अश्वत्थमहिमास्तोत्रम्

अश्वत्थमहिमास्तोत्रम्

ईश्वरः सर्वभूतानां कृपया वृक्षमाश्रितः ॥ २४॥ चातुर्मास्येऽथ सम्प्राप्ते सर्वभूतदयाकरः । अश्वत्थोऽतः सदा सेव्यो मन्दवारे विशेषतः ॥ २५॥ नित्यमश्वत्थसंस्पर्शात्पापं याति सहस्रधा । दुग्धेन तर्पणं ये वै तिलमिश्रेण भक्तितः ॥ २६॥ सेचनं वा करिष्यन्ति तृप्तिस्तत्पूर्वजेषु च । दर्शनादेव वृक्षस्य पातकं तु विनश्यति ॥ २७॥ पिप्पलः पूजितो ध्यातो दृष्टः सेवित एव वा । पापरोगविनाशाय चातुर्मास्ये विशेषतः । अश्वत्थं पूजितं सिक्तं सर्वभूतसुखावहम् ॥ २८॥ सर्वामयहरं चैव सर्वपापौघहारिणम् । ये नराः कीर्तयिष्यन्ति नामाप्यश्वत्थवृक्षजम् ॥ २९॥ न तेषां यमलोकस्य भयं मार्गे प्रजायते । कुङ्कुमैश्चन्दनैश्चैव सुलिप्तं यश्च कारयेत् ॥ ३०॥ तस्य तापत्रयाभावो वैकुण्ठे गणता भवेत् । दुःस्वप्नं दुष्टचिन्ताञ्च दुष्टज्वरपराभवान् ॥ ३१॥ विलयं नय पापानि पिप्पल त्वं हरिप्रिय । मन्त्रेणानेन ये देवाः पूजयिष्यन्ति पिप्पलम् ॥ ३२॥ ततस्तेषां धर्मराजो जायते वाक्यकारकः । अश्वत्थो वचनेनापि प्रोक्तो ज्ञानप्रदो नृणां। ॥१३३॥ श्रुतो हरति पापं च जन्मादि मरणावधि । अश्वत्थसेवनं पुण्यं चातुर्मास्ये विशेषतः ॥ ३४॥ सुप्ते देवे वृक्षमध्यमास्थाय भगवान्प्रभुः । जलं पृथ्वीगतं सर्वं प्रपिबन्निव सेवते ॥ ३५॥ जलं विष्णुर्जलत्वेन विष्णुरेव रसो महान् । तस्माद्वृक्षगतो विष्णुश्चातुर्मास्येऽघनाशनः ॥ ३६॥ सर्वभूतगतो विष्णुराप्याययति वै जगत् । तथाश्वत्थगतं विष्णुं यो नमस्येन्न नारकी ॥ ३७॥ अश्वत्थं रोपयेद्यस्तु पृथिव्यां प्रयतो नरः । तस्य पापसहस्राणि विलयं यान्ति तत्क्षणात् ॥ ३८॥ अश्वत्थः सर्ववृक्षाणां पवित्रो मङ्गलान्वितः । मुक्तिदो रोपितो ध्यातश्चातुर्मास्येऽघनाशनः ॥ ३९॥ अश्वत्थे चरणं दत्त्वा ब्रह्महत्या प्रजायते । निष्कारणं सङ्कुथित्वा नरके पच्यते ध्रुवम् ॥ ४०॥ मूले विष्णुः स्थितो नित्यं स्कन्धे केशव एव च । नारायणस्तु शाखासु पत्रेषु भगवान्हरिः ॥ ४१॥ फलेऽच्युतो न सन्देहः सर्वदेवैः समन्वितः । चातुर्मास्ये विशेषेण द्रुमपूजी स मुक्तिभाक् ॥ ४२॥ तस्मात्सर्वप्रयत्नेन सदैवाश्वत्थसेवनम् । यः करोति नरो भक्त्या पापं याति दिनोद्भवम् ॥ ४३॥ स एव विष्णुर्द्रुम एव मूर्तो महात्मभिः सेवितपुण्यमूलः । यस्याश्रयः पापसहस्रहन्ता भवेन्नृणां कामदुघो गुणाढ्यः ॥ ४४॥ इति श्रीस्कन्दपुराणे नागरखण्डे सप्तचत्वारिंशाधिकद्विशततमाध्यायान्तर्गतं अश्वत्थमहिमास्तोत्रं समाप्तम् । स्कन्दपुराण । नागरखण्ड । अध्याय २४७/२४-४४॥ skandapurANa . nAgarakhaNDa . adhyAya 247/24-44.. Proofread by PSA Easwaran
% Text title            : Ashvatthamahima Stotram
% File name             : ashvatthamahimAstotram.itx
% itxtitle              : ashvatthamahimAstotram (skandapurANAntargatam)
% engtitle              : ashvatthamahimAstotram
% Category              : deities_misc, skandapurANa, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : skandapurANa | nAgarakhaNDa | adhyAya 247/24-44||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, 8, English)
% Latest update         : August 24, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org