आदिशेषाष्टकम्
नित्यशय्या श्रीपतेर्यः आदिरोष इति श्रुतः
फणासहस्रमूर्धां च शङ्खचक्रगदाऽसिधृत् ।
हस्तेश्चतुर्भिः श्रीकान्तनित्यकैङ्कर्यदीक्षितः
भातु मे हदये नित्यं नागराजो महाद्युतिः ॥
जगज्नन्मस्थितिलयान् कुर्वन् श्रीरमया सह ।
यस्मिन् शेते मोदमानस्तस्मै शेषाय ॐ नमः ॥ १॥
प्राणान् सप्तगतीन्यस्तु सप्तप्राकारमातनोत् ।
श्रीशमण्टपनिर्माणे तस्यै शेषाय ॐ नमः ॥ २॥
स्वस्वामिसेवाकरणे अपवर्णनिवारकम् ।
ततान यो महाभाष्यं तस्मै शेषाय ॐ नमः ॥ ३॥
स्वफणामण्डलं यो वै भूषाच्छत्रं चकारह ।
स्वामिने स्वस्य मधुरं तस्मै शेषाय ॐ नमः ॥ ४॥
आदिः किङ्करकूटानां पराराधनरूपिणाम् ।
आदिशेष इति ख्यातस्तस्मै शेषाय ॐ नमः ॥ ५॥
श्रीशसेवाभिवृद्ध्यर्थं गात्रचित्तविशोधकम् ।
अष्टाङ्गयोगं तेनेयस्तस्मै शेषाय ॐ नमः ॥ ६॥
स्वतो भास्वत्स्वरूपस्य शेष कैङ्कर्यरूपकम् ।
चक्रे फणामणिज्योति तस्मै शेषाय ॐ नमः ॥ ७॥
मृदुल धवलं चाल्पशीतलं विस्तृतं तथा ।
आसनं पुच्छविन्यासात् तस्मै शेषाय ॐ नमः ॥ ८॥
आदिशेषाष्टकमिदं कृष्णयोगिकृतं मुदे ।
शायिनो आदिशेषे हि भवत्विति कृताञ्जलिः ॥
श्री आदिशेषशायिने रङ्गनाथाय नमो नमः ।
इति आदिशेषाष्टकं सम्पूर्णम् ।
Encoded and proofread by Ruma Dewan