श्रीमदभिनव-विद्यातीर्थ-अक्षर-माला-स्तोत्रम्
अखिलानन्दसन्दायिमनोज्ञमुखपङ्कजम् । (अ)
जगद्गुरुं जगत्पूज्यं विद्यातीर्थमहं श्रये ॥ १॥
भिद्यते हृदयग्रन्थिर्दृष्टे यस्मिन्निति श्रुतिः । (भि)
जगौ परावरं शान्तं तं विद्यातीर्थमाश्रये ॥ २॥
नटत्याननरङ्गे हि यस्य साक्षात् सरस्वती । (न)
नतार्तिशमने दक्षं तं विद्यातीर्थमाश्रये ॥ ३॥
वटमूलं परित्यज्य शृङ्गाद्रौ निवसन् हि यः । (व)
तत्त्वं बोधयते भक्तान् दक्षिणास्यं तमाश्रये ॥ ४॥
विषयाशां परित्यज्य वैराग्यं परमं श्रिताः । (वि)
मुनयो यत्कृपाभाजः तं विद्यातीर्थमाश्रये ॥ ५॥
द्यावाभूमी हि जनयन् देव एक इति श्रुतिः । (द्या)
यं वर्णयति सर्वेशं तं विद्यातीर्थमाश्रये ॥ ६॥
तीरे तुङ्गातटिन्या यः तत्त्वं शिष्यान् प्रबोधयन् । (ती)
आस्ते देशिकराजं तं विद्यातीर्थं समाश्रये ॥ ७॥
र्थमपूर्वं श्रुतेर्यस्तु यथावदवबोधयन् । (र्थ)
शिष्यान् धर्मपथासक्तान् कुरुते तमहं श्रये ॥ ८॥
इति श्रीमदभिनव-विद्यातीर्थ-अक्षर-माला-स्तोत्रं सम्पूर्णम् ।