श्रीअग्रदेवाचार्याष्टकम्
रामानन्दकृतानन्दभाष्याम्भोजप्रभाकरम् ।
वन्देऽहमग्रदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ १॥
साध्यसाधनभक्त्योश्च शिक्षकं सिद्धपूजितम् ।
वन्देऽहमग्रदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ २॥
ज्ञापकं जीवमायेशतत्त्वानां सात्त्विकं मुनिम् ।
वन्देऽहमग्रदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ३॥
अष्टयामविधानज्ञं रामकीर्त्तनतत्परम् ।
वन्देऽहमग्रदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ४॥
धर्मरक्षापरं सीतारामभक्तिरसाम्बुदम् ।
वन्देऽहमग्रदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ५॥
वादे वादिविजेतारं भक्तिदानेन मुक्तिदम् ।
वन्देऽहमग्रदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ६॥
रहस्यानां त्रयाणां च व्याख्यातारं तपोनिधिम् ।
वन्देऽहमग्रदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ७॥
शिष्याणां पञ्चसङ्कारैवैष्ण्वत्वविधायकम् ।
वन्देऽहमग्रदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीअग्रदेवाचार्याष्टकं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey