आचार्यपञ्चायतनस्तवनम्
श्रीसर्वेश्वरो जयति ।
॥ श्रीभगवन्निम्बार्काचार्याय नमः ॥
सर्वेश्वरं हृदा वन्दे श्रीराधामाधवं प्रभुम् ।
वृन्दावननिकुञ्जस्थं यमुनातटशोभितम् ॥ १॥
हंसस्वरूपसर्वेशं जगत्कारणकारणम् ।
सनकादिस्वकाचार्यं वन्दे देवर्षिनारदम् ॥ २॥
पश्माचार्यनिम्बार्क श्रीसुदर्शनरूपिणम् ।
सर्वेश्वराऽर्चने हृद्यं श्रीमज्जगद्गुरुं भजे ॥ ३॥
शरणं बालकृष्णञ्च देवाचार्यं दयानिधिम् ।
मामकीनं गुरुं वन्दे कृपावत्सलमद्भुतम् ॥ ४॥
आचार्यपञ्चस्तवनं वरेण्यं सदाऽवधेयं निजहृत्प्रदेशे ।
युष्मत्प्रसादाद्रचयामि भक्त्या सर्वार्थदं सर्वसुखैककोषम् ॥
इति अनन्त श्रीविभूषित जगद्गुरु श्रीनिम्बार्काचार्यपीठाधीश्वर
श्रीराधासर्वेश्वरशरणदेवाचार्य श्री श्रीजी महाराजविरचितम्
आचार्यपञ्चायतनस्तवनं सम्पूर्णम् ।
Proofread by Mohan Chettoor