पूर्वम्: ७।४।४८
अनन्तरम्: ७।४।५०
 
सूत्रम्
सः स्यार्द्धधातुके॥ ७।४।४९
काशिका-वृत्तिः
सः स्यार्धधातुके ७।४।४९

सकारान्तस्य अङ्गस्य सकारादौ आर्धधातुके परतः तकारादेशो भवति। वत्स्यति। अवत्स्यत्। विवत्सति। जिघत्सति। सः इति किम्? वक्ष्यति। सि इति किम्? घासः। वासः। आर्धधातुके इति किम्? आस्से। वस्से।
लघु-सिद्धान्त-कौमुदी
सः स्यार्धधातुके ७१०, ७।४।४९

सस्य तः स्यात्सादावार्धधातुके। अत्तुमिच्छति जिघत्सति। एकाच इति नेट्॥
न्यासः
सः स्यार्धधातुके। , ७।४।४९

अत्रापि द्वितकारपक्षेऽनेकाल्त्वात्? सर्वादेशः प्राप्नोति, तस्मात्? "अचः" इति। पञ्()चम्यन्तमनुवत्र्तनीयमिति। अथ वा--"निर्दिश्यमानस्यादेशा भवन्ति" (व्या।प।१०६) इति सकारस्यैव भविष्यति। "वत्स्यति" इति। "वसनिवासे" (धा।पा।१९४२)। "जिघत्सति" इति। अदेः सन्(), "लुङ्सनोर्घस्लृ" २।४।३७ इति तस्य घस्लादेशः। "वक्ष्यति" इति। "वच परिभाषणे" (धा।पा।१८४२), "चोः कुः" ८।२।३० इति कुत्वम्()। "घासः, वासः" इति। भावे घञ्(), "घञपोश्च" २।४।३८ इत्यदेर्घस्लादेशः। "आस्से, वस्से" इति। "आस उपवेशने" (धा।पा।१०२१), "वस आच्छादने" (धा।पा।१०२३), अनुदात्तेत्त्वादात्मनेपदम्(), "चासः से" ३।४।८०, अदादित्वाच्छपो लुक्()। अथ "सः स्यतिङ्()" इति कस्मान्नोक्तम्()? नैवं शक्यम्(); इहापि न स्यात्()--व्यतिवत्सीष्ठा इति॥
बाल-मनोरमा
सः स्याद्र्धधातुके १८१, ७।४।४९

सः सि। "सः" इति छेदः। "स" इति षष्ठ()न्तम्। सीति सप्तम्यन्तमाद्र्धधातुकविशेषणं। तदादिविधिः। "अच उपसर्गात्तः" इत्यतस्त इत्यनुवर्तते। अकार उच्चारणार्थः। तदाह--सस्य तः स्यादिति। आदेशे अकारस्य उच्चारणार्थत्वत्तकारः स्यादित्यर्थः।

तत्त्व-बोधिनी
सः स्याद्र्धधातुके १५४, ७।४।४९

सः--सीति च्छेदः। सादौ किम्?। घस्मरः। आद्र्धधातुके इति किम्?। वस्से। आशिषीति। आशीर्लिङीत्यर्थः। एतच्च कर्तरि प्रोगमभिप्रेत्योक्तम्। कर्मणि तु यग्विषये प्रयोगो नेति बोध्यम्।