अग्निस्तोत्रम्

अग्निस्तोत्रम्

ॐ नमः सर्वभूतानां साधनाय महात्मने । एकद्विपञ्चधिष्ण्याय राजसूये षडात्मने ॥ १॥ नमः समस्तदेवानां वृत्तिदाय सुवर्चसे । शुक्ररूपाय जगतामशेषाणां स्थितिप्रदः ॥ २॥ त्वं मुखं सर्वदेवानां त्वयात्तं भगवन्हविः । प्रीणयस्यखिलान्देवांस्त्वत्प्राणाः सर्वदेवताः ॥ ३॥ हुतं हविस्त्वय्यनल मेधत्वमुपगच्छति । ततश्च जलरूपेण परिणाममुपैति यत् ॥ ४॥ तेनाखिलौषधीजन्म भवत्यनिलसारथे । औषधीभिरशेषाभिः सुखं जीवन्ति जन्तवः ॥ ५॥ वितन्वते नरा यज्ञांस्त्वत्सृष्टास्वोषधीषु च । यज्ञैर्देवास्तथा दैत्यास्तद्वद्रक्षांसि पावक ॥ ६॥ आप्याय्यन्ते च ते यज्ञास्त्वदाधारा हुताशन । अतः सर्वस्य योनिस्त्वं वह्ने सर्वमयस्तथा ॥ ७॥ देवता दानवा यक्षा दैत्या गन्धर्वराक्षसाः । मानुषाः पशवो वृक्षा मृगपक्षिसरीसृपाः ॥ ८॥ आप्याय्यन्ते त्वया सर्वे संवर्ध्यन्ते च पावक । त्वत्त एवोद्भवं यान्ति त्वय्यन्ते च तथा लयम् ॥ ९॥ अपः सृजसि देवत्वं त्वमत्सि पुनरेव ताः । पच्यमानास्त्वया ताश्च प्राणिनां पुष्टिकारणम् ॥ १०॥ देवेषु तेजोरूपेण कान्त्या सिद्धेष्ववस्थितः । विषरूपेण नागेषु वायुरूपः पतत्त्रिषु ॥ ११॥ मनुजेषु भवान्क्रोधो मोहः पक्षिमृगादिषु । अवष्टम्भोऽसि तरुषु काठिन्यं त्वं महीं प्रति ॥ १२॥ जले द्रवस्त्वं भगवाञ्जवरूपी तथाऽनिले । व्यापित्वेन तथैवाग्ने नभसि त्वं व्यवस्थितः ॥ १३॥ त्वमग्ने सर्वभूतानामन्तश्चरसि पालयन् । त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधः पुनः ॥ १४॥ त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन् । त्वया सृष्टमिदं विश्वं वदन्ति परमर्षयः ॥ १५॥ var स्पष्टमिदं त्वामृते हि जगत्सर्वं सद्यो नश्येद्धुताशन । तुभ्यं कृत्वा द्विजः पूजां स्वकर्मविहितां गतिम् ॥ १६॥ प्रयान्ति हव्यकव्याद्यैः स्वधास्वाहाभ्युदीरणात् । परिणामात्मवीर्याणि प्राणिनाममरार्चित ॥ १७॥ दहन्ति सर्वभूतानि ततो निष्क्रम्य हेतयः । जातवेदस्त्वयैवेदं विश्वं सृष्टं महाद्युते ॥ १८॥ तवैव वैदिकं कर्म सर्वभूतात्मकं जगत् । नमस्तेऽनल पिङ्गाक्ष नमस्तेऽस्तु हुताशन! ॥ १९॥ पावकाद्य नमस्तेऽस्तु नमस्ते हव्यवाहन । त्वमेव सर्वभूतानां पावनाद्विश्वपावनः ॥ २०॥ त्वमेव भुक्तपीतानां पाचनाद्विश्वपाचकः । सस्यानां पाककर्ता त्वं पोष्टा त्वं जगतस्तथा ॥ २१॥ त्वमेव मेघस्त्वं वायुस्त्वं बीजं सस्यहेतुकम् । पोषाय सर्वभूतानां भूतभव्यभवो ह्यसि ॥ २२॥ त्वं ज्योतिः सर्वभूतेषु त्वमादित्यो विभावसुः । त्वमहस्त्वं तथा रात्रिरुभे सन्ध्ये तथा भवान् ॥ २३॥ हिरण्यरेतास्त्वं वह्ने हिरण्योद्भवकारणम् । हिरण्यगर्भश्च भवान्हिरण्यसदृशप्रभः ॥ २४॥ त्वं मुहूर्तं क्षणश्च त्वं, त्वं त्रुटिस्त्वं तथा लवः । कलाकाष्ठानिमेषादिरूपेणासि जगत्प्रभो! ॥ २५॥ त्वमेतदखिलं कालः परिणामात्मको भवान् । या जिह्वा भवतः काली कालनिष्टाकरी प्रभो । तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ २६॥ करालीनाम या जिह्वा महाप्रलयकारणम् । तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ २७॥ मनोजवा च या जिह्वा लघिमागुणलक्षणा । तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ २८॥ करोति कामं भूतेभ्यो या ते जिह्वा सुलोहिता । तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ २९॥ सुधूम्रवर्णा या जिह्वा प्राणिनां रोगदायिका । तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ ३०॥ स्फुलिङ्गिनी च या जिह्वा यतः सकलपुद्गलाः । तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ ३१॥ याते विश्वसृजा जिह्वा प्राणिनां शर्मदायिनी । तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ ३२॥ पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्म हुताशन । त्राहिमां सर्वदोषेभ्यः संसारादुद्धरेह माम् ॥ ३३॥ प्रसीद वह्ने सप्तार्चिः कृशानो हव्य वाहन । अग्निपावक शुक्रादि नामाष्टाभिरुदीरितः ॥ ३४॥ अग्नेऽग्रे सर्वभूतानां समुत्पत्तिरिभावसो । प्रसीद हव्यवाहाख्य, अभिष्टुत मयाव्यय ॥ ३५॥ त्वमक्षयो वह्निरचिन्त्य रूपः समृद्धिमन्दुष्प्रसहाऽतितीव्रः । तवाव्ययं भीममशेषलोक संवर्धकं हन्त्यधवातिवीर्यम् ॥ ३६॥ त्वमुत्तमं तत्त्वमशेष सत्व हृत्पुण्डरीकस्थमनन्तमीड्यम् । त्वया ततं विश्वमिदं चराचरं हुताशनैको बहुधा त्वमत्र! ॥ ३७॥ त्वमक्षयः सगिरिवना वसुन्धरा नभः ससोमार्कमहर्दिवाखिलं! । महोदधेर्जठर गतश्च बाडबो भवान्विभुः पिबति पयांसि पावक ॥ ३८॥ हुताशनस्त्वमिति सदाभि पूज्यसे महाक्रतौ नियमपरैर्महर्षिभिः । अभिष्टुतः पिसिसि च सोममध्वरे वषट्कृतान्यपि च हवीषि भूतये ॥ ३९॥ त्वं विप्रैः सततमिहेज्यसे फलार्थं वेदाङ्गेष्वथ सकलेषु गीय से त्वम् । त्वद्धेतोर्यजन परायणा द्विजेन्द्रा वेदाङ्गान्यधिगमयन्ति सर्वकाले ॥ ४०॥ त्वं ब्रह्मा यजनपरस्तथैव विष्णुः भूतेशः सुरपतिरर्यमा जलेशः । सूर्येन्दू सकल सुरासुराश्च हव्यैः सन्तोष्याऽभिमतफलान्यथाप्नुवन्ति ॥ ४१॥ अर्चिभिः परममहोपघातदुष्टं संस्पृष्टं तव शुचि जायते समस्तम् । स्नानानां परममतीव भस्मना सत्सन्ध्यायां मुनिभिरतीव सेव्यसे तत् ॥ ४२॥ तत्कृत्वा त्रिदिवमवाप्नुवन्ति लोकाः सद्भक्त्या सुखनियताः समूहगतिम् । प्रसीदवह्ने शुचिनामधेय प्रसीद वायो विमलातिदीप्ते ॥ ४३॥ प्रसीद मे पावक वैद्युताभ प्रसीद हव्याशन पाहि मां त्वम् । यत्तेवह्ने शिवं रूपं ये च ते सप्त हेतयः । तैः पाहि न स्तुतोदेव पिता पुत्रमिवात्मजम् ॥ ४४॥ इति श्रीमार्कण्डेयपुराणे भौत्यमन्वन्तरेऽग्निस्तोत्रं सम्पूर्णम् । षण्ण्वतितमोऽध्यायः । Markandeyapurana adhyAya 96, verses 27-72 Verse numbers slightly differ from print to print. Proofread by Lalitha Parameswari parameswari.lalitha at gmail.com, NA
% Text title            : Agni Stotram
% File name             : agnistotram.itx
% itxtitle              : agnistotram (mArkaNDeyapurANAntargatam)
% engtitle              : Agni Stotram
% Category              : deities_misc, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Lalitha Parameswari parameswari.lalitha at gmail.com, NA
% Description/comments  : Markandeya Purana adhyAya 96, verses 27-72
% Latest update         : August 28, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org