ओङ्कारस्तोत्रं
अकारात्मकः सृष्टिकर्ता स्वयम्भूरुकारात्मकः पालकश्चक्रपाणिः ।
मकारात्मकः शङ्करः शं तनोति तमोङ्कारमादिस्वरूपं नमामि ॥ १॥
अकारे स्थितं देहिनां स्थूलकर्म उकारे स्थितः सूक्ष्मसद्भक्तिभावः ।
मकारे स्थितं कारणं ज्ञानपूर्णं तमोङ्कारमादिस्वरूपं नमामि ॥ २॥
अकाराश्रितं विश्वमूलाश्रयं सत् उकाराश्रितं सर्वभूतान्तरं चित् ।
मकाराश्रितः शुद्ध आनन्दकन्दस्तमोङ्कारमादिस्वरूपं नमामि ॥ ३॥
अकारस्तु सट्त्वं स्वयं ब्रह्मसंस्थं उकारो रजः क्षत्रिये सन्निविष्टम् ।
मकारो विषां दृश्यते तत्तमः स्यात्तमोङ्कारमादिस्वरूपं नमामि ॥ ४॥
अकारस्तु पाताललोकाख्यको भूरुकारो भुवर्भूमिलोकप्रसिद्धः ।
मकारस्तु स्वः कथ्यते स्वर्गलोकस्तमोङ्कारमादिस्वरूपं नमामि ॥ ५॥
अखण्डं निजं निर्गुणं निर्विकल्पं विभुं व्यापकं सर्ववेदादिमूलम् ।
स्मरन्मुच्यते पापतापान्मनुष्यस्तमोङ्कारमादिस्वरूपं नमामि ॥ ६॥
इति तन्त्रसारे ओङ्कारस्तोत्रं सम्पूर्णम् ।
Encoded and proofread by Sumedh Sathaye