प्रपञ्चसारतः सङ्कलिता ईश्वरध्यानमञ्जरी

प्रपञ्चसारतः सङ्कलिता ईश्वरध्यानमञ्जरी

॥ श्रीः ॥ श्री गुरुभ्यो नमः । जगद्गुरु श्रीशङ्करभगवत्पादविरचितप्रपञ्चसारतः सङ्कलिता श्री गणपतये नमः । गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ श्रुतिस्मृतिपुराणानामालयं करुणालयम् । नमामि भगवत्पादशङ्करं लोकशङ्करम् ॥ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥

१. श्री शारदा

अकचटतपयाद्यैः सप्तभिर्वर्णवर्गैः विरचितमुखबाहापाद हृत्कुक्षिमध्या । सकलजगदधीशा शाश्वता विश्वयोनिः वितरतु परिशुद्धिं चेतसः शारदा वः ॥ १.१॥

२. मातृका सरस्वती

पञ्चाशद्वर्णभेदैः विहितवदनदोः पादयुक् कुक्षिवक्षो- देशां भास्वत्कपर्दाकलितशशिकलामिन्दुकुन्दावदाताम् । अक्षस्रक्कुम्भचिन्तालिखितवरकरां त्रीक्षणां पद्मसंस्थां अच्छाकल्पामतुच्छस्तनजघनभरां भारतीं तां नमामि ॥

३. त्रिपुरा

आताम्रार्कायुताभां कलितशशिकलारञ्जितप्तां त्रिणेत्रां देवीं पूर्णेन्दुवक्त्रां विधृतजपपटीपुस्तकाभीत्यभीष्टाम् । पीनोत्तुङ्गस्तनार्तां वलिलसितवलग्नामसृक्पङ्कराजन्- मुण्डस्रङ्मण्डिताङ्गीमरुणतरदुकूलानुलेपां नमामि ॥

४. वागीश्वरी

अमलकमलसंस्था लेखिनीपुस्तकोद्यत्- करयुगलसरोजा कुन्दमन्दारगौरा । धृतशशधरखण्डोल्लासिकोटीरचूडा भवतु भवभयानां भङ्गिनी भारती वः ॥

५. सरस्वती

हंसारूढा भसितहर हारेन्दुकुन्दावदाता वाणी मन्दस्मितयुतमुखी मौलिबद्धेन्दुलेखा । विद्या वीणामृतमयघटाक्षस्रगादीप्तहस्ता शुभ्राब्जस्था भवदभिमतप्राप्तये भारती स्यात् ॥

६. भुवनेश्वरी

उद्यद्भास्वत्समाभां विजितनवजपामिन्दुखण्डावनद्ध- द्योतन्मौलिं त्रिणेत्रां विविधमणिलसत्कुण्डलां पद्मगां च । हारग्रैवेयकाञ्चीगुणमणिवलयाद्यैर्विचित्राम्बराढ्यां अम्बां पाशाङ्कुशेष्टाभयकरकमलामम्बिकां तां नमामि ॥ भास्वद्रत्नौघमौलिस्फुरदमृतरुचो रञ्जयच्चारु रेखां सम्यक्सन्तप्तकार्तस्वरकमलजपाभासुराभिः प्रभाभिः । विश्वाकाशावकाशं ज्वलयदशिशिरं धर्तृ पाशाङ्कुशेष्टा- भीतीनां भङ्गितुङ्गस्तनमवतु जगन्मातुरार्कं वपुर्वः ॥

७. लक्ष्मीः

भूयाद्भूयो द्विपद्माभयवरदकरा तप्तकार्तस्वराभा शुभ्राभ्राभेभयुग्मद्वयधृतकरकुम्भाद्भिरासिच्यमाना । रत्नौघाबद्धमौलिर्विमलतरदुकूलार्तवालेपनाढ्या पद्माक्षी पद्मनाभोरसि कृतवसतिः पद्मगा श्रीः श्रिये वः ॥ पद्मस्था पद्मनेत्रा कमलयुगवराभीतियुग्दोःसरोजा देहोत्थाभिः प्रभाभिस्त्रिभुवनमखिलं भासुरा भासयन्ती । मुक्ताहाराभिरामोन्नतकुचकलशा रत्नमञ्जीरकाञ्ची- ग्रैवेयोर्म्यङ्गदाढ्या धृतमणिमकुटा श्रेयसे श्रीर्भवेद्वः ॥ हस्तोद्यद्वसुपात्रपङ्कजयुगादर्शा स्फुरन्नूपुर- ग्रैवेयाङ्गदहारकङ्कणमहामौलिज्वलत्कुण्डला । पद्मस्था परिचारिकापरिवृता शुक्लाङ्गरागांशुका देवी दिव्यगणानता भवदघप्रध्वंसिनी स्याद्रमा ॥ अरुणकमलसंस्था तद्रजःपुञ्जवर्णा करकमलधृतेष्टाभीति युग्माम्बुजा च । मणिमकुटविचित्रालङ्कृतकल्पजातैः भवतु भुवनमाता सन्ततं श्रीः श्रिये वः ॥

८. त्रिपुटादेवी

आबद्धरत्नमकुटां मणिकुण्डलोद्यत्- केयूरकोर्मिरशनाह्वयनूपुराढ्याम् । ध्याये धृताब्जयुगपाशकशाङ्कुशेक्षु- चापां सपुष्पविशिखां नवहेमवर्णाम् ॥

९. भूदेवी

मुख्याम्भोजे निविष्टारुणचरणतला श्यामलाङ्गी मनोज्ञा चञ्चच्छाल्यग्रचुम्बच्छुकलसितकरा प्राप्तनीलोत्पला च । रत्नाकल्पाभिरामा मणिमयमकुटा चित्रवस्त्रा प्रसन्ना दिश्याद्विश्वम्भरा नः सततमभिमतं वल्लभा कैटभारेः ॥

१०. त्वरिता

श्यामतनुमरुणपङ्कजचरणतलां वृषलनागमञ्जीराम् । स्वर्णांशुकपरिधानां वैश्याहिद्वन्द्वमेखलाकलिताम् ॥ तनुमध्यलतां पृथुलस्तनयुगलां करविराजदभयवराम् । शिखिपिञ्छनालवलयां गुञ्जाफलगुणितभूषणारुणिताम् ॥ नृपफणिकेयूरां तां गलविलसद्विविधमणियुताभरणाम् । द्विजनागविहितकुण्डलमण्डितगण्डद्वयी मुकुरशोभाम् ॥ शोणतराधरपल्लवविद्रुममणिभासुरां प्रसन्नां च । पूर्णशशिबिम्बवदनामरुणायतलोचनत्रयीनलिनाम् । कुञ्चितकुन्तलविलसन्मकुटाघटिताहि वैरिपिञ्छयुताम् ॥ कैरातीं वनकुसुमोज्ज्वलां मयूरातपत्रकेतनिकाम् । सुरुचिरसिंहासनगां विभ्रमसमुदायमन्दिरां तरुणीम् ॥ (ध्याये)

११. वज्रप्रस्तारिणी

इन्दुकलाकलितोज्ज्वलमौलिः मारमदाकुलिता युगनेत्रा । शोणितसिन्धुतरङ्गितपोत- द्योतितभानुदलाम्बुजसंस्था ॥ दोर्धृतदाडिमसायकपाशा साङ्कुशचापकपालसमेता । शोणदुकूलविलेपनमाल्या शोणतरा भवतोऽवतु देवी ॥

१२. नित्यक्लिन्ना

रक्ता रक्तांशुककुसुमविलेपादिका सेन्दुमौलिः स्विद्यद्वक्त्रा मदविवशसमाघूर्णितत्रीक्षणा च । दोस्सत्पाशाङ्कुशयुतकपालाभया पद्मसंस्था देवी पायादमितफलदा नित्यशः पार्वती वः ॥

१३. दुर्गा

शङ्खारिचापशरभिन्नकरां त्रिणेत्रां तिग्मेतरांशुकलया विलसत्किरीटाम् । सिंहस्थितां ससुरसिद्धनुतां च दुर्गां दूर्वानिभां दुरितगर्वहरां नमामि ॥ हेमप्रख्यामिन्दुखण्डात्तमौलिं शङ्खारिष्टाभीति हस्तां त्रिणेत्राम् । हेमाब्जस्थां पीतवस्त्रां प्रसन्नां देवीं दुर्गां दिव्यरूपां नमामि ॥ अरिशङ्ख कृपाणखेटबाणान् सधनुःशूलकतर्जनीर्दधाना । भवतां महिषोत्तमाङ्गसंस्था नवदूर्वासदृशी श्रियेऽस्तु दुर्गा ॥

१४. शूलिनीदुर्गा

बिभ्राणा शूलबाणास्यरिसदरगदाचापपाशान् कराब्जैः मेघश्यामा किरीटोल्लिखितजलधरा भीषणा भूषणाढ्या । सिंहस्कन्धाधिरूढा चतसृभिरसिखेटान्विताभिः परीता कन्याभिर्भिन्नदैत्या भवतु भवभयध्वंसिनी शूलिनी वः ॥

१५. जातवेदो दुर्गा

भास्वद्विद्युत्करालाकुलहरिगलसंस्थारिशङ्खासिखेटे- ष्वस्त्रासाख्यत्रिशूलानरिगणभयदां तर्जनीं चादधाना । चर्मास्युद्घूर्णदोर्भिः प्रहरणनिपुणाभिर्वृता कन्यकाभिः दद्यात्कार्शानवीष्टान् त्रिणयनलसिता कापि कात्यायनी वः । करकमलविराजच्चक्रशङ्खासिशूला परिलसितकिरीटा पातितानेकविद्या । त्रिणयन लसिताङ्गी तिग्मरश्मिप्रकाशा- पवनसखनिभाङ्गी पातु कात्यायनी वः ॥

१६. अजपामूर्तिः

अरुणकनकवर्णं पद्मसंस्थं च गौरी- हरनियमितचिह्नं सौम्यतानूनपातम् । भवतु भवदभीष्टप्राप्तये पाशटङ्का- भयवरदविचित्रं रूपमर्धाम्बिकेशम् ॥

१७. अग्निः

अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् । सुवर्णवर्णममलं समिद्धं विश्वतोमुखम् ॥ त्रिणयनमरुणप्ताबद्धमौलिं सुशुक्लां- शुकमरुणमनेकाकल्पमम्भोजसंस्थम् । अभिमतवरशक्तिस्वस्तिकाभीति हस्तं नमत कनकमालालङ्कृतांसं कृशानुम् ॥ शक्ति स्वस्तिक पाशान् साङ्कुशवरदाभयान् दधत् त्रिमुखः । मकुटादिविविधभूषोऽवताच्चिरं पावकः प्रसन्नो नः ॥ हैमाश्वत्थसुरद्रुमोदरभुवो निर्यान्तमश्वाकृतिं वर्षन्तं धनधान्यरत्ननिचयान् रन्ध्रैः स्वकैः सन्ततम् । ज्वालापल्लवित स्वरोमविवरं भक्तार्तिसंभेदनं वन्दे धर्मसुखार्थमोक्षफलदं दिव्याकृतिं पावकम् ॥

१८. सूर्यः

अरुणसरोरुहसंस्थः त्रिदृगरुणोऽरुणसरोजयुगलधरः । कलिताभयवरदो द्युतिबिम्बोऽमितभूषणस्त्विनोऽवतु नः ॥ अरुणोऽरुणपङ्कजे निषण्णः कमलेऽभीतिवरौ करैर्दधानः । स्वरुचाहितमण्डलत्रिणेत्रो रविराकल्पशताकुलोऽवताद्वः ॥

१९. चन्द्रः

अमलकमलसंस्थः सुप्रसन्नाननेन्दुः वरदकुमुदहस्तश्चारुहारादिभूषः । स्फटिकरजतवर्णो वाञ्छितप्राप्तये वो भवतु भवदभीष्टोद्योतिताङ्कः शशाङ्कः ॥

२०. महागणपतिः

मन्दाराद्यैः कल्पकवृक्षविशेषैर्विशिष्टतरफलदैः । शिशिरतरचतुराशेऽन्तर्बालातपचन्द्रिकाकुले च तले ॥ ऐक्षवजलनिधिलहरीकणजालकवाहिना च गन्धवहेन । संसेविते च सुरतरु सुमनःश्रितमधुपपक्षचलनपरेण ॥ रत्नमये मणिवज्रप्रवालफलपुष्पपल्लवस्य सतः । महतोऽधस्तादृतुभिः युगपत् संसेवितस्य कल्पतरोः ॥ सिंहमुखपादपीठगलिपिमयपद्मे त्रिषट्कोणोल्लसिते । आसीनस्त्वेकरदो बृहदुदरो दशभुजोऽरुणतनुश्च गजवदनः ॥ बीजापूरगदेक्षुकार्मुकरुजाचक्रब्जपाशोत्पल- व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः । ध्येयो वल्लभया सपद्मकरया श्लिष्टो ज्वलद्भूषया विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नो विशिष्टार्थदः ॥ करपुष्करधृतकलशस्रुतमणिमुक्ताप्रवालवर्षेण । अविरतधारां विकिरन् परितः साधकसमग्रसम्पत्त्यै । मदजललोलुपमधुकरमालां निजकर्णतालताडनया । निर्वासयन्मुहुर्मुहुः अमरैरसुरैश्च सेवितो युगपत् ॥ रक्तो रक्ताङ्ग रागांशुककुसुमयुतस्तुन्दिलश्चन्द्रमौलिः नेत्रैर्युक्तस्त्रिभिर्वामनकरचरणो बीजपूरात्तनासः । हस्ताग्राक्लृप्तपाशाङ्कुशरदवरदो नागवक्त्रोऽहिभूषो देवः पद्मासनो नो भवतु नतसुरो भूतये विघ्नराजः ॥

२१. क्षिप्रप्रसादनगणपतिः

धृतपाशाङ्कुशकल्पकलतिकास्वरदश्च बीजपूरयुतः । शशिशकलकलितमौलिः त्रिलोचनोऽरुणश्च गजवदनः ॥ भासुरभूषणदीप्तो बृहदुदरः पद्मविष्टरो ललितः । ध्येयोऽनायतदोःपदसरसिरुहः सम्पदे सदा मनुजैः ॥

२२. कामदेवः

अरुणमरुणवासोमाल्यदामाङ्गरागं स्वकरकलितपाशं साङ्कुशास्त्रेषुचापम् । मणिमयमकुटाद्यैर्दीप्तमाकल्पजातैः अरुणनलिनसंस्थं चिन्तयेदङ्गयोनिम् ॥

२३. श्रीकृष्णः

अव्यान्मीलत्कलायद्युतिरहिरिपुपिञ्छोल्लसत्केशजालो गोपीनेत्रोत्पलाराधित ललितवपुर्गोपगोवृन्दवीतः । श्रीमद्वक्त्रारविन्द प्रतिहसितशशाङ्काकृतिः पीतवासाः देवोऽसौ वेणुवाद्यक्षपितजनधृतिर्देवकीनन्दनो वः ॥

२४. श्री विष्णुः

विष्णुं भास्वत्किरीटाङ्गदवलयगलाकल्पहारोदराङ्घ्रि- श्रोणीभूषं सवक्षोमणिमकरमहाकुण्डलामण्डिताङ्गम् । हस्तोद्यच्चक्रशङ्खाम्बुजगदममलं पीतकौशेयमाशा- विद्योतद्भासमुद्यद्दिनकरसदृशं पद्मसंस्थं नमामि ॥ अर्कौघाभं किरीटान्वितमकरलसत्कुण्डलं दीप्तिराजत्- केयूरं कौस्तुभाभाशबलरुचिरहारं सपीताम्बरं च । नानारत्नांशुभिन्नाभरणशतयुजं श्रीधराश्लिष्टपार्श्वं वन्दे दोःसक्त चक्राम्बुरुहदरगदं विश्ववन्द्यं मुकुन्दम् ॥ हरिमुज्ज्वल चक्रदराब्जगदा- कुलदोःपरिघं सितपद्मगतम् । वलयाङ्गदहारकिरीटधरं नवकुन्दरुचिं प्रणमामि सदा ॥

२५. श्री सुदर्शन नारायणः

अव्याद्भास्कर सप्रभाभिरखिलाभाभिर्दिशो भासयन् भीमाक्षः क्षरदट्टहास विकसद् दंष्ट्राग्रदीप्ताननः । दोर्भिश्चक्रदरौ गदाब्जमुसलास्त्रासींश्च पाशाङ्कुशौ बिभ्रत्पिङ्ग शिरोरुहोऽथ भवन्तश्चक्राभिधानो हरिः ॥

२६. श्रीकरः विष्णुः

दुग्धाब्धिद्वीपवर्यप्रविलसितसुरोद्यानकल्पद्रुमाधो भद्राम्भोजन्मपीठोपरिगतविनतानन्दनस्कन्धसंस्थः । दोर्भिर्बिभ्रद्रथाङ्गं सदरमथ गदापङ्कजे स्वर्णवर्णो भास्वन्मौलिर्विचित्राभरणपरिगतः स्याच्छ्रिये वो मुकुन्दः ॥

२७. वराहः

जान्वोरापादमुद्यत्कनकमिव हिमप्रख्यमाजानु नाभेः कण्ठादानाभि वह्निप्रभमथ शिरसश्चागलं नीलवर्णम् । मौलेर्व्योमाभमाङ्कं करलसदरिशङ्खासिखेटं गदाश- क्त्याख्येष्टाभीतियुक्तं प्रणमत वसुधोल्लासिदंष्ट्रं वराहम् ॥

२८. नृसिंहः

जान्वोरासक्ततीक्ष्णस्वनख रुचिलसद्बाहुसंस्पृष्टकेशः चक्रं शङ्खं च दोर्भ्यां दधदनलसमज्योतिषा भग्नदैत्यः । ज्वालामालापरीतं रविशशिदहनत्रीक्षणं दीप्तजिह्वं दंष्ट्रोग्रं धूतकेशं वदनमपि वहन् पातु वो नारसिंहः ॥ उद्यद्भास्वत्सहस्रप्रभमशनिनिभत्रीक्षणैर्विक्षरन्तं वह्नीनह्नाय विद्युत्ततिविततसटाभीषणं भूषणैश्च । दिव्यैरादीप्तदेहं निशितनखलसद्बाहुदण्डैरनेकैः संभिन्नं भिन्नदैत्येश्वरतनुमतनुं नारसिंहं नमामि ॥ अव्यान्निर्व्याजरौद्राकृतिरभिविवृतास्योल्लसत्तीक्षणदंष्ट्रः चक्रं शङ्खं च पाशाङ्कुशकुलिशगदादारणाख्यान्दधानः । रक्ताकारश्च नाभेरध उपरि सितो दिव्यभूषाविशेषः देवोऽर्काग्नीन्दुनेत्रो निखिलसुखकरो नारसिंहश्चिरं वः ॥

२९. विश्वरूपो विष्णुः

अग्नीषोमात्मकमरिगदाशार्ङ्गखड्गैः सशङ्खैः उद्यद्बाहुं हलमुसलशूलैः सकुन्तैः सदण्डैः । शक्त्या पाशाङ्कुशकुलिशटङ्काग्निभिश्चार्कवह्नि- द्योतद्वक्त्राङ्घ्रिकसरसिजं तप्तकार्तस्वराभम् ॥ विष्णुं भास्वत्किरीटं मणिमकुटकटीसूत्रकेयूरहार- ग्रैवेयोर्म्यादिमुख्याभरणमणिगणोल्लासिदिव्याङ्गरागम् । विश्वाकाशावकाशप्रविततमयुतादित्यनीकाशमुद्यद्- बाह्वग्रव्यग्रनानायुधनिकरकरं विश्वरूपं नमामि ॥

३०. विष्णुपञ्जरदेवता

नमो भगवते सर्वविष्णवे विश्वरूपिणे । वासुदेवाय चक्रादिसर्वायुधभृते नमः ॥

३१. शिवः

शूलाहीटङ्क घण्टासिसृणिकुलिशपाशाग्न्यभीतीर्दधानं दोर्भिः शीतांशुखण्डप्रतिघटितजटाभारमौलिं त्रिणेत्रम् । नानाकल्पाभिरामापघनमभिमतार्थप्रदं सुप्रसन्नं पद्मस्थं पञ्चवक्त्रं स्फटिकमणिनिभं पार्वतीशं नमामि ॥ बिभ्रद्दोर्भिः कुठारं मृगमभयवरौ सुप्रसन्नो महेशः सर्वालङ्कारदीप्तः सरसिजनिलयो व्याघ्रचर्मात्तवासाः । ध्येयो मुक्तापरागामृतरसकलिताद्रिप्रभः पञ्चवक्त्रः त्र्यक्षः कोटीरकोटीघटिततुहिनरोचिष्कलोत्तुङ्गमौलिः ॥ नमोऽस्तु स्थाणुभूताय ज्योतिर्लिङ्गावृतात्मने । चतुर्मूर्तिवपुश्छायाभासिताङ्गाय शम्भवे ॥ वन्दे हरं वरदशूलकपालहस्तं साभीतिमद्रिसुतयोज्ज्वलदेहकान्तिम् । वामोरुपीठगतया निजवामहस्त- न्यस्तारुणोत्पलरुचा परिरब्धदेहम् ॥ वामाङ्कन्यस्तवामेतरकरकमलायास्तथा वामबाहु- न्यस्तारक्तोत्पलायाः स्तनविधृतिलसद्वामबाहुः प्रियायाः । सर्वाकल्पाभिरामो धृतपरशुमृगेष्टः करैः काञ्चनाभः ध्येयः पद्मासनस्थः स्मरललिततनुः सम्पदे पार्वतीशः ॥

३२. दक्षिणामूर्तिः

मुद्रां भद्रार्थदात्रीं सपरशुहरिणां बाहुभिर्बाहुमेकं जान्वासक्तं दधानो भुजगवरसमाबद्धकक्ष्यो वटाधः । आसीनश्चन्द्रखण्डप्रतिघटितजटः क्षीरगौरस्त्रिणेत्रः दद्यादाद्यैः शुकाद्यैर्मुनिभिरभिनुतो भावशुद्धिं भवो वः ॥ दक्षिणामूर्तये तुभ्यं वटमूलनिवासिने । ध्यानैकनिरताङ्गाय नमो रुद्राय शम्भवे ॥

३३. अघोररुद्रः

कालाभ्राभः कराग्रैः परशुडमरुकौ खड्गखेटौ च बाणे- ष्वासौ शूलं कपालं दधदतिभयदो भीषणास्यस्त्रिणेत्रः । रक्ताकाराम्बरोऽहिप्रवरघटितगात्रोऽरिनागग्रहादीन् खादन्निष्टार्थदायी भवदनभिमतच्छित्तये स्यादघोरः ॥

३४. मृत्युञ्जयः

स्फुटितनलिनसंस्थं मौलिबद्धेन्दुरेखा- गलदमृतजलार्द्रं चन्द्रवह्न्यर्कनेत्रम् । स्वकरकलितमुद्रापाशवेदाक्षमालं स्फटिकरजतमुक्तागौरमीशं नमामि ॥

३५. चिन्तामणिशिवः (अर्धनारीश्वरः)

अहिशशधरगङ्गाबद्धतुङ्गप्तमौलिः त्रिदशगणनताङ्घ्रिस्त्रीक्षणः स्त्रीविलासी । भुजगपरशुशूलान् खड्ग वह्नी कपालं शरमपि धनुरीशो बिभ्रदव्याच्चिरं वः ॥ हावभावलसितार्धनारिकं भीषणार्धमथवा महेश्वरम् । पाशसोत्पलकपालशूलिनं चिन्तये जपविधौ विभूतये ॥

३६. चण्डेश्वरः

अव्यात्कपर्दकलितेन्दुकरः करात्त- शूलाक्षसूत्रककमण्डलुटङ्क ईशः । रक्ताभवर्णवसनोऽरुणपङ्कजस्थो नेत्रत्रयोल्लसित वक्त्रसरोरुहो वः (नः) ॥

३७. गायत्री

मन्दाराह्वयरोचनाञ्जनजपाख्या(खा)भैर्मुखैरिन्दुमद्- रत्नोद्यन्मकुटांशुभिस्तत चतुर्विंशार्णचित्रा तनुः । अम्भोजारिदराह्वयौ गुणकपालाख्ये च पाशाङ्कुशे- ष्टाभीतीर्दधती भवेद्भवदभीष्टोत्तारिणी तारिणी ॥

३८. त्र्यम्बकः

अच्छस्वच्छारविन्दस्थितिरुभयकराङ्कस्थितं पूर्णकुम्भं द्वाभ्यां वेदाक्षमाले निजकरकमलाभ्यां घटौ नित्यपूर्णौ । द्वाभ्यां तौ च स्रवन्तौ शिरसि शशिकलाबन्धुरे प्लावयन्तौ देहं देवो दधानः प्रदिशतु विशदाकल्पजालः श्रियं वः ॥

३९. सवितृजातवेदोदुर्गात्र्यम्बकाः

स्मर्तव्याखिललोकवर्ति सततं यज्जङ्गमस्थावरं व्याप्तं येन च यत्प्रपञ्चविहितं मुक्तिश्च यत्सिद्धितः । यद्वा स्यात्प्रणवत्रिभेदगहनं श्रुत्या च यद्गीयते तद्वः काङ्क्षितसिद्धयेऽस्तु परमं तेजस्त्रयोत्थं महः ॥

४०. संवादाग्निः

धवलनलिनराजच्चन्द्रमध्ये निषण्णं करविलसितपाशं साङ्कुशं साभयं च । सवरदममलेन्दुक्षीरगौरं त्रिणेत्रं प्रणमत सुरवक्त्रं मङ्क्षु संवादयन्तम् ॥

४१. वरुणः

अच्छांशुकाभरणमाल्यविलेपनाढ्यः पाशाङ्कुशाभयवरोद्यतदोस्सरोजः । स्वच्छारविन्दवसतिः सुसितः प्रसन्नो भूयाद्विभूतिविधये वरुणश्चिरं वः ॥

४२. भद्रकाली

सुरौद्रसितदंष्ट्रिका त्रिणयनोर्ध्वकेशोल्बणा कपालपरशूल्लसड्डमरुका त्रिशूलाकुला । घनाघननिभा रणद्रुचिरकिङ्किणीमालिका भवद्विभवसिद्धये भवतु भद्रकाली चिरात् ॥

४३. प्राणशक्तिः

रक्ताम्भोधिस्थपोतोल्लसदरुणसरोजाधिरूढा कराब्जैः पाशं कोदण्डमिक्षूद्भवमथ गुणमप्यङ्कुशं पञ्च बाणान् । बिभ्राणासृक्कपालं त्रिणयनलसिता पीनवक्षोरुहाढ्या देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिस्वरूपा ॥

४४. पार्वती

असकलशशिराजन्मौलिराबद्धपाशा- ङ्कुशरुचिरकराब्जा बन्धुजीवारुणाङ्गी । अमरनिकरवन्द्या त्रीक्षणा शोणलेपां- शुककुसुमयुता स्यात्सम्पदे पार्वती वः ॥

४५. अन्नपूर्णा

रुद्रताण्डवविलोकनलोलां भद्रवक्त्रनयनां भवकान्ताम् । अन्नदाननिरतां जननीं तां चिन्तयञ्जपतु चित्रदुकूलाम् ॥

४६. अश्वारूढा

अश्वारूढा कराग्रे नवकनकमयीं वेत्रयष्टिं दधाना दक्षेऽन्येनानयन्ती स्फुरिततनुलतापाशबद्धां स्वसाध्याम् । देवी नित्यप्रसन्नाननशशधरबिम्बा त्रिनेत्राभिरामा दद्यादाद्यानवद्या प्रवरसुखफलप्राप्तिहृद्यां श्रियं वः ॥

४७. व्यासः

मुनिव्रातावीतं मुदितधियमम्भोदरुचिर- द्युतिं व्याख्यामुद्राकलनविलसद्दक्षिणकरम् । परं जानौ कृत्वा दृढकलितकक्ष्ये कविवरं समासीनं व्यासं स्मरत निरतं पुण्यचरितम् ॥

मङ्गलं

यदाश्रया विप्रकृतिप्रभावतो विभिन्नतारांशसमुत्थितौजसः । जगन्ति पुष्णन्ति रवीन्दुवह्नयो नमोऽस्तु तस्मै परिपूर्णतेजसे ॥ इति जगद्गुरु श्रीशङ्करभगवत्पादविरचित प्रपञ्चसारतः सङ्कलिता ईश्वरध्यानमञ्जरी समाप्ता । Proofread by Aruna Narayanan
% Text title            : ishvara Dhyana Manjari Compiled from Prapanchasara by Shankaracharya
% File name             : IshvaradhyAnamanjarIH.itx
% itxtitle              : IshvaradhyAnamanjarIH (shaNkarAchArasya prapanchasArataH saNkalitA)
% engtitle              : IshvaradhyAnamanjarIH
% Category              : deities_misc, sangraha, dhyAnam, shankarAchArya
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Indexextra            : (Scan, prapanchasAraH 1, 2, bhAShyam)
% Latest update         : August 20, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org