अक्षरधामवर्णनम्
सर्वोपरि ह्यखिलधामविभूषणं सच्
चित् सौख्यदं निखिलवेदशिरः प्रगीतम् ।
लक्ष्यायुतं परमयामृतनामधेयं
धामाक्षरं लसति तद् वृषजाङ्गकान्ति ॥ १॥
यन्निर्गुणं सकलविश्वगणात्मकं च
नित्यं निरञ्जनमशोकमनाद्यनन्तम् ।
सत्यं सनातनमलौकिकमेव पूर्णं
धामाक्षरं लसति तद् वृषजाङ्गकान्ति ॥ २॥
नित्यं यदेककिरणेऽक्षरकोटिमुख्याः
सातत्यतश्च परमाणुवदुड्डयन्ते ।
दिव्यं सदाभयमनेकगुणाकरं च
धामाक्षरं लसति तद् वृषजाङ्गकान्ति ॥ ३॥
यत्कान्तितश्च सततं परिभाति सम्यक्
सूर्याग्निचन्द्रभगणादि समग्रविश्वम् ।
तेजोमयं हि सुखबोध्यसुलक्षणञ्च
धामाक्षरं लसति तद् वृषजाङ्गकान्ति ॥ ४॥
खने भेनी अन्तिथी सूर्य, अग्नि, यन्द्र, नक्षत्रनो समूह
यस्यैव दिव्यपरिपूर्णसुखाग्रतस्तु
लोकान्तराणि रुचिराण्यपि सर्वशो हि ।
नूनं व्रजन्ति निरयोपमतां सदैव
धामाक्षरं लसति तद् वृषाङ्गकान्ति ॥ ५॥
दिव्यातिचित्रविभवप्रकरैरुपेतं
दिव्याद्भुतापरिमितोत्तमशक्तियुक्तम् ।
भास्वत्स्वरूपमखिलान्वयमि
धामाक्षरं लसति तद् वृषजाङ्गकान्ति ॥ ६॥
यच्चात्र धर्मप्रमुखाङ्गयुजैव भक्त्या
श्रीधार्मिकस्य करुणार्द्रहृदः प्रसादात् ।
सम्प्राप्यते किल जनैः सुखदं न चान्यै-
र्धामाक्षरं लसति तद् वृषजाङ्गकान्ति ॥ ७॥
ऐश्वर्यशक्तिनिकरं रुचिरञ्च सर्वा-
धारञ्च चित्रमखिलाद्भुतभूरिशोभि ।
कान्तं नितान्तमनवद्यमचिन्त्यमेव
धामाक्षरं लसति तद् वृषजाङ्गकान्ति ॥ ८॥
इति श्रीस्वामिनारायणबापाचरित्रामृतसागरे प्रथमप्रवाहे
द्वितीये तरङ्गे-अक्षरधामवर्णनं सम्पूर्णम् ।