पूर्वम्: ८।४।४६
अनन्तरम्: ८।४।४८
 
सूत्रम्
नादिन्याक्रोशे पुत्रस्य॥ ८।४।४७
काशिका-वृत्तिः
न आदिन्याक्रोशे पुत्रस्य ८।४।४८

आदिनि परतः आक्रोशे गम्यमाने पुत्रशब्दस्य न द्व भवतः। अनचि च ८।४।४६ इति प्राप्तिः प्रतिषिध्यते। पुत्रादिनीत्वम् असि पापे। आक्रोशे इति किम्? तत्त्वकथने द्विर्वचनं भवत्येव, पुअत्रानत्ति इति पुत्त्रादिनी। शिशुमारी व्याघ्री। तत्परे चेति वक्तव्यम्। पुत्रपुत्रादिनी त्वमसि पापे। वा हतजग्धपर इति वक्तव्यम्। पुत्त्रहती, पुत्रहति। पुत्त्रजग्धी, पुत्रजग्धी। चयो द्वितीयाः शरि पौष्करसादेः। चयो द्वितीया भवन्ति शरि परतः पौष्करसादेराचार्यस्य मतेन। तकारस्य थकारः वथ्सः। ककारस्य खकारः ख्षीरम्। पकारस्य फकारः अफ्सराः।
न्यासः
नादिन्याक्रोशे पुत्त्रस्य। , ८।४।४७

आदिनीति [मुद्रित काशिकायां तथा पदमञ्जर्यां च "आदिनी" शब्दो ङीबन्तो गृहीतः] परसप्तमीयम्()। अत आह--"आदिनि परतः" इति। "पुत्रादिनी" इति। पुत्रावत्तुं शीलमस्या इति ताच्छीस्ये णिनिः। "पुत्त्रादिनी, सिशुमारी" इति। तत्त्वख्यानमेतत्(), नाक्रोशः। "तत्परे चेति यक्तव्यम्()" (इति)। स आदिनिशब्दः परो यस्मात्? पुत्रशब्दात्? तत्र द्विर्वचनं न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--नेति योग विभागः क्रियते, तेन तत्परे न भविषयतीति। "वा हत" इत्यादि। हतजग्धशब्दयोः परतः पुत्त्रस्य या द्विर्वचनं न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु वागद्रहणमनुवर्त्त्यं, नेति योगविभागकरणमाश्रित्य वा कत्र्तव्यम्()। न चैवं पुत्त्रादिनीत्यत्रापि विकल्पः प्रसक्तः। व्यवस्थितविभाषाविज्ञानात्()। हतञ्च जग्धञ्च तत्? हतजग्धम्(), हतजग्धञ्च तत्? परञ्चेति हतजग्धपरम्(), तस्मिन्? हतजग्धपरे। "पुत्रहती, पुत्रजग्धी" इति। पुत्रो हतः, पुत्रो जग्धोऽनयेत बहुव्रीहिः, "अस्वाङ्गपूर्वपदात्()" ४।१।५३ इत्यादिना ङीष्()। "चयो द्वितीयाः" इत्यादि। चय इति स्थानषष्ठी, खछठचफा इति द्वितीया इत्यस्यार्थः। द्वितीयत्वमेषां वर्णानां प्रथमवर्णापेक्षया भवति। "वप्सः" इति। तकारस्य चयः सकारे शरि परतो द्वितीयस्थकारः। "ख्षीरम्()" इति। ककारस्य चयः वकारे शरि परतो द्वितौयः सकारः। "अफ्सराः" इति। पकारस्य चयः सकारे शरि परतो द्वितीयः फकारः॥
बाल-मनोरमा
नादिन्याक्रोशे पुत्रस्य ५७, ८।४।४७

नादिन्याक्रोशे। "द्वे" इत्यनुवर्तते। "यर" इति च। आक्रोशो निन्दा। आदिनीति ङ्यन्तं लुप्तसप्तमीकम्। आदिनीशब्दे परे पुत्रशब्दस्यावयवो यो यर् तकारस्तस्य न द्वित्वम्, आक्रोशे गम्ये इत्यर्थः। तदाह-पूत्रशब्दस्येत्यादिना। पुत्रशब्दस्यावयवस्येत्यर्थः। पुत्रादिनी त्वमसि पाषे इति। पुत्रानत्तुं शीलमस्याः पुत्रादिनी। "सुप्यजातौ" इति णिनिः। "ऋन्नेभ्य" इति ङीष्। हे पापे। त्वं पुत्रादिनीत्यन्वयः। पुत्रघातिनीत्यर्थः। ईदृशाक्रोशस्य प्रायेण स्त्रीष्वेव सम्भवात् सूत्रे आदिनीति ङ्यन्तमेव विवक्षितमिति हरदत्तः। माधवोऽप्येवम्। अत्र उकारात्परस्य तकारस्याऽनचि चेति प्राप्तं द्वित्वं निषिध्यते। रेफस्य तु न क्वापि द्वित्वप्रसक्तिरित्यनुपदमेव वक्ष्यते। आक्रोशे किमिति। आक्रोशे इत्यस्य किं प्रयोजनमित्यर्थः। "किं पृच्छायां जुगुप्सने" इत्यव्ययवर्गेऽमरः। एवमुत्तरत्राप्येवञ्जातीयकेषु द्रष्टव्यम्। तत्त्वकथन इति। यस्याः पुत्राः स्वयमेव म्रियन्ते तां प्रति पुत्रादिनीति वस्तुस्थितिकथने तु न द्वित्वनिषेधः, तत्र निन्दाया अप्रतीतेरित्यर्थः। तत्परे च। वार्तिकमेतत्। स आदिनीशब्दः परो यस्मात्स तत्परः। आदिनीशब्दपरके पुत्रशब्दे च परे पुत्रशब्दावयवस्य यरो न द्वित्वमित्यर्थः। पुत्रपुत्रादिनी त्वमिति। पुत्रस्य पुत्रानत्तीति विग्रहः। अत्र पूर्वस्य पुत्रशब्दस्य आदिनीशब्दः परो न भवति, द्वितीयपुत्रशब्देन व्यवधानात्। अतः पूर्वसूत्रेणाऽप्राप्ते द्वित्वनिषेधे इदमारब्धम्। वा हतजग्धयोः। हतशब्दे जग्धशब्दे च परे पुत्रशब्दावयवस्य यरो द्वित्वं वा स्यादित्यर्थः। पुत्रहतीति। तकारद्वित्वे रूपम्। पुत्रो हतो ययेति विग्रहः। "अस्वाङ्गपूर्वपदा"दिति ङीषिति केचित्। वस्तुतस्तु जातिपूर्वादित्यस्य तत्रानुवृत्तेर्गौरादित्वान्ङीषिति युक्तम्। पुत्रघातसाहसस्य स्त्रीष्वेव सम्भवात्स्त्रीलिङ्गमेवोदाह्मतम्। पुत्रहतीति। द्वित्वाऽभावे रूपम्। एवं पुत्रजग्धी पुत्रजग्धीति। अनचि चेति द्वित्वविकल्पे सिद्धे पुत्रशब्दस्य क्तान्ते चेद्धतजग्धयोरेव आक्रोश एवेति नियमार्थमिदं वार्तिकमित्याहुः।

तत्त्व-बोधिनी
नादिन्याक्रोशे पुत्रस्य ४९, ८।४।४७

नादिन्या। स्त्रीष्वाक्रोशः प्रायेण प्रवर्तत इति स्त्रीलिङ्गमुदाहरति-पुत्रादिनीति। इह "सुप्यजातौ-" इति णिनिः।

तत्परे चेति। आदिनि यः पुत्रशब्दस्तस्मिन् परेऽपि पुत्रशब्दस्य न द्वे स्त इत्यर्थः।

वा हतेति। द्वित्वस्य वैकल्पिकत्वे वार्तिकमिदं नारम्भणीयमित्येक। अन्ये तु-हतजग्धयोः परतः पुत्रशब्दस्यैव "अनचि चे"ति द्वित्वं नान्येषामित्यादिनियमसंभवात्तदर्थमारम्भणीयमेवेदमित्याहुः। पुत्रहतीति। पुत्रो हतो यया सा। "अस्वाङ्गपूर्वपदाद्वे"ति ङीष्। एवं पुत्रो जग्धो यया सा पुत्रजग्धी।