बलभद्रगीतामृतम्
हलधर ! तव भुवने सञ्चरामि
प्रियतम ! तव चरणं चिन्तयामि ॥ ध्रुवम्
कुञ्चितकेशं चन्द्रविधौतं
मदिरामत्तमहेशं
महोदारराम-शोणितकमल-
लोचनयुगले रासम् ।
रेवतीकान्तं प्रभजामि नित्यं
मदमधु मोदयामि
रटामि ते नाम अटामि ते धाम
कविपुरुषं नमामि ॥ हलधर - १
मणिविग्रहं तुलसीप्रियं
केन्द्रापडा-वीररसं
स्मरणं करोमि तालध्वजराजं
सुविरलसुविकासम् ।
गोपालबालं रोहिणीपालं
सुरवरमर्चयामि
बलदेवानन्दसागरसम्भव-
गुरुवरं वन्दयामि ॥ हलधर - २
इति प्रदीप्तनन्दशर्मविरचितं बलभद्रगीतामृतं गीतं सम्पूर्णम् ।
Composed, encoded, and proofread by
Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com