अवलोकितेश्वरहयग्रीवधारणी
नमो रत्नत्रयाय ।
नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय ।
नमः सर्वसत्त्वव्यसनघातिने ।
नमः सर्वसत्त्वव्यसनावहारिणे ।
नमः सर्वसत्त्वभयोत्तारणाय ।
नमः सर्वभवप्रशमनकराय ।
नमः सर्वसत्त्वबोधिचिकित्सङ्कराय ।
नमः सर्वबन्धनच्छेदनपराय ।
नमः सर्वदुःखप्रमोक्षणकराय ।
नमः सर्वान्धकारविधमनकराय ।
नमः सर्वविद्याराजवशप्राप्तये महायोगयोगीश्वराय ।
तस्मै नमस्कृत्वा इदमार्यावलोकितेश्वरमुखोद्गीर्णम् ।
ऋषिविददादेवनागयक्षराक्षसशक्रब्रह्मलोकपालविष्णुमहेश्वरनारायण-
स्कन्दकुबेरासुरेन्द्रमातृगण नमस्कृतं वज्रक्षुरमहीयं
हयग्रीवब्रह्मपरमहृदयमावर्तयिष्यामि ।
अप्रमेयार्थसाधकमसह्यं सर्वभूतानां सर्वविघ्नविनाशकम् ।
अमोघं सर्वकर्मणां विषाणाञ्च विनायनम् ।
तद् यथा
ॐ तरुल तरुल वितरुल वितरुल सर्वविषघातक सर्वभूतविद्रावक
ज्वलितानलविस्फुलिङ्गाट्टहास केसरातोपाप्रवितकाय वज्रक्षुरनिर्गतित
चलितवसुधातल बज्रोदश्वसत हासितमरुतक्षतिप्रशमनकर
परदुष्टविघ्नान् सम्भक्षणकर स्वविद्योपदेशकर परमशान्तिकर
बुद्ध बुद्ध बोधयामिति ।
भगवन् हयग्रीव सर्वविद्याहृदयमावर्तयिष्यामि ।
खाद खाद महारौद्रमन्त्रेण ।
रक्ष रक्ष आत्मस्वहितान् मन्त्रेण ।
सिध्य सिध्य सर्वकर्मसु मे सिद्धे देहि देहि ।
आवेश आवेश प्रवेश प्रवेश सर्वग्रहेषु अप्रतिहत ।
धुन धुन विधुन विधुन मथ मथ प्रमथ प्रमथ सर्ववरोपग्रम ।
कृतकखोर्दो ।
दुर्लङ्घित मूषिक ।
विषकर विषद्रंष्ट्र विषचूर्णयो अभिचारविषकरण ।
सिध्य अञ्जन चक्षुर्मोहन ।
चित्तविक्षोभणकर ।
नित्यापरप्रेक्षण त्रासय त्रासय महाबोधिसत्त्व ऋद्धदंष्ट्रणेन
सर्वभयेभ्यः सत्त्वानां रक्ष रक्ष ।
मम बुद्धधर्मसङ्घानुज्ञातं मे कर्म शीघ्रं कुरु कुरु फट् ।
हयग्रीवाय फट् ।
बज्रक्षुराय फट् ।
वज्रदंष्ट्रोत्कटभयभैरवाय फट् ।
परमन्त्रणनाशनकराय फट् ।
परदुष्टविघ्नान् सम्भक्षणकराय फट् ।
सर्वग्रहोत्सादनकराय फट् ।
सर्वग्रहेषु
अप्रतिहताय फट् । पटलमुखाय फट् ।
ये केचित् मम अहितेषिणः काये क्रमन्ति मन्त्रयण
यमन्ति जुह्वानति काखोर्दं कुर्वन्ति ।
तेन सर्वेणाभिमुखेन वाक्रीहाय फट् ।
नमः सर्वदुष्टग्रहोत्सादनाय हयग्रीवाय सिध्यन्तु मन्त्रपदैः स्वाहा ।
ॐ अमितोद्भवाय हुं फट् फट् स्वाहा ।
ॐ नमो हयाय स्वाहा ।
ॐ नमो विश्वमूर्तये स्वाहा ।
नमः सर्वसत्त्वानां सिध्यन्तु मन्त्रपदाय स्वाहा ॥
११॥
इति अवलोकितेश्वरहयग्रीवधारणी स्तोत्रं सम्पूर्णम् ॥