा पुत्रक इति च भवति, छान्दसत्वात्। माङ्योगे ऽपि अडागमो भवति, अक्षः, अत्साः इति, सिच इडभावश्च।
न्यासः
बहुलं छन्दसि। , ७।३।९७

"सर्वमाः" इति। अस्तेर्लङ्(), पूर्ववदाट्, सियो हल्ङ्यादिलोपः ६।१।६६, सकारस्य रुत्वविसर्जनीयो। "गोभिरक्षाः प्रत्यञ्चमत्साः" इति। "क्षर सञ्()चलने" (धा।पा।८५१), "त्सर च्छद्मगतो" (धा।पा।५५४) इन्ङ्यादिना ६।१।६६ सिचो लोपः, "अतो ल्रान्तस्य" ७।२।२ इति वृद्धिः, पूर्ववद्धिसर्जनीयः। "अभैषीः" इति। "ञिभी भये" (धा।पा।१०८४), सिचि वृद्धिः। अथाभैषीर्मा पुत्रकेत्यत्र कथमडागमः, यावता "न माङ्योगे" ६।४।७४ इति प्रतिषिद्धोऽसौ, इह चाक्षाः, अत्सा इत्यत् सिच ईजागमः कस्मान्न भवति? इत्याह--"छाब्दसत्वात्()" इत्यादि। अक्षाः, अतसा इत्यत्र चेडागमाभाव इति च्छान्दसत्वादिति प्रकृतेन सम्बन्धः। "वा छन्दसि" इति वक्तव्ये बहुलग्रहमुत्तरार्थम्()। उत्तरार्थतां चास्योत्तरत्र प्रतिपादपिष्यामः॥