श्रीअर्जुनाचार्याष्टकम्
(जङ्गिदेवाचार्य)
ब्रह्मविद्योपदेष्टारं ब्रह्मोपासनतत्परम् ।
वन्दे श्रीजङ्गिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ १॥
सत्याहिंसादिधर्माणां पालकं च प्रबोधकम् ।
वन्दे श्रीजङ्गिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ २॥
आत्मानात्मविवेकज्ञं चिन्तकं परमात्मनः ।
वन्दे श्रीजङ्गिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ३॥
शिष्याणां पञ्चसंस्कारकर्त्तारं भक्तिदायकम् ।
वन्दे श्रीजङ्गिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ४॥
रहस्यार्थोपदेशेन श्रीसम्प्रदायवर्धकम् ।
वन्दे श्रीजङ्गिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ५॥
विजेतारं च सिद्धानां विदुषां वादिनां तथा ।
वन्दे श्रीजङ्गिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ६॥
श्रीरामानन्दभाष्याणां बोद्धारं चावबोधकम् ।
वन्दे श्रीजङ्गिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ७॥
परात्परतरेशत्वं मन्तारं जानकीपतेः ।
वन्दे श्रीजङ्गिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीअर्जुनाचार्याष्टकं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey