श्री अनन्तपद्मनाभाष्टोत्तरशतनामावलिः

श्री अनन्तपद्मनाभाष्टोत्तरशतनामावलिः

ध्यानम् - अनन्ताय नमस्तुभ्यं सहस्रशिरसे नमः । नमोऽस्तु पद्मनाभाय नागानां पतये नमः ॥ ॐ अनन्ताय नमः । पद्मनाभाय । शेषाय । सप्तफणान्विताय । दर्भात्मकाय । पद्मकराय । पिङ्गभ्रूश्मश्रुलोचनाय । गदाधराय । चतुर्बाहवे । शङ्खचक्रधराय । अव्ययाय । नवाम्रपल्लवाभासाय । ब्रह्मसूत्रविराजिताय । शिलासुपूजिताय । देवाय । कौण्डिन्यव्रततोषिताय । नभस्यशुक्लस्थ चतुर्दशीपूज्याय । फणेश्वराय । सङ्कर्षणाय । चित्स्वरूपाय नमः । २० ॐ सूत्रग्रन्थिसुसंस्थिताय नमः । कौण्डिन्यवरदाय । पृथ्वीधारिणे । पातालनायकाय । सहस्राक्षाय । अखिलाधाराय । सर्वयोगिकृपाकराय । सहस्रपत्रसम्पूज्याय । केतकीकुसुमप्रियाय । सहस्रबाहवे । ॐ सहस्रशिरसे । श्रितजनप्रियाय । बन्धुदुःखहराय । श्रीमते । भवसागरतारकाय । यमुनातीरसदृष्टाय । सर्वनागेन्द्रवन्दिताय । यमुनाराध्यपादाब्जाय । युधिष्ठिरसुपूजिताय । ध्येयाय नमः । ४० ॐ विष्णुपर्यङ्काय नमः । चक्षुःश्रवणवल्लभाय । सर्वकामप्रदाय । सेव्याय । भीमसेनामृतप्रदाय । सुरासुरेन्द्रसम्पूज्याय । फणामणिविभूषिताय । सत्त्वमूर्तये । शुक्लतनवे । नीलवाससे । जगद्गुरवे । अव्यक्तपादाय । ब्रह्मण्याय । सुबह्मण्यनिवासभुवे । अनन्तभोगशयनाय । दिवाकरमुनीडिताय । मधूकवृक्षसंस्थानाय । दिवाकरवरप्रदाय । दक्षहस्तसदापूज्यशिवलिङ्गनिविष्टधिये । त्रिप्रतीहारसन्दृश्यमुखनाभीपदाम्बुजाय नमः । ६० ॐ नृसिंहक्षेत्रनिलयाय नमः । श्रीभूदुर्गासमन्विताय । मत्स्यतीर्थविहारिणे । धर्माधर्माधिरूपवते । महाभोगायुताय । वार्धितीरस्थाय । करुणानिधये । ताम्रपर्णीपार्श्ववर्तिने । महते । धर्मपरायणाय । महाभाष्यप्रणेत्रे । नागलोकेश्वराय । स्वभुवे । रत्नसिंहासनासीनाय । स्फुरन्मकरकुण्डलाय । सहस्रादित्यसङ्काशाय । पुराणपुरुषाय । ज्वलद्रत्नकिरीटाद्याय । सर्वाभरणभूषिताय । नागकन्यावृतप्रान्ताय नमः । ८० ॐ दिक्पालपरिपूजिताय नमः । गन्धर्वगानसन्तुष्टाय । योगशास्त्रप्रवर्तकाय । देववैणीकसम्पूज्याय । वैकुण्ठाय । सर्वतोमुखाय । रत्नाङ्गदलसद्बाहवे । बलभद्राय । प्रलम्बघ्ने । कालिन्दीकर्षणाय । भक्तवत्सलाय । रेवतीप्रियाय । निराधाराय । कपिलाय । कामपालाय । अच्युताग्रजाय । अस्तीकगुरवे । अव्यग्राय । बलदेवाय । महाबलाय नमः । १०० ॐ अजाय नमः । वाताशनाधीशाय । महातेजसे । निरञ्जनाय । सर्वलोकप्रतापाय । सज्वालप्रलयाग्निमुखाय । सर्वलोकैकसंहर्त्रे । सर्वेष्टार्थप्रदायकाय नमः । १०८ ॐ श्रीअनन्तपद्मनाभस्वामिने नमः । इति श्री अनन्तपद्मनाभाष्टोत्तरशतनामावलिः समाप्ता । NA
% Text title            : Ananta Padmanabha Ashtottara Shata Namavali (108 names)
% File name             : anantapadmanAbhAShTottarashatanAmAvalI.itx
% itxtitle              : anantapadmanAbhAShTottarashatanAmAvaliH
% engtitle              : anantapadmanAbhAShTottarashatanAmAvalI
% Category              : aShTottarashatanAmAvalI, deities_misc
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : NA
% Description/comments  : See also nAgadevatAShTottarashatanAmAvaliH and nAgarAjAShTottarashatanAmAvalI
% Latest update         : November 1, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org