पूर्वम्: ८।३।६
अनन्तरम्: ८।३।८
 
सूत्रम्
नश्छव्यप्रशान्॥ ८।३।७
काशिका-वृत्तिः
नश्छव्यप्रशान् ८।३।७

भवांश्चरति। केचित् तु परशब्दम् एव अन्यार्थं वर्णयन्ति। अनुनासिकात् परः अनुनासिकातन्यः अनुस्वारो भवति। यस्मिन् पक्षे ऽनुनासिको न अस्ति तत्र अनुस्वारागमो भवति। स तु कस्य आगमो भवति? रोः पूर्वस्य एव इति वर्तते, व्याख्यानादादेशो न भवति। समः सुटि ८।३।५। रुः वर्तते। समः इत्येतस्य रुः भवति सुटि परतः संहितायां विषये। सम्̐स्कर्ता। सम्̐स्कर्तुम्। सम्̐स्कर्तव्यम्। संस्स्कर्ता। संस्स्कर्तुम्। संस्स्कर्तव्यम्। अत्र रोर्विसर्जनीये कृते वा शरि ८।३।६६ इति पक्षे विसर्जनीय एव प्राप्नोति। व्यवस्थितविभाषा द्रष्टव्या। तेन अत्र नित्यं सकार एव भवति। अस्मिन्नेव सूत्रे सकारादेशो वा निर्दिश्यते, समः सुटि इति द्विसकारको निर्देशः। समः इति किम्? उपस्कर्ता। सुटि इति किम्? संकृतिः। कश्चिदाह संपुंकानां सो वक्तव्यः। रुविधौ ह्यनिष्टप्रसङ्गः, संस्स्कर्ता, पुंस्स्कामा, कांस्स्कानिति। पुमः खय्यम्परे ८।३।६। पुम् इत्येतस्य रुः भवति अम्परे खयि परतः। पुम्̐स्कामा, पुंस्कामा। पुम्̐स्पुत्रः, पुंस्पुत्रः। पुम्̐स्फलम् पुंस्फलम्। पुम्̐श्चली, पुंश्चली। पुंस्कामा इत्यत्र विसर्जनीयस्य कुप्वोः ẖकḫपौ च ८।३।३७ इति प्राप्नोति। तस्मादत्र सकार एबादेशो वक्तव्यः। द्विसकारकनिर्देशपक्षे तु पूर्वस्मादेव सूत्रात् सः इत्यनुवर्तते। रुत्वम् तु अनुवर्तमानम् अपि नात्राभिसम्बध्यते, सम्बन्धानुवृत्तिस्तस्य इति। खयि इति किम्? पुंदासः। पुंगवः। अम्परे इति किम्? पुंक्षीरम्। पुंक्षुरम्। परग्रहणं किम्? पुमाख्याः। पुमाचारः। नश् छव्यप्रशान् ८।३।७। अम्परे इति वर्तते। नकारान्तस्य पदस्य प्रशान्वर्जितस्य रुः भवति अम्परे छवि परतः। भवाम्̐श्छादयति, भवांश्छादयति। भवांश्चिनोति, भवांश्चिनोति। भवांष्टीकते, भवांष्टीकते। भवाम्̐स्तरति, भवांस्तरति। छवि इति किम्? भवान् करोति। अप्रशानिति किम्? प्रशान् छाव्यति। प्रशान् चिनोति। अम्परे इत्येव, भवान्त्सरुकः।
लघु-सिद्धान्त-कौमुदी
नश्छव्यप्रशान् ९५, ८।३।७

अम्परे छवि नान्तस्य पदस्यरुः; न तु प्रशान्शब्दस्य॥
न्यासः
नश्छव्यप्रशान्?। , ८।३।७

"स" इति। निवृत्तम्(), रुरेवानुवत्र्तते; सोऽपि मतुवसुभ्यामसम्बद्ध एव; तयोरपि निवृत्तत्वात्()। "न" इति वर्णग्रहणम्(), तच्च प्रकृतस्य पदस्य विशेषणम्(), विशेषणेन च तदन्तविधिर्भवतीत्याह---"नकारान्तस्य पदस्य" इत्यादि। "भवांश्छादयति" इति। "झद अपवारणे" (धा।पा।१८३३), चुरादिणिच्()। "भवांष्टीकते" इति। "टिकृ टीकृ रधि लघि गत्यर्थाः" (धा।पा।१०३,१०४,१०७,१०८)। अनुदात्तत्त्वादात्मनेपदम्()। "प्रशान्()" इति। प्रपूर्वाच्छमेः क्विप्? "अनुनासिकस्य विवझलोः क्ङिति" ६।४।१५ इति दीर्घः, "मो नो धातोः" ८।२।६४ इति मकारस्य नकारः, तस्यासिद्धत्वान्नलोपाभावः। "भवान्? त्सरुकः" इति। त्सरौ कुशलः, "आकर्षादिभ्यः कन्()" ५।२।६३ इति कन्प्रत्ययः॥
बाल-मनोरमा
नश्छव्यप्रशान् १३९, ८।३।७

नश्छव्यप्रशान्। "न" इति षष्ठ()न्तं पदस्येत्यधिकृतस्य विशेषणम्। तदन्तविधिः। "अम्परे" इत्यनुवर्तते, "रु" इति च। तदाह-अम्पर इत्यादिना। "अप्रशा"निति षष्ठ()र्थे प्रथमा। तदाह-न त्विति। विसर्ग इति। "शा()ङ्ग-छिन्धि" "चक्रिन्-त्रायस्वे"ति स्थिते नकारस्यानेन रुत्वम्। अनुनासिकानुस्वारविकल्पः। ततो विसर्गः, सत्वं, सस्य श्चुत्वेन शकार इत्यर्थः। शार्ङिंश्छिन्धीति। अनुनासिकपक्षे रूपम्। शार्ङिंश्चिन्धीति। अनुस्वारपक्षे रूपम्। "चक्रिंस्त्रायस्वे"त्यनुनासिकपक्षे। अनुस्वारपक्षे तु "चकिं()रस्त्रायस्वे"ति। त्रैङ् पालने। ङित्त्वादात्मनेपदी। "त्राही"ति प्राचीनग्रन्थस्तु प्रामादिकः। त्रायत इति त्राः, त्रा इवाचरती त्रातीत्याचारक्विबन्ताल्लोट् परस्मैपदमिति वा कथञ्चत्समाधेयम्। प्रशानिति। प्रपूर्वाच्छाभ्यतेः क्विप्। "अनुनासिकस्य क्वी"ति दीर्घः। "मो नो धातो"रिति मस्य नः। तस्यासिद्धत्वान्नलोपो न।

तत्त्व-बोधिनी
नश्छव्यप्रशान् ११३, ८।३।७

प्रशानिति। प्रपूर्वाच्छाम्यतेः क्विप्। "अनुनासिकस्ये"ति दीर्घः। "मो नो धातो"रिति नः। तस्याऽसिद्धत्वान्नलोपो न।