पूर्वम्: ७।४।५१
अनन्तरम्: ७।४।५३
 
सूत्रम्
ह एति॥ ७।४।५२
काशिका-वृत्तिः
ह एति ७।४।५२

तासस्त्योः सकारस्य हकारादशो भवति एति परतः। कर्ताहे। अस्तेः व्यतिहे।
न्यासः
ह एति। , ७।४।५२

"कत्र्ताहे" इति। कृञो लुट्(), आत्मनेपेदम्(), उत्तमपुरुषैकवचनम्(), इट्, टे#एत्त्वम्()। अत्र सकारस्यानेन हः। "व्यतिहे" इति। अस्तेः "कत्र्तरि कर्मव्यतिहारे" १।४।१४ इत्यात्मनेपदम्(), पूर्ववदकारलोपः। "एति" इति। तपरकरणं सप्तम्यामयादेशपरीहारार्थम्()। अयादेशे हि सति सन्देहः स्यात्()--कस्यायं निर्देश इति--किमयादेशस्य? अथैकारस्य()॥
बाल-मनोरमा
ह एति ९६, ७।४।५२

अथ लुट इडादेशे एत्वे तासि इटि एधितास्, ए इति स्थिते--ह एति। "ह" इति प्रथमान्तम्। अकार उच्चारणार्थः। सः स्यार्धधातुक इत्यतः स इति, तासस्त्योर्लोप #इत्यतस्तासस्त्योरिति चानुवर्तते। तदाह--तासस्त्योरिति। तासः सस्य हकारे "एधिताहे" इति रूपम्। एधितास्वहे इति। लुटो वहिभावः। टेरेत्वं। तास्। इट्। एवम्-- एधितास्महे इति। तत्र महिभावो विशेषः। इति लुट्प्रक्रिया। एधिष्यत इति। लृटस्तादेशे टेरेत्वम्। "स्यतासी"इति शबपवादः स्यः।इट्। प्रत्ययावयवत्वात्षत्वम्। एधिष्येते इति। आताम्। टेरेत्वं। स्यः। इट्। "आतो ङित" इत्याकारस्य इय्। लोपो व्योरिति यलोपः। आद्गुणः। षत्वम्। एधिष्यन्त इति। झस्य टेरेत्वं। झकारस्य अन्तादेशः। स्यः।इट्। पररूपं। षत्वम्। थासादावपि लटीव सुयोजमिति मत्वा रूपाणि न प्रदर्शितानि। तत्र थासः से।स्यः। इट्। षत्वम्। एधिष्यसे इति रूपम्। एधिष्येते इतिवदाथामि एधिष्येथे इति रूपम्। ध्वम एत्वे स्यः। इट्। षत्वम्। एधिष्यद्वे इति रूपम्। इट एत्वे स्यः। इडागमः। षत्वम्। अतोगुण इति पररूपम्। एधिष्ये इति रूपम्। वहिमह्रोष्टेरेत्वम्। स्यः। इट्। अतो दीर्घः। एधिष्यावहे एधिष्यामहे इति रूपे। इति लृट्प्रक्रिया।