श्रीअनन्तपद्मनाभाष्टोत्तरशतनामावलिः २

श्रीअनन्तपद्मनाभाष्टोत्तरशतनामावलिः २

ध्यानं - ततः क्षीरसागरे फणास्सप्तान्वितशेषशायिनं नीलोत्पलदलश्यामं पिङ्गभूश्मश‍ृलोचनं चतुर्भुजं शङ्खचक्रगदापद्मशार्ङ्गनन्दकमुसलादिदिव्यायुधैः परिवेष्टितं गरुडविष्वक्सेनादिभिः संसेव्यमानं - श्रीभूनीलासमेतं कौस्तुभधरं हारनूपुरकेयूर मकुटरत्नकाञ्च्यङ्गुलीयकादिभूषणैरुपशोभितं जयविजयादिद्वारपालकोपेतं यक्षकिन्नरगन्धर्वविद्याधरगुह्यकादिदेवयोनिविशेषैः संसेव्यमानं ब्रह्मेशशक्रादिसुरैः सम्पूज्यमानं निखिलवेदशास्त्रपुराणैरुद्गीयमानं सनकसनन्दनसनत्कुमारसनत्सुजातभृग्वादिमुनि सेवितं श्रीमदनन्तपद्मनाभस्वामिनं ध्यायेत् ॥ ॐ अनन्तपद्मनाभाय नमः । अकारवाच्याय । अवाङ्मनसगोचराय । अनन्तलीलाय । अनन्तश्रिये । अनन्तकीर्तये । अनन्तमाहात्म्याय । अनन्तविद्याप्रभवे । अनन्तदोर्दण्डाय । अनन्तात्मने । अनन्तपूजिताय । अनन्तकामदाय । अनन्तगुणगम्भीराय । अनन्तफलकामदाय । अद्भुतभगवते । अद्भुतबलाय । आदिकर्त्रे । आदित्येशाय । अध्यात्मविद्यायै । आधारनिलयाय नमः । २० ॐ अधिकप्रदाय नमः । अदृष्टाय । अथर्वशत्रवे । अध्यात्मयोगनिलयाय । अनन्ताय । अभयाय । अचिन्त्याय । अचलाय । अच्युताय । अतीन्द्रियाय । अमिताय । अक्षयाय । अर्घ्याय । आत्मतत्त्वाधिकाय । आदिवैद्येशाय । अप्सरोत्तमायै । अर्जुनाय । अक्रूरोद्धवमुख्याय । अस्त्रभृते । अनिरुद्धाय नमः । ४० ॐ अश्वत्थाय नमः । अशेषवृक्षराजाय । अजाय । अनादिब्रह्मचारिणे । अनुल्लङ्घ्याय । आनन्दाय । अन्तर्व्यापिने । अनन्तसाक्षिणे । अनुत्तमाय । असुरान्तकाय । अनिर्देश्यवपुषे । आदिदेवाय । अखिललोकेशाय । अनन्तमन्त्रकोटीशाय । आदिविदुषे । अखण्डितधिये । आदिकूर्माय । अखिलाधाराय । अमरीकृतदेहाय । अद्वितीयतपोमूर्तये नमः । ६० ॐ आदिराजाय नमः । अखिलार्तिहृते । अतीन्द्रियाय । अगस्त्यादिवन्दिताय । असाध्याय । अखिलपुण्यकृते । अव्यक्ताय । अपराजिताय । अक्षरकृते । अघोराय । अरिमर्दनाय । अरिष्टमथनाय । असाध्यैकजगच्छास्त्रे । अप्रमेयाय । अमरप्रभवे । आत्मगुह्याय । आत्मवते । अप्रमेयात्मने । असम्मिताय । अमोघाय नमः । ८० ॐ अमृताय नमः । अनिविउषाय । अग्रगण्याय । आवर्तनाय । अहःसंवर्तकाय । अनलाय । असङ्ख्येयाय । अमृतांशूद्भवाय । अनिलाय । अपान्निधये । अधिष्ठानाय । अशोकाय । अनन्ताय । अतर्क्याय । अनादिमध्यान्ताय । अतिबलाय । अचिन्त्यशक्तये । अरविन्दाक्षाय । अयुतातिरथाधिकाय । अमङ्गलनिवारकाय नमः । १०० ॐ असितकान्तिमते नमः । अक्षराय । आत्मारामाय । अविनाशाय । आगोहराय । आर्तरक्षकाय । अशेषजनसम्मोहनाय । आश्लिष्टश्रीभूनीलादये नमः । १०८ इत्यनन्तपद्मनाभाष्टोत्तरशतनामानि प्रकीर्तितानि । Encoded and proofread by Vani V vanirvs at gmail.com
% Text title            : Anantapadmanabha Ashtottarashatanamavali 2
% File name             : anantapadmanAbhAShTottarashatanAmAvalI2.itx
% itxtitle              : anantapadmanAbhAShTottarashatanAmAvalI 2
% engtitle              : Anantapadmanabha Ashtottarashatanamavali 2
% Category              : aShTottarashatanAmAvalI, deities_misc, nAmAvalI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vani V vanirvs at gmail.com
% Proofread by          : Vani V vanirvs at gmail.com
% Indexextra            : (Kannada)
% Latest update         : December 29, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org